Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 130
________________ श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् । १०३ इह कचिदरण्ये पर्वतासन्नप्रदेशे समन्तान्निबिडो मुद्गवद् वृत्तत्व-श्लफ्णत्वादिधर्मयुक्तः किञ्चिद् भूतले निमग्नः किञ्चित्तु सप्रकाशश्चिकचिकायमानो बदरादिप्रमाणलघूपलरूपो मुद्गशैलः किलाऽऽसीत् । स च 'गर्जति' साक्षेपं जल्पति । कथम् ? इत्याह-अहं 'आद्रीकर्तुं' जलेन भेत्तुं केनापि न शक्य इति । तच्च मुद्गशैलस्य सम्बन्धि गर्ववचः कुतश्चिन्नारदकल्पाच्छृत्वा संवर्तको नाम महामेघः 'तद्गर्वमद्याहमपनयामि' इति सम्प्रधार्य तं मुद्गशैलं गत्वा' सम्प्राप्य तस्यैवोपरि 'पतति' निरन्तरं मुशलप्रमाणधाराभिर्वर्षतीत्यर्थः । संवर्तकमेघश्चोत्सर्पिण्यां शुभीभवति काले पूर्वदग्धभूम्याश्वासनार्थं वर्षतीत्यागमे प्रतिपाद्यते, तेन 5 भरतक्षेत्रस्य प्रचुरमपि सर्वमशुभानुभावं भूमिरूक्षता-दाहादिकं प्रशस्तस्वकीयोदकेन संवर्त्तयति-नाशयतीति संवर्तक इत्युच्यते, यतस्तस्य सम्बन्धि जलमतीव भूम्यादेविकं वासकं च भवतीति विशेषतस्तस्येह ग्रहणम् । एवं च सप्ताहोरात्राणि महावृष्टिं कृत्वा "ठिओ मेहो" त्ति 'स्थितः' वृष्टेरुपरतोऽसौ मेघः । कया बुद्ध्या ! इत्याह-विउ" त्ति 'द्रावितः' खण्डशो नीतो मयाऽसौ मुद्गशैलः इत्यभिप्रायेणेत्यर्थः । पानीये चापसृते सुतरामुज्ज्वलीभूतोऽसौ चिकचिकायमानो मुद्गशैलः पुनरपि गर्जति । कथम् ? इत्याह-"उल्लो मि न " त्ति आर्दोऽस्म्यहं न वेति सम्यग् निरीक्षस्व भोः पुष्करावर्तक !, किमित्येवमेव स्थितोऽसि ? तिलतुषत्रि- 10 भागमात्रमपि ममाद्यापि न भिद्यते इति । ततो लज्जितो विलक्षीभूतः स्वस्थानमुपाश्रितो मेघः ।। तदेवं मुद्गशैलोदाहरणमभिधायोपनयमाह सेलसममित्यादि । यस्य वचनकोटिभिरपि चित्तं न भिद्यते, एकमप्यक्षरं तन्मध्यान्न परिणमतीत्यर्थः, स एवम्भूतः शैलसमः मुद्गशैलतुल्य इत्यर्थः । तं तथाभूतं शिष्यं ज्ञात्वाऽपि कश्चिद् ग्राहयतीति ग्राहको गुरुःआचार्यस्यैव तज्जाड्यं यच्छिष्यो नावबुध्यते । गावो गोपालकेनेव कुतीर्थेनावतारिताः ॥१॥ [ ] 15 'यथा तरीतुं न शक्नुवन्ति ततो गोपालस्यैव तद् जाड्यम् , न तासाम्' इत्यादिश्लोकार्थविभ्रमितमतिर्गर्वाद् 'अहममुं ग्राहयिष्ये' इति प्रतिज्ञाय समागतः, महता च सरम्भेणाध्यापयितुमारब्धस्तथापि मुद्गशैलोपमः शिष्योऽक्षरमपि न गृहणाति, न च मनागपि स्वाग्रहग्रस्तत्वेन बुध्यते । ततश्चैवं यथा पुष्करावर्तस्तथैव सुचिरं क्लेशमनुभूय 'निर्विद्यते' पराभव्यते, ततो विलक्षीभूतो लज्जितश्च निवर्तते तद्ग्राहणादयमाचार्य इति ॥१॥२॥ एवम्भूतस्य च शिष्यस्य सूत्रार्थदाने आगमे प्रायश्चित्तमुक्तम् । कुतः ? इत्याहपं. १४. आयरिए सुत्तम्मि य परिवाओ, सुत्त-अत्थपलिमंथो। अन्नेसि पि य हाणी, पुट्ठा वि न दुद्धया वंझा ॥ ३ ॥ एवं शैलसमस्यापि शिष्यस्य सूत्रार्थदानप्रवृत्ते आचार्ये 'सूत्रेऽपि च' आगमे 'परिवादः' अवर्णवादो लोकसमुत्थो भवति । तद्यथा-अहो ! नास्य सूरेः प्रतिपादिका शक्तिः, नापि तथाविधं किमपि परिज्ञानम् , यतोऽमुमप्येकं शिष्यमवबोधयितुं न क्षमः, आगमोऽप्यमीषां सम्बन्धी निरतिशयो युक्तिविकलश्च, इतरथा कथमयमेकोऽप्यस्माद् नावबुध्यते ? इत्यादि । तथा सूत्रार्थयोरन्तरायसम्भवात् परिमन्थन-मर्दनं विनाशनं सूत्रार्थपरिमन्थः, तच्छिक्षणप्रवृत्तस्य सूरेरात्मनः सूत्रपठन-परावर्तन-व्याख्यानमङ्गो 25 भवतीत्यर्थः । अपरं च तद्ग्राहणप्रसक्ते सूरौ अन्येषां शिष्याणां सूत्रार्थहानिः, तद्ग्रहणभङ्ग इत्यर्थः । न च बहुनाऽपि कालेन तथाविधः शिष्यः किञ्चिदपि ग्राहयितुं शक्यः । कुतः ? इत्याशङ्कयात्रार्थे दृष्टान्तमाह-"पुद्रा वि" इत्यादि, नियमनेन नियन्त्र्य स्तनेषु करैर्बहुधा स्पृष्टाऽपि वन्ध्या गौर्न खलु दुग्धदा भवति । यद्वा 'पुष्टाऽपि' शरीरोपचिताऽपि वन्ध्या गौर्दुह्यमाना सती वतीति । एवं मुद्गशैलसमः शिष्योऽपि ग्राहणकुशलेनापि गुरुणा ग्राह्यमाणोऽपि नाक्षरमपि गृहणाति, ततस्तादृशस्य यौ, ऐहिका-ऽऽमुष्मिककायक्लेशादिबहुदोषसम्भवात् । ददाति चेत् तर्हि समयोक्तप्रायश्चित्तभागिति । अत्राऽऽह- 30 ननु प्रोक्तोऽसौ मुद्गशैलदृष्टान्तः, केवलं न पाषाण मेघादीनां जल्पोऽभिप्रायपूर्विके च प्रवृत्ति-निवृत्ती इत्यलौकिकमेवेदम् , सत्य किन्तु पूर्वमुनिभिरेवात्रोक्तं प्रतिविधानम् , तद्यथा 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248