________________
श्रीहरिभद्रसूरिप्रणीताया नन्दीसूत्रवृत्तेः टिप्पनकम् ।
१०७ मुखेन तथाऽसौ जलं पिबति यथा सर्वथैव कलुषं न भवति । एवं सुशिष्योऽपि तथा गुरोः सकाशान्निभृतः श्रुतं गृह्णाति यथा तस्य परिषदो वा न कस्यचिन्मनोबाधादिकं कालुष्यं भवतीति ॥१५।। मशक-जलूकोदाहरणद्वयविवृतिमाहपं. २७. मसउ व्व तुदं जच्चाइएहिं निच्छुब्भए कुसीसो वि।
जलुगा व अदूमेंतो पियइ सुसीसो वि सुयनाणं ॥ १६ ॥ यथा मशको जत्तून् 'तुदति' व्यथयति, ततश्च वस्त्राञ्चलादिभिस्तिरस्कृत्य दूरीक्रियते, तथा कुशिष्योऽपि जात्यादिदोषोद्धट्ट- 5 नैर्गुरुं 'तुदन्' व्यथमानो 'निष्कास्यते' परिहियत इति । जळूका पुनर्यथाऽसृक् पिबति, न चासृग्मन्तं व्यथयते, तथा सुशिष्योऽपि गुरुभ्यः श्रुतज्ञानं 'पिबति' गृह्णाति, न तु तान् जात्युद्धट्टनादिना दुनोतीति ॥१६॥ बिडाल्युदाहरणमाहपं. २८. छड्डे भूमीए खीरं जह पियइ दुट्ठमज्जारी।
परिसुट्टियाण पासे सिक्खइ एवं विणयभंसी ॥ १७ ॥ यथा दुष्टमार्जारी तथाविधस्वभावतया स्थाल्याः क्षीरं भूमौ छर्दयित्वा पिबति, न पुनस्तत्स्थम् , तथा च सति न तत् 10 तस्यास्तथाविधं किञ्चित् पर्यवस्यति । एवं विनयाद् भ्रश्यतीति विनयभ्रंशी' विनयकरणभीरुः कुशिष्यो गोष्ठामाहिलवत् परिषदुत्थितानां विन्ध्यादीनामिव पार्श्वे 'शिक्षते' श्रुतं गृहणाति, न तु गुरोः समीपे, तद्विनयकरणभयात् । इह च दुष्टमार्जारीस्थानीयः कुशिष्यः, भूमिकल्पास्तु परिषदुत्थिताः शिष्याः, छर्दितदुग्धपानसदृशं तु तद्गतश्रुतश्रवणमिति ॥१७॥ जाहकोदाहरणमाहपं. २९. पाउं थोवं थोवं खीरं पासाइं जाहको लिहइ ।
एमेव जियं काउं पुच्छइ मइमं, न खेएइ ॥ १८ ॥ यथा भाजनगतं क्षीरं स्तोकं स्तोकं पीत्वा 'जाहकः' सेहुलको भाजनस्य पानि लेढि, पुनरपि च स्तोकं तत् पीत्वा भाजनपार्थानि लेढि, एवं पुनः पुनस्तावत् करोति यावत् सर्वमपि क्षीरं पीतमिति । एवं मतिमान् सुशिष्योऽग्रेतनं गृहीतं श्रुतं जित-परिचितं कृत्वा पुनरन्यद् गृह्णाति, एवं पुनः पुनस्तावद् विदधाति यावत् सर्वमपि श्रुतं गुरोः सकाशाद् गृह्णाति, न च गुरुं खेदयतीति ॥१८॥ अथ गोदृष्टान्त उच्यते--
तत्र च केनापि यजमानेन वेदान्तर्गतग्रन्थविशेषाध्ययननिमित्तचरणशब्दवाच्येभ्यश्चतुभ्यो ब्राह्मणविशेषेभ्यो गौः प्रदत्ता, 20 प्रोक्ताश्च तेन ते ब्राह्मणाः-वारकेणासौ भवद्भिर्दोग्धव्येति । अन्येभ्योऽपि च चतुर्व्यश्चरणद्विजेभ्यो गौरेका तेन प्रदत्ता, तेऽपि च तेन तथैवोक्ताः । तत्र च प्रथमद्विजानां मध्ये ज्येष्ठब्राह्मणेनैकेन गौः स्वगृहे नीत्वा दुग्धा, ततश्चारीप्रदानवेलायां चिन्तितं तेन । किम् ? इत्याहपं. ३०. अन्नो दोज्झिहि कल्लं, निरत्ययं किं वहामि से चारिं ?।
चउचरणगवी उ मया, अवण्ण हाणी य बडुयाणं ॥ १९ ॥ तेनैतच्चिन्तितम्-हन्त ! वारकप्राप्तोऽन्यो ब्राह्मणः कल्ये तावदेनां धेनुं धोक्ष्यति, तत् किमद्य निरर्थिकामस्याचारी वहामि ?, कल्येऽन्योऽपि हि तां दास्यति-इति विनिश्चित्य न तस्याश्चारी प्रदत्ता। ततो द्वितीयदिने द्वितीयेनापि धिग्जातीयेन तथैव कृतम् । एवं तृतीयदिने तृतीयेनापि, चतुर्थदिवसे चतुर्थेनापि तथैव चेष्टितम् । इत्थं च चारीविरहिता दुह्यमाना कतिपयदिनमध्ये चतुर्णां चरणानां सम्बन्धिनी सा गौमता । ततश्च तेषां बटूनां गोहत्या समभवत् , जने चावर्णवादो जातः । हानिश्च तेषाम् , ततो यजमानादन्यस्माद्वा पुनर्गवादिलाभाभावादिति ॥१९॥
-
25
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org