________________
१०२
मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं
15
सर्वाऽप्युच्यते । सचेतनस्य गुणाः पर्यायाश्च वाच्याः अचेतनस्य च । तत्र जीवद्रव्यस्य जीवत्व-चेतनत्वादयः सहवर्तित्वाद् गुणाः, नारकत्वादयश्च क्रमवर्तित्वात् पर्यायाः । अचेतनस्यापि वर्णादयः सहवर्तित्वाद् गुणाः, नव-पुराणादयश्च तस्य क्रमभावित्वात् पर्यायाः । तदुक्तम्सहवत्ति गुणा कमवत्ति पज्जवा जीवतिगुण निरयाई। वण्णाइ पोग्गलगुणा, पजाया नव-पुराणाई ॥१॥[ ]
[पृष्ठ १५] पं. ८. भाषाभिधेया अर्था इत्यादि, सूत्रस्य हि त्रयोव्याख्याप्रकारा भवन्ति-भाषा विभाषा वार्तिकमिति । तत्र भाषा--- सुत्ते जो जं सुत्तालावगनिप्फन्नं धात्वर्थमात्रमेव भाषते स भाषको भण्यते १ । जया तस्स सुत्तस्स जो दोहिं वा तिहिं वा चउहिं वा पगारेहिं अत्थपयाणि विभासइ सो विभासगो भण्णइ २ । जया सव्वपज्जवेहिं अत्थं भासइ तदा व्यक्तीकरणाद
वार्तिककरोऽभिधीयते । अत एवोक्तम्-भाषाभिधेया अर्थाः, अल्पभाषणविषया इत्यर्थः, बहुबहुतरभाषणविषयास्त्वितरे इत्यमीषामयं 10 विभागः। पं. १२. सुकुमालेत्यादिगाथा ४२-सुकुमालकोमलं-अतिमृदु तलं-चरणाधोभागरूपं येषां ते तथा तान् ।
पादान् दूसगणिसत्कान् प्रणमामि । 'प्रशस्तलक्षणान्' चक्र-च्छत्र-पद्म-वज्र-चामर-पताका-शङ्ख-मीन-श्रीवत्स-मन्दर-स्वस्तिक-कलशवृषभ-सिंह-गजप्रभृत्यन्यतरसामुद्रिकशास्त्राभिहितलक्षणोपेतान् । प्रावचनिकाः-तत्कालोचितप्रकृष्टागमवेत्तारः सूरयः तेषां सम्बन्धिनः । ये पठनार्थमागता अन्यगच्छीयास्साधवस्ते प्रतीच्छका अभिधीयन्ते, तैः 'प्रणिपतितान् ' प्रणतान् , अनेन बाहुश्रुत्यमुक्तम् । यद्वा तेषां प्रावचनिकानां दूसगणिनाम्नां सुकुमालादिविशेषणविशिष्टान् पादान् प्रणमामीति देववाचक इदमाह ॥
. [ पृष्ठ १६] पं. ४. अनुयोजयन्तोऽपि श्रुतादिनोपकुर्वन्तोऽपि अयोग्यं जनं दयालवो न खलु भवन्ति महीयांसः, कथम्भूताः सन्तः ? न अवगतः परार्थसम्पादने उपायो यस्तेऽनवगतपरार्थसम्पादनोपायाः सन्तः, येन हि परार्थसम्पादने उपायो ज्ञातो भवति स एव दयालुर्भवति, नेतरः ॥ पं. ६. लाघवं चाऽस्येति, 'लाघवं' हीलां 'अस्य' अध्ययनश्रुतस्य असावयोग्यः सम्पा
दयति, तच्च महतेऽनर्थाय । यत उक्तम्20 अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् । दोषायाभिनवोदीर्णे शमनीयमिव ज्वरे ॥१॥
धर्मशास्त्रार्थवैतथ्यात् प्रत्यपायो महान् भवेत् । रौद्रदुःखौघजनको दुष्प्रयुक्तादिवौषधात् ॥२॥ [ ... पं. ८. आमेत्यादि । अल्पाधारं पात्रं सिद्धान्तरहस्यं कर्तृ 'विनाशयति' धर्मादेभ्रंशयति, यथाऽपक्कघटनिक्षिप्त जलं तमेव घटं 'विनाशयति' स्वरूपाद् भ्रंशयति ॥ पं. १०. तत्राधिकृतगाथामिति, “सेलघण-कुडग-चालणी"त्यादि [गा. ४४] प्रागुपन्यस्ताम् । विनेयजनानुग्रहाय चैनां सभाष्यां व्याख्यानयामः सम्प्रत्येव वयम् । तद्यथा-सेलघण० गाथायां 25 'सेल' त्ति मुद्गशैलः पाषाणविशेषः, घनः-मेघः, मुद्गशैलश्च घनश्च तदुदाहरणं प्रथमम् १। 'कुटः' घटः २ । 'चालनी' प्रतीता ३ । ..'परिपूणकः' सुघरीचिटिकागृहम् ४ । हंस-महिष-मेष-मशक-जेलूका-बिडाल्यः प्रतीताः ५-१० । जाहकः-सेहुलकः ११ । गौः १२ भेरी १३ आभीरी १४ चेति । योग्या-ऽयोग्यशिष्यविषयाणि चतुर्दशैतान्युदाहरणानि इति प्रकृतगाथासक्षेपार्थः ॥
उदाहरणं च द्विविधं भवति-चरितं कल्पितं च । तत्रेह प्रथमं कल्पितमुदाहरणम् । एतच्च भाष्यकारो विवृण्वन्नाहपं. १२-१३. उल्लेऊण न सको, गज्जइ इय मुग्गसेलओ रणे ।
तं संवयमेहो गंतुं तस्सुप्परिं पडइ ॥१॥ रविउ त्ति ठिओ मेहो, उल्लो मि न व त्ति गज्जई सेलो। .
सेलसमं गाहिस्सं निग्विजइ गाहगो एवं ॥२॥ १ जलौको-बिडालाः सं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org