________________
श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् ।
१०५
सच्छिद्रो भवतीत्यर्थः १ अन्यस्तु 'भिन्नः' राजिमान् भवति २ तृतीयस्तु ‘खण्डः' भग्नकर्णः ३ चतुर्थस्तु 'सकलः' परिपूर्ण एवेति ४ । एतेषां च चतुर्णामपि कुटभेदानां दान्तिकमधिकृत्य प्ररूपगा स्वयमेव कार्या, यथा-कोऽपि शिष्यः श्रुतग्रहणमाश्रित्य छिद्रघटकल्पो भवति, कश्चित्तु भिन्नघटकल्प इत्यादि वाच्यमिति ॥८॥ अथ क्रमप्राप्तं चालन्युदाहरणमभिधित्सुर्मुद्गशैल-च्छिद्रकुटचालन्युदाहरणानां परस्पराभेदोद्भावकशिष्यमतं च निराचिकीर्षुराह. पं. २०-२१. सेले य छिड्डु चालणि मिहो कहा सोउमुट्टियाण तु।
छिड्डाऽऽह, तत्थ बिट्टो सुमरिंसु, सरामि नेदाणिं ॥९॥ एगेण विसइ बीएण नीइ कण्णेण, चालणी आह ।
धन्न त्थ आह सेलो, जं पविसइ नीइ वा तुझं ॥१०॥ शैल-च्छिद्र कुट-चालन्युदाहरणैः प्रतिपादिताः शिष्या अप्युपचारात् तथोच्यन्ते, तत्सादृश्यात् । ततश्च शैल-च्छिद्रकुट-चालन्यभिधानानां शिष्याणां गुर्वन्तिके व्याख्यानं श्रुत्वोत्थायान्यत्र गतानां 'मिथः' परस्परं कथा समभवत् । कीदृशी ? इत्याह- 10 छिड्केत्यादि । छिद्रघटकल्पश्छिदशिष्यः प्राह । किम् ? इत्याह-'तत्र' गुरुसमीपे उपविष्टस्तदुक्तमस्मार्षमहम्, इदानीं तु न किमपि । स्मरामि । छिद्रघटोऽपि ह्येवंविध एव भवति, सोऽपि हि स्थानस्थितो मुद्गादिकं प्रक्षिप्तं धरति, अन्यत्र तूत्क्षिप्य नीतस्य तन्न प्राप्यते, . अधश्छिद्रेण गलित्वा निःसृतत्वात् , अतस्तत्कल्पः शिष्योऽपीथमाहेति भावः ॥९||
छिद्रकुटकल्पेन शिष्येणैवमुक्ते चालनीकल्पः प्राह
एगेणेत्यादि । चालनीकल्पः शिष्यश्चालनी। स प्राह-भोः छिद्रकुट ! शोभनस्त्वं येन गुरुसमीपस्थेन त्वया तावदवधारितं 15 तद्वचः पश्चादेव विस्मृतम्, मम तु गुर्वन्तिके स्थितस्यैकेन कर्णेन विशति द्वितीयेन तु निर्गच्छति, न पुनः किमपि हृदये स्थितम्, कणिक्कादिचालन्या अपि हि जलादिकमुपरिभागेन क्षिप्यते, अधोभागेन तु निर्गच्छति, न तु किमपि सन्तिष्ठते, अतस्तदुपमः शिष्योऽपीत्थमेवाऽऽहेति भावः । तदेवं छिद्रकुट-चालनीभ्यामेवमुक्ते मुद्गशैलः प्राह-धन्न त्येत्यादि, मुद्गशैलो वदति-धन्यावत्र युवाम् , 'यद्' यस्मात् कारणाद् युवयोस्तावत् कर्णयोर्गुरूक्तं किमपि प्रविशति निर्गच्छति वा, मम त्वेतदपि नास्ति, तदुक्तस्य सर्वथाऽपि मध्ये प्रवेशाभावात् , उपलस्यैवंविधत्वादेवेति भाव इति ॥१०॥ तदेवं चालन्युदाहरणस्य स्वरूपमुक्तम् । शैल-च्छिद्रघट- 20 चालन्युदाहरणानां परस्परं विशेषश्चाभिहितः । अथ चालनीप्रतिपक्षमाहपं. २२. तावसखउरकढिणयं चालणिपडिवक्खो , न सवइ दवं पि ।
परिपूणगम्मि उ गुणा गलंति, दोसा य चिट्ठति ॥११॥ चालनीप्रतिपक्षो भवतीति शेषः । किं तत् ? इत्याह-तापसानां भोजनादिनिमित्त उपकरणविशेषः खेउरकठिनकमुच्यते । तच्च किल वंशं शुम्बादिकं च द्रव्यमतिश्लदणं कुट्टयित्वा कमठकाकारं क्रियते । इदं चातिनिबिडत्वाद् 'द्रवं' जलमपि प्रक्षिप्तं न 25 श्रवति, किन्तु सम्यग् धरति, एवं शिष्योऽपि यो गुरुभिराख्यातं सर्वमेव धरति, न तु विस्मरति स ग्राह्यः, चालनीसमस्त्वग्राह्य इति भावः । अथ परिपूणकोदाहरणमाह-परिपूणगेत्या । परिपूणको नाम-सुघरीचिटिकाविरचितो नीडविशेषः, तेन च किल घृतं गाल्यते, ततस्तत्र कचवरमवतिष्ठते, घृतं तु गलित्वाऽधः पतति, एवं परिपूणकसदृशः शिष्योऽप्युपचारात् परिपूर्णकः । तत्र हि श्रुतसम्बन्धिनो गुणाः सर्वेऽपि घृतवद् गलन्ति, दोषास्तु घृतगतकचवरवदवतिष्ठन्ते, श्रुतस्य दोषानेव गृह्णाति, गुणांस्तु सर्वथा परिहरति असौ, अतोऽयोग्य इति भावः ॥११॥ अत्र प्रेर्यमुत्थाप्य परिहरन्नाह
30 १ “चालिन्याः प्रतिपक्षस्तापसस्य भाजनं खउरं बिल्वरस-भल्लातकरसाभ्यां लिप्तत्वात् 'कठिनं' अतिशयेन घनम्" इति बृहत्कल्पटीकायां मलयगिरयः १०३-१ पत्रे ॥
टी०१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org