________________
श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् ।
१०३ इह कचिदरण्ये पर्वतासन्नप्रदेशे समन्तान्निबिडो मुद्गवद् वृत्तत्व-श्लफ्णत्वादिधर्मयुक्तः किञ्चिद् भूतले निमग्नः किञ्चित्तु सप्रकाशश्चिकचिकायमानो बदरादिप्रमाणलघूपलरूपो मुद्गशैलः किलाऽऽसीत् । स च 'गर्जति' साक्षेपं जल्पति । कथम् ? इत्याह-अहं 'आद्रीकर्तुं' जलेन भेत्तुं केनापि न शक्य इति । तच्च मुद्गशैलस्य सम्बन्धि गर्ववचः कुतश्चिन्नारदकल्पाच्छृत्वा संवर्तको नाम महामेघः 'तद्गर्वमद्याहमपनयामि' इति सम्प्रधार्य तं मुद्गशैलं गत्वा' सम्प्राप्य तस्यैवोपरि 'पतति' निरन्तरं मुशलप्रमाणधाराभिर्वर्षतीत्यर्थः । संवर्तकमेघश्चोत्सर्पिण्यां शुभीभवति काले पूर्वदग्धभूम्याश्वासनार्थं वर्षतीत्यागमे प्रतिपाद्यते, तेन 5 भरतक्षेत्रस्य प्रचुरमपि सर्वमशुभानुभावं भूमिरूक्षता-दाहादिकं प्रशस्तस्वकीयोदकेन संवर्त्तयति-नाशयतीति संवर्तक इत्युच्यते, यतस्तस्य सम्बन्धि जलमतीव भूम्यादेविकं वासकं च भवतीति विशेषतस्तस्येह ग्रहणम् । एवं च सप्ताहोरात्राणि महावृष्टिं कृत्वा "ठिओ मेहो" त्ति 'स्थितः' वृष्टेरुपरतोऽसौ मेघः । कया बुद्ध्या ! इत्याह-विउ" त्ति 'द्रावितः' खण्डशो नीतो मयाऽसौ मुद्गशैलः इत्यभिप्रायेणेत्यर्थः । पानीये चापसृते सुतरामुज्ज्वलीभूतोऽसौ चिकचिकायमानो मुद्गशैलः पुनरपि गर्जति । कथम् ? इत्याह-"उल्लो मि न " त्ति आर्दोऽस्म्यहं न वेति सम्यग् निरीक्षस्व भोः पुष्करावर्तक !, किमित्येवमेव स्थितोऽसि ? तिलतुषत्रि- 10 भागमात्रमपि ममाद्यापि न भिद्यते इति । ततो लज्जितो विलक्षीभूतः स्वस्थानमुपाश्रितो मेघः ।।
तदेवं मुद्गशैलोदाहरणमभिधायोपनयमाह
सेलसममित्यादि । यस्य वचनकोटिभिरपि चित्तं न भिद्यते, एकमप्यक्षरं तन्मध्यान्न परिणमतीत्यर्थः, स एवम्भूतः शैलसमः मुद्गशैलतुल्य इत्यर्थः । तं तथाभूतं शिष्यं ज्ञात्वाऽपि कश्चिद् ग्राहयतीति ग्राहको गुरुःआचार्यस्यैव तज्जाड्यं यच्छिष्यो नावबुध्यते । गावो गोपालकेनेव कुतीर्थेनावतारिताः ॥१॥ [
] 15 'यथा तरीतुं न शक्नुवन्ति ततो गोपालस्यैव तद् जाड्यम् , न तासाम्' इत्यादिश्लोकार्थविभ्रमितमतिर्गर्वाद् 'अहममुं ग्राहयिष्ये' इति प्रतिज्ञाय समागतः, महता च सरम्भेणाध्यापयितुमारब्धस्तथापि मुद्गशैलोपमः शिष्योऽक्षरमपि न गृहणाति, न च मनागपि स्वाग्रहग्रस्तत्वेन बुध्यते । ततश्चैवं यथा पुष्करावर्तस्तथैव सुचिरं क्लेशमनुभूय 'निर्विद्यते' पराभव्यते, ततो विलक्षीभूतो लज्जितश्च निवर्तते तद्ग्राहणादयमाचार्य इति ॥१॥२॥ एवम्भूतस्य च शिष्यस्य सूत्रार्थदाने आगमे प्रायश्चित्तमुक्तम् । कुतः ? इत्याहपं. १४. आयरिए सुत्तम्मि य परिवाओ, सुत्त-अत्थपलिमंथो।
अन्नेसि पि य हाणी, पुट्ठा वि न दुद्धया वंझा ॥ ३ ॥ एवं शैलसमस्यापि शिष्यस्य सूत्रार्थदानप्रवृत्ते आचार्ये 'सूत्रेऽपि च' आगमे 'परिवादः' अवर्णवादो लोकसमुत्थो भवति । तद्यथा-अहो ! नास्य सूरेः प्रतिपादिका शक्तिः, नापि तथाविधं किमपि परिज्ञानम् , यतोऽमुमप्येकं शिष्यमवबोधयितुं न क्षमः, आगमोऽप्यमीषां सम्बन्धी निरतिशयो युक्तिविकलश्च, इतरथा कथमयमेकोऽप्यस्माद् नावबुध्यते ? इत्यादि । तथा सूत्रार्थयोरन्तरायसम्भवात् परिमन्थन-मर्दनं विनाशनं सूत्रार्थपरिमन्थः, तच्छिक्षणप्रवृत्तस्य सूरेरात्मनः सूत्रपठन-परावर्तन-व्याख्यानमङ्गो 25 भवतीत्यर्थः । अपरं च तद्ग्राहणप्रसक्ते सूरौ अन्येषां शिष्याणां सूत्रार्थहानिः, तद्ग्रहणभङ्ग इत्यर्थः । न च बहुनाऽपि कालेन तथाविधः शिष्यः किञ्चिदपि ग्राहयितुं शक्यः । कुतः ? इत्याशङ्कयात्रार्थे दृष्टान्तमाह-"पुद्रा वि" इत्यादि, नियमनेन नियन्त्र्य स्तनेषु करैर्बहुधा स्पृष्टाऽपि वन्ध्या गौर्न खलु दुग्धदा भवति । यद्वा 'पुष्टाऽपि' शरीरोपचिताऽपि वन्ध्या गौर्दुह्यमाना सती
वतीति । एवं मुद्गशैलसमः शिष्योऽपि ग्राहणकुशलेनापि गुरुणा ग्राह्यमाणोऽपि नाक्षरमपि गृहणाति, ततस्तादृशस्य
यौ, ऐहिका-ऽऽमुष्मिककायक्लेशादिबहुदोषसम्भवात् । ददाति चेत् तर्हि समयोक्तप्रायश्चित्तभागिति । अत्राऽऽह- 30 ननु प्रोक्तोऽसौ मुद्गशैलदृष्टान्तः, केवलं न पाषाण मेघादीनां जल्पोऽभिप्रायपूर्विके च प्रवृत्ति-निवृत्ती इत्यलौकिकमेवेदम् , सत्य किन्तु पूर्वमुनिभिरेवात्रोक्तं प्रतिविधानम् , तद्यथा
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org