Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 159
________________ । १३२ मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं पुल्विं सुयपरिकम्मियमइस्स जं संपयं सुयाईयं । तन्निस्सियमियरं पुण अणिस्सियं मइचउक्कं तं ॥ १ ॥ [ विशेषा० गा० १६९ ] तत्रापि प्रायो वैनयिकीवर्ज द्रष्टव्यम् , तस्यां श्रुतनिश्रितत्वस्यापि भावात् । पं. १३. मतिज्ञानमेवाधिकृत्य प्रश्नसूत्रमाहेति वदन् [४६] सूत्रे से किं तं आभिणिबोहियनाणं इति पाठोऽशुद्ध इत्याचष्टे, किन्तु “से किं तं मइनाणं 5 इत्ययं भवति । पं. १९. आह-इदमपीत्यादि, कथं पुनरत्रौत्पत्तिक्यादिबुद्धिचतुष्टयेऽवग्रहादयः सम्भवन्ति ? तत्र यथा ते भवन्ति तथा दर्यते किह पडिकुक्कुडहीणो जुझे ? बिंबेणध्वग्गहो, ईहा । किं सुसिलिट्ठमवाओ दप्पणसंकंतबिंब ति ॥ १ ॥ [ विशेषा० गा० ३०४ ] इह किलाऽऽगमेभरहसिल १ मिढ २ कुक्कुड ३ तिल ४ वालुय ५ हत्थि ६ अगड ७ वणसंडे ८ । पायस ९ अइया १० पत्ते ११ खाडहिला १२ पंच पियरो य १३ ॥ [ आव० नि० गा० ९४१] इत्यादिना औत्पत्तिक्यादिबुद्धीनां बहून्युदाहरणान्युक्तानि तन्मध्याच्छेषोपलक्षणार्थ कुक्कुटोदाहरणमाश्रित्योत्पत्तिक्यां बुद्धाववग्रहादयो भाव्यन्ते-राज्ञा नटकुमारकस्य भरतस्य किल बुद्धिपरीक्षणार्थमादिष्टम् , यदुत-अयं मदीयः कुक्कुटो द्वितीयकुक्कुटमन्त रेणैकक एव योधनीयः, ततस्तेन जिज्ञासितं मनसि कथमयं 'प्रतिकुक्कुटहीनः' प्रतिपक्षभूतद्वितीयकुक्कुटवर्जितो युध्येत ! एतच्च 15 जिज्ञासमानस्य तस्य झगित्येव स्फुरितं चेतसि । किम् ? इत्याह- ‘बिम्बेने ति आत्मीयेन प्रतिबिम्बेन पुरो वीक्षितेन दर्पाध्मात त्वादयं युध्यत इत्यवगृहीतमित्यर्थः । एतच्च किम् ? इत्याह- 'अवग्रहः' सामान्येनैव बिम्बमात्रावग्रहणादवग्रहः, मतिप्रथमभेद इत्यर्थः । ईहा तर्हि का ? इत्याह-"ईहा कि सुसिलिटुं" इति किं पुनस्तत् प्रतिबिम्बमस्य योधनाय 'सुश्लिष्टं' सुष्टु युज्यमानकं भवेत् ? किं तडागपयःपूरादिगतम् ! आहोश्चिद् दपणगतम् ? इत्यादिबिम्बविशेषान्वेषणमीहेत्यर्थः । अपायमुपदर्शयति "अवाओ दप्पणसंकंतबिंबं" ति कल्लोलादिभिः प्रतिक्षणमपनीयमानत्वादस्पष्टत्वाच्च जलादिगतबिम्बमिह न युक्तम् , ततः स्थिर20 त्वेन स्पष्टादित्वेन च चरणाघातादिविषयत्वाद् दर्पणसङ्क्रान्तमेव तदत्र युज्यत इत्येवं बिम्बविशेषनिश्चयोऽपाय इत्यर्थः । एवमन्येष्वपि महादयो भावनीयाः । तस्माद् बुद्धिचतुष्टयेऽप्येषां सद्भावात् श्रुतनिश्रितमिदमपीति पराशयः, अत्रापि श्रुतनिश्रितानामवग्रहादीनां प्रदर्शितरीत्या सम्भवादिति ।। पं. २५. औत्पत्तिकी नाम प्रातिभमिति हृदयम् । - [पृष्ठ ४७] 25 पं. ४. वैनयिक्यां "भरनित्थरणे"ति अतिगुरुकार्यस्य निस्तरणे–पारप्रापणे या समर्था । “उभओलोगफलवती" इति तत्रेहलोके सत्कार-द्रव्यादिलाभः, परलोके स्वर्ग-मोक्षादिप्राप्तिरिति ।। [पृष्ठ ४८] __पं. १०. "भरहसिले"त्यादिद्वारगाथा । अस्याः सप्तदशोदाहरणानि, तद्यथा- "भरहसिल" त्ति, भरतशिला १ "पणिय" त्ति पणितं २ वृक्षः ३ "खड्डुग" त्ति मुद्रारत्नं ४ "पड सरड काय उच्चारे" इति पटः ५ सरडः ६ काकाः ७ 30 उच्चारः ८ "गय घयण गोल खंभे" इति गजः ९ “घयण" त्ति भण्डः १० गोल: ११ स्तम्भः १२ “खुड्डग मग्गित्थि पइ पुत्ते" इति क्षुल्लकः १३ मार्गः १४ स्त्री १५ द्वौ पती १६ पुत्रः१७ इति । एतानि सप्तदशापि पदानि तत्तज्ज्ञातसूचामात्रफलान्येवेति न सूक्ष्मेक्षिका कार्या ॥ तत्राऽऽद्यज्ञातस्य सङ्ग्रहगाथा- पं. २९. भरहसिलेत्यादि । भरतः- नटस्तवृत्तान्तगता शिला Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248