Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 147
________________ १२० मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं लम्बनत्वादवधेरित्ययं भावार्थः । पं. २९-३०. “ओही." गाहा [ सू. २९ गा. ५३ ] "वनिओ एसो" त्ति पाठः, पाठान्तरे “वनिओ दुविहो" त्ति पाठः । [ पृष्ठ ३१ ] पं. ५. नेरइय० गाहा [ सू० २९ गा. ५४ ] । यस्य नैरन्तर्येण सर्वतोभाविनोऽवधेस्तद्वान् जीवोऽभ्यन्तरे वर्तते 5 सोऽभ्यन्तरावधिः । तथा च [आवश्यक] चूर्णिः-'अभंतरावही नाम' जत्थ से ठियस्स ओहिन्नाणं समुप्पन्नं तओ ठाणाओ आरम्भ सो ओहीनाणी निरंतरसंबद्धं संखेजं वा असंखेज वा खेत्तं ओहिणा जाणइ पासइ एस अब्भंतरावही" [विभाग १ पत्र ६३ ] अवधिमतः 'बहिः' बाह्योऽवधिः । अयमर्थः- "जत्थ से ठियस्स ओहिनाणं समुप्पन्नं तम्मि ठाणे सो ओहिनाणी न किंचि पासइ, तं पुण ठाणं जाहे अंतरिय होइ अंगुल-विहत्थिमाईहिं संखेजेहिं असंखेजेहिं वा जोयणेहिं ताहे पासइ, एस बाहिरावही" [आवश्यकचूर्णि विभाग १ पत्र ६२-६३] । एवं चावधे<विव्ये नारका देवास्तीर्थकराश्चावधिज्ञानस्याबाह्या भवन्ति, 10 अवध्युपलब्धस्य क्षेत्रस्यान्तर्वर्तन्ते, अभ्यन्तरवर्तिन एव भवन्ति, अत एवाबाह्यावधय एवैते प्रतिपाद्यन्ते, अभ्यन्तरावधय इत्यर्थः, अवधिप्रकाशितक्षेत्रस्य प्रदीपा इव निजनिजप्रभापटलस्य नैते बहिर्भवन्तीति भावः । तथाऽवधिना 'पश्यन्ति' अवलोकयन्ति, खलुशब्दस्यावधारणार्थत्वात् 'सर्वत एव' सर्वास्वेव दिक्षु विदिक्षु च, न तु देशत इत्यर्थः । 'शेषाः' तिर्यग् मनुष्याः 'देशेनेति' एकदेशेन पश्यन्ति, तत्र वाक्यावधारणविधेरिष्टतः प्रवृत्ते: शेषा एव देशतः पश्यन्ति, न तु शेषा देशत एवेति द्रष्टव्यम् , शेषास्तिर्यग मनुष्याः सर्वतो देशतश्च पश्यन्तीति भावः । ननु 'अवधेरबाह्या भवन्ति' इत्यवध्युपलब्धक्षेत्रस्याभ्यन्तरे नारकादयो वर्तन्ते इत्युक्ते 15 सति 'पश्यन्ति सर्वतः' इति किमर्थ भण्यते ? ये ह्यवधिप्रकाशितक्षेत्रस्य मध्ये वर्तन्ते ते सर्वतः पश्यन्त्येवेति गतार्थत्वादतिरिच्यते ? अत्रोच्यते-यो ह्यसम्बद्धवलयाकारक्षेत्रप्रकाशकावधिर्भवति तद्वान् साध्वादिरवध्युपलब्धक्षेत्रस्यान्तः स्थितोऽपि न सर्वतः पश्यति, अन्तरालादर्शनात् , अतस्तद्वयवच्छेदार्थ कर्तव्यं पश्यन्ति सर्वतः' इति ॥ अथवा पूर्वार्द्वमन्यथा व्याख्यायते-तत्र के नियतावधयः ? के वाऽनियतावधयः ? इति प्रश्ने नारक-देव-तीर्थकरा अवधेरबाह्या भवन्तीति । कोऽर्थः-अवधिज्ञानवन्त एवामी भवन्ति, अवधिज्ञानं नियमेनैषां भवतीत्यर्थः । तत्रापि किममी तेनावधिना सर्वतः 20 पश्यन्ति ? देशतो वा ? इति संशये सत्याह-"पासंति” इत्याद्युत्तरार्द्धम् , अस्य व्याख्या तथैवेति । तत्रैतत् स्यात्-"भवप्रत्ययो नारक-देवानाम्" [तत्त्वार्थ. अ. १ सू. २२] इत्यादिवचनात् तथा-"तिहिं नाणेहि समग्गा तित्थयरा जाव होति गिहवासे ।" [आव० भाष्य गा.११० पत्र १८७] इत्यादिवचनात् पारभविकावधिसमन्वागमात् सिद्धमेव नारक-देव-तीर्थकराणां नियतावधित्वं तत् किमनेन ? 'पश्यन्ति सर्वत एव' इत्येतदस्तु, नैवम् , भवप्रत्ययादिवचसा सिद्धेऽमीषां नियतावधित्वे "ओहिस्सऽबाहिरा होति" त्ति कालस्य नियमोऽयं विधीयते । इदमुक्तं भवति-भवप्रत्ययादिवचनात् सिध्यति नियमेन नारकादीनामवधिमत्त्वम् , परं न ज्ञायते 25 किमाभवक्षयममीषामवधिर्भवति ? आहोस्वित् कियन्तमपि कालं भूत्वाऽसौ प्रतिपतति ? इति, ततश्च "ओहिस्सऽबाहिरा होति" इत्यनेन कालनियमः क्रियते, 'सर्वदा' सर्वकालममीषामवधिर्भवति, न त्वन्तरालेऽपि प्रतिपततीति । आह-यद्येवं तीर्थकृतां सर्वकालावस्थायित्वमवधेविरुध्यते, केवलोत्पत्तौ तदभावात् , न, तेषां केवलोत्पत्तावपि वस्तुतस्तत्परिच्छेदस्याप्यनष्टत्वात् सुतरां केवलज्ञानेन सम्पूर्णानन्तधर्मात्मकवस्तुपरिच्छित्तेः छमस्थकालस्य चाविवक्षितत्वाददोषः ॥ इत्यवधिज्ञानं समाप्तम् ।। [पृष्ठ ३३] 30 अथ मनःपर्यवज्ञाने किश्चिदुच्यते- पं. ७. उत्पत्तिस्वामीत्यादि. उत्पत्तेः स्वामी तस्य मार्गणा-अन्वेषणा 'कीदृक्षस्येदमुपजायते ?' इत्येवंरूपा तस्या द्वारं तेनेति विग्रहः। पं. १३. उक्तं चेत्यादि, अयमत्र सम्बन्धः-राज्ञोपनीतं १-२ अभंतरलद्धी इति पाठः आव० चूर्णौ ॥ ३ बाहिरलंभो आव० चूर्णौ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248