________________
१०६
मलधारिश्री-श्रीचन्द्रसूरिविनिर्मित
पं. २३. सव्वण्णुप्पामन्ना दोसा हु न संति जिणमए केइ ।
जं अणुवउत्तकहणं अपत्तमासज्ज व हवेज्जा ॥ १२ ॥ ननु 'सर्वज्ञप्रामाण्यात्' 'सर्वज्ञोऽस्य प्रवर्तकः' इति हेतोर्जिनमते दोषाः केचिदपि न सन्तीत्यर्थः, तत् कथमस्य कोऽपि दोषान् ग्रहीष्यति ? असत्वादेवेति भावः, सत्यम्, किन्तु यद्यपि जिनमते दोषा न सन्ति तथाप्यनुपयुक्तस्य गुरोर्यत् कथनं-व्याख्याविधानं 5 तदाश्रित्य दोषा भवेयुरिति सम्बन्धः । अथवा 'अपात्रम्' अयोग्यं शिष्यमङ्गीकृत्य जिनमतेऽपि कुशिष्योत्प्रेक्षिता दोषा भवेयुः, निर्दोषेऽपि हि जिनमतेऽपात्रभूताः शिष्या असतोऽपि दोषानुद्भावयन्त्येवेत्यर्थः । तथा च ते वक्तारो भवन्ति । तद्यथा
पागयभासनिबद्धं को वा जाणइ पणीय केणेयं ? । किं वा चरणेणं तू दाणेण विणा उ हवइ ? त्ति ॥१॥ काया वया य ते च्चिय, ते चेव पमाय अप्पमाया य । मोक्खाहिगारियाणं जोइसजोणीहि किं कजं ॥२॥
[कल्पभाष्य गा. १३०३, ४९७९] 10 को आउरस्स कालो ! मइलंबरधोयणे य को कालो?। जइ मोक्खहेउ नाणं को कालो ! तस्सऽकालो वा ? ॥३॥
[निशीथभाष्य गा. १०] इत्यादि । असन्तश्च सर्वेऽप्यमी दोषाः, बाल-स्त्री-मूढ-मूर्खाणां नृणां चारित्रकाङ्क्षिणाम् । अनुग्रहार्थं तत्वज्ञैः सिद्धान्तः प्राकृतः कृतः ॥१॥
पुव्वभणियं पि जं वत्थु भण्णए तत्थ कारणं अस्थि । पडिसेहो य अणुण्णा वत्थुविसेसोवलंभो वा ॥२॥ 15 इत्यादिना शास्त्रान्तरे विस्तरेण निराकृतत्वादिति ॥१२॥ अथ हंसोदाहरणव्याख्यामाह-- पं. २४. अंबत्तणेण जीहाए कूचिया होइ खीरमुदगम्मि ।
हंसो मोत्तूण जलं आवियइ पयं, तह सुसीसो ॥ १३ ॥ __ दुग्धं जलं च मिश्रयित्वा भाजने व्यवस्थाप्य कोऽपि हंसस्य पानार्थमुपनयति, स च तन्मध्ये चञ्चु प्रक्षिपति, तस्य च जिह्वा स्वभावत एवाम्ला भवति, तेन च जिह्वाया अम्लत्वेन हेतुभूतेनोदकमध्यगतं दुग्धं वित्तुलित्वा 'कूचिकाः' बिन्दुरूपा बुबुदा भवन्ती20 त्यर्थः, ततश्च जलं मुक्त्वा तद् बुबुदीभूतं दुग्धमापिबति हंसः। तथा सुशिष्योऽपि गुरोर्जलस्थानीयान् दोषान् परित्यज्य दुग्धस्थानीयान् गुणान् गृह्णातीत्यर्थ इति ॥१३॥ अथ महिषोदाहरणं विवृण्वन्नाह... पं. २५. सयमवि न पियइ महिसो, न य जूहं पियइ लोडियं उद्गं ।
विग्गह-विगहाहि तहा अथक्कपुच्छाहि य कुसीसो ॥ १४ ॥ स्वयूथेन समं वनमहिषो जलाशये कचिद् गत्वा तन्मध्ये च प्रविश्योद्वर्तन-परावर्तनादिभिस्तथा तज्जलमालोडयति यथा 25 कलुषितं सन्न स्वयं पिबति, नापि तद्यूथम् । एवं कुशिष्योऽपि व्याख्यानमण्डलिकायामुपविष्टो गुरुणाऽन्येन वा शिष्येण सह विग्रह-कलहं उदीरयति, विकथाप्रबन्धं वा कञ्चिच्चालयति, सम्बद्धा-ऽसम्बद्धरूपाभिरनवरतमुपर्युपरिपृच्छाभिश्च तथा कथञ्चिद् व्याख्यानमालोडयति यथा नाऽऽमनः किञ्चित् पर्यवस्यति, नापि शेषविनेयानामिति ॥१४॥ मेषोदाहरणमाहपं. २६. अवि गोपयम्मि वि पिबे सुढिओ तणुयत्तणेण तुंडस्स ।
न करेइ कलुस तोयं मेसो, एवं सुसीसो वि ॥ १५ ॥ 30 'अपि' इति सम्भावने । जलभृते कचिद् गोष्पदेऽपि “सुढिओ" त्ति सङ्कुचिताङ्गः 'मेषः' ऊरणकः पिबेज्जलम् , न च तत् कलुषं करोति । केन हेतुना ? इत्याह-'तनुकत्वेन' अग्रभागे लक्ष्णत्वेन 'तुण्डस्य' मुखस्येति, अग्रपादाभ्यामवनम्य तीक्ष्णेन
१ करोति सं०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org