________________
१०८
मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं अन्यैस्तु यैश्चतुर्भिश्चरणैर्गौलब्धा तन्मध्ये प्रथमद्विजस्तां दुग्ध्वा चारीप्रदानवेलायामचिन्तयत् । किम् ? इत्याह
[पृष्ठ १७] पं. १. मा मे होज अवण्णो, गोवज्झा वा, पुणो वि न दलेजा।
वयमवि दोज्झामो पुणो, अणुग्गहो अण्णदुद्धे वि ॥ २०॥ 5 मा भूदु जनमध्ये ममावर्णवादः, गोहत्या वा मा भूत् , इतोऽस्याश्चारी प्रयच्छामि, यदि तु न दास्यामि तदा सञ्जातकलङ्केभ्योऽस्मभ्यं पुनर्गवादिकं किमपि कोऽपि न दास्यति, अपरं चैतस्यै चारीप्रदाने को दोषः ? प्रत्युत गुण एव, यतश्चारीप्रदानपुष्टामेनां पुनरपि वारकेणाऽऽगतां वयमेव धोक्ष्यामः, यदि वाऽन्येनापि ब्राह्मणेन दुग्धायामेतस्यामस्माकमेवानुग्रह इति ॥२०॥ अथोपनयमाह
सीसा पडिच्छगाणं भरो त्ति, ते वि य हु सीसगभरो ति। 10
न करेंति, सुत्तहाणी, अण्णत्थ वि दुल्लहं तेसि ॥ २१ ॥ गुरोविनयकर्मणि कर्तव्ये स्वगच्छदीक्षिताः शिष्यास्तावञ्चिन्तयन्ति । किम् ? इत्याह-'प्रतीच्छकानाम् उपसम्पन्नानामागन्तुकशिष्याणामयं गुरोविनयकरणलक्षणः 'भर' आचारः, किमस्माकम् ? तेषामेव साम्प्रतं वल्लभत्वादिति । तेऽपि च प्रतीच्छका एवं सम्प्रधारयन्ति-निजशिष्याणामेवायं भरः, किमस्माकमागन्तुकानामद्य समागतानामन्येार्जिगमिषूणाम् ? इति । एवं सम्प्रधार्य
उभयेऽपि गुरोर्न किश्चिद् विनय-वैयावृत्यादिकं कुर्वन्ति । ततश्च गुरुष्ववसीदत्सु तेषां सूत्रा-ऽर्थहानिः, अन्यत्रापि च गतानां तेषां' 15 दुर्विनीतानां दुर्लभं सूत्रमर्थश्च । उपलक्षणत्वादन्येऽप्यवर्णवादादयो दोषाः स्वयमेवाभ्यूह्याः । अयं च दुर्बिनीतशिष्योपनयः कृतः । सुविनीतविनेयोपनयस्तूक्तविपर्ययेण स्वयमेव कर्तव्य इति ॥२१॥ भेरीदृष्टान्तमाहपं. ३-६. कोमुइया तह संगामिया य उन्भूइया य भेरीओ।
कण्हस्साऽऽसि ण्हु तया, असिवोवसमी चउत्थी उ ॥ २२ ॥ सक पसंसा, गुणगाहि केसवा, नेमिवंद, सुणदंता । आसरयणस्स हरणं, कुमारभंगे य, पुयजुद्धं ॥ २३ ॥ नेहि. जिओ मित्ति अहं, असिवोवसमीए संपयाणं च । छम्मासिय घोसणया पसमइ, न य जायए अन्नो ॥ २४ ॥ आगंतु वाहिखोभो, महिड्ढि मोल्लेण, कंथ, दंडणया ।
अहम आराहण, अन्न भेरि, अन्नस्स ठवणं च ॥ २५ ॥ 25 आसां भावार्थः कथानकेनोच्यते-द्वारवत्यां नगर्यां वासुदेवस्य राज्यं पालयतो गोशीर्षश्रीखण्डमय्यो देवतापरिगृहीतास्तिस्रो
भेर्य आसन् । तद्यथा-कौमुदिकी सामामिकी औद्भतिकीति । तत्राऽऽद्या कौमुदीमहोत्सवाद्युत्सवज्ञापनार्थ वाद्यते, द्वितीया सङ्ग्रामकाले समुपस्थिते सामन्तादीनां ज्ञापनार्थ वाद्यते, तृतीया पुनरुद्भूते आगन्तुके कस्मिंश्चित् प्रयोजने सामन्ता-मात्यादिलोकस्यैव ज्ञापनार्थ वाद्यते । चतुर्थ्यपि गोशीर्षश्रीखण्डमयी भेरी तस्याऽऽसीत्, इयं तु षट्षण्मासपर्यन्ते वाद्यते, यश्च तच्छब्द
शृणोति तस्यातीतमनागतं च प्रत्येक पाण्मासिकमशिवमुपशाम्यति ।।२२।। इयं च प्रकृतोपयोगिनी चतुर्थी मेरीति तदुत्पत्ति30 लिख्यते-कदाचित् सौधर्मदेवलोके समस्तामरसभापुर:सरमभिहितं शक्रेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org