________________
१०४
मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं .
चरियं च कप्पियं चिय आहरणं दुविहमेव पण्णत्तं । अत्थस्स साहणट्ठा इंधणमिव ओयणढाए ॥१॥ [पिण्डनिगा० ६३०] न वि अस्थि न वि य होही उल्लावो मुग्गसेल-मेहाणं । उवमा खलु एस कया भवियजणविबोहणट्टाए ॥२॥
[उत्तरा० नि० गा० ३०९, अनुयो० पत्र २३२ ] इत्यलं प्रसङ्गेनेति ॥३॥ अथ मुद्गशैलप्रतिपक्षभूतं घनदृष्टान्तमाह5 पं. १५. बुट्टे वि दोणमेहे न कण्हभोमाउ लोहए उदयं ।
गहण-धरणासमत्थे इय देयमछित्तिकारिम्मि ॥ ४॥ यावता वृष्टेनाऽऽकाशबिन्दुभिर्महती गर्गरी भ्रियते तावत्प्रमाणजलवर्षी मेघो द्रोणमेघ उच्यते । तस्मिन् वृष्टेऽपि सति कृष्णा भूमियत्र प्रदेशेऽसौ कृष्णभूमः प्रदेशस्तस्माद् 'न प्रलोठति' बह्वपि तद् मेघजलं पतितं न लुठित्वाऽन्यत्र गच्छति, किन्तु तत्रैवान्तः प्रविशतीति भावः । एवं शिष्योऽपि स कश्चिद् भवति यो गुरुभिरुक्तं बह्वप्यवधारयति, न पुनरक्षरमपि पार्श्वतो गच्छतीति । एव10 म्भूते च सूत्रार्थग्रहण-धारणासमर्थे शिष्ये सूत्रार्थयोः शिष्य-प्रशिष्यपरम्पराप्रदानेनाव्यवच्छेदकारिणि देयं सूत्रार्थजातम् , नान्यस्मिननन्तराभिहितमुद्गशैलकल्पे इति ॥४॥ अन्वय-व्यतिरेकात्मकत्वादेकमेवेदमुदाहरणम् । अथ द्वितीय कुटोदाहरणं विवृण्वन्नाहपं. १६-१८. भाविय इयरे य कुडा अपसत्थ-पसत्थभाविया दुविहा ।
पुप्फाईहिं पसत्था, सुर-तेलाईहिं अपसत्था ॥५॥ वम्मा य अवम्मा वि य, पसत्थवम्मा उ होंति उ अगेज्झा। अपसत्थअवम्मा वि य, तप्पडिवक्खा भवे गज्झा ॥ ६ ॥ कुप्पवयण-ओसण्णेहिं भाविया एवमेव भावकुडा।
संविग्गेहिं पसत्था, वम्माऽवम्मा य तह चेव ।। ७॥ कुटाः-घटाः । ते च तावद् द्विविधाः-एके आपाकोत्तीर्णा नूतना अव्याप्रियमाणत्वादद्यापि पुष्प-जल-तैलादिनाऽभाविताः, अन्ये तु व्याप्रियमाणत्वाद् भाविताः। तत्र भाविता द्विविधाः-सुरभिपाटलाकुसुम-पट्टवासादिप्रशस्तवस्तुभिर्भाविताः प्रशस्तभाविताः१ 20 सुरा-तैलाद्यप्रशस्तवस्तुभावितास्त्वप्रशस्तभाविताः २॥५॥
प्रशस्तभाविताः पुनरपि द्विविधाः-तद्भावं वमयितुं शक्या वाम्याः, तद्विपरीतास्त्ववाम्याः । एवमप्रशस्तभाविता अपि वाम्या-ऽवाम्यभेदद्वयादेव द्विविधाः। तत्र ये प्रशस्तवाम्याः प्रशस्तभावं वमयितुं शक्यास्तेऽग्राह्या भवन्ति, अनादेयाः असुन्दरा इति यावत् । तथा ये प्रशस्तभावं वमयितुमशक्याः अप्रशस्तावाम्यास्तेऽप्यग्राह्या भवन्ति । "तप्पडिवक्खा भवे गज्झ" त्ति तेषां
प्रशस्तवाम्यानामप्रशस्तावाम्यानां च ये प्रतिपक्षाः-प्रशस्तावाम्या अप्रशस्तवाम्याश्च ते 'ग्राह्याः' आदेयाः सुन्दरा भवन्ति ॥६॥ 25 तदेवं द्रव्यकुटास्तावत् प्ररूपिताः । भावकुटा अपि प्रशस्ता-ऽप्रशस्तगुणजलाधारत्वात् शिष्यजीवा एवमेव भाविता
ऽभावितादिभेदाद् द्रष्टव्याः । केवलमत्र पक्षे कुप्रवचना-ऽवसन्नादिभिर्भाविता अप्रशस्तभाविता उच्यन्त इत्यध्याहारः । ये तु संविग्नरेव साधुभिर्भावितास्ते 'प्रशस्ताः' प्रशस्तभाविता इत्यर्थः । “वम्माऽवम्मा य तह चेव” त्ति वाम्या-ऽवाम्यभावना यथा द्रव्यकुटपक्षे तथैव भावकुटपक्षेऽपि द्रष्टव्येत्यर्थः । सा चैवम्-प्रशस्तभाविता वाम्या अप्रशस्तभावितास्त्ववाम्याः एते उभयेऽप्यग्राह्याः,
उक्तविपरीतास्तु ग्राह्या इति ॥७॥ तदेवमुक्तो भावितकुटपक्षः । अथाभावितकुटपक्षमधिकृत्याह30 पं. १९. जे उण अभाविया ते चउव्विहा, अहविमो गमो अन्नो ।
छिहकड भिन्न खंडे सगले य परूवणा तेसिं ॥ ८॥ ये पुनरभाविताः कुटास्ते छिद्र-भिन्न-खण्ड-सकलभेदाच्चतुर्विधाः। अथवा कुटोदाहरणस्य भाविता-अभावितपक्षनिरपेक्ष एवायमन्यश्छिद्र-भिन्नादिको ‘गमः' प्रकारो वर्तते । तमेवाह-“छिदकुडे"त्यादि, इह 'कुटः' घटः कोऽपि तावत् छिद्रः भवति, बुध्ने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org