________________
।
१३२
मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं पुल्विं सुयपरिकम्मियमइस्स जं संपयं सुयाईयं ।
तन्निस्सियमियरं पुण अणिस्सियं मइचउक्कं तं ॥ १ ॥ [ विशेषा० गा० १६९ ] तत्रापि प्रायो वैनयिकीवर्ज द्रष्टव्यम् , तस्यां श्रुतनिश्रितत्वस्यापि भावात् । पं. १३. मतिज्ञानमेवाधिकृत्य प्रश्नसूत्रमाहेति वदन् [४६] सूत्रे से किं तं आभिणिबोहियनाणं इति पाठोऽशुद्ध इत्याचष्टे, किन्तु “से किं तं मइनाणं 5 इत्ययं भवति । पं. १९. आह-इदमपीत्यादि, कथं पुनरत्रौत्पत्तिक्यादिबुद्धिचतुष्टयेऽवग्रहादयः सम्भवन्ति ? तत्र यथा ते भवन्ति तथा दर्यते
किह पडिकुक्कुडहीणो जुझे ? बिंबेणध्वग्गहो, ईहा ।
किं सुसिलिट्ठमवाओ दप्पणसंकंतबिंब ति ॥ १ ॥ [ विशेषा० गा० ३०४ ] इह किलाऽऽगमेभरहसिल १ मिढ २ कुक्कुड ३ तिल ४ वालुय ५ हत्थि ६ अगड ७ वणसंडे ८ । पायस ९ अइया १० पत्ते ११ खाडहिला १२ पंच पियरो य १३ ॥ [ आव० नि० गा० ९४१]
इत्यादिना औत्पत्तिक्यादिबुद्धीनां बहून्युदाहरणान्युक्तानि तन्मध्याच्छेषोपलक्षणार्थ कुक्कुटोदाहरणमाश्रित्योत्पत्तिक्यां बुद्धाववग्रहादयो भाव्यन्ते-राज्ञा नटकुमारकस्य भरतस्य किल बुद्धिपरीक्षणार्थमादिष्टम् , यदुत-अयं मदीयः कुक्कुटो द्वितीयकुक्कुटमन्त
रेणैकक एव योधनीयः, ततस्तेन जिज्ञासितं मनसि कथमयं 'प्रतिकुक्कुटहीनः' प्रतिपक्षभूतद्वितीयकुक्कुटवर्जितो युध्येत ! एतच्च 15 जिज्ञासमानस्य तस्य झगित्येव स्फुरितं चेतसि । किम् ? इत्याह- ‘बिम्बेने ति आत्मीयेन प्रतिबिम्बेन पुरो वीक्षितेन दर्पाध्मात
त्वादयं युध्यत इत्यवगृहीतमित्यर्थः । एतच्च किम् ? इत्याह- 'अवग्रहः' सामान्येनैव बिम्बमात्रावग्रहणादवग्रहः, मतिप्रथमभेद इत्यर्थः । ईहा तर्हि का ? इत्याह-"ईहा कि सुसिलिटुं" इति किं पुनस्तत् प्रतिबिम्बमस्य योधनाय 'सुश्लिष्टं' सुष्टु युज्यमानकं भवेत् ? किं तडागपयःपूरादिगतम् ! आहोश्चिद् दपणगतम् ? इत्यादिबिम्बविशेषान्वेषणमीहेत्यर्थः । अपायमुपदर्शयति
"अवाओ दप्पणसंकंतबिंबं" ति कल्लोलादिभिः प्रतिक्षणमपनीयमानत्वादस्पष्टत्वाच्च जलादिगतबिम्बमिह न युक्तम् , ततः स्थिर20 त्वेन स्पष्टादित्वेन च चरणाघातादिविषयत्वाद् दर्पणसङ्क्रान्तमेव तदत्र युज्यत इत्येवं बिम्बविशेषनिश्चयोऽपाय इत्यर्थः । एवमन्येष्वपि
महादयो भावनीयाः । तस्माद् बुद्धिचतुष्टयेऽप्येषां सद्भावात् श्रुतनिश्रितमिदमपीति पराशयः, अत्रापि श्रुतनिश्रितानामवग्रहादीनां प्रदर्शितरीत्या सम्भवादिति ।। पं. २५. औत्पत्तिकी नाम प्रातिभमिति हृदयम् ।
- [पृष्ठ ४७] 25 पं. ४. वैनयिक्यां "भरनित्थरणे"ति अतिगुरुकार्यस्य निस्तरणे–पारप्रापणे या समर्था । “उभओलोगफलवती" इति तत्रेहलोके सत्कार-द्रव्यादिलाभः, परलोके स्वर्ग-मोक्षादिप्राप्तिरिति ।।
[पृष्ठ ४८] __पं. १०. "भरहसिले"त्यादिद्वारगाथा । अस्याः सप्तदशोदाहरणानि, तद्यथा- "भरहसिल" त्ति, भरतशिला १ "पणिय" त्ति पणितं २ वृक्षः ३ "खड्डुग" त्ति मुद्रारत्नं ४ "पड सरड काय उच्चारे" इति पटः ५ सरडः ६ काकाः ७ 30 उच्चारः ८ "गय घयण गोल खंभे" इति गजः ९ “घयण" त्ति भण्डः १० गोल: ११ स्तम्भः १२ “खुड्डग मग्गित्थि पइ
पुत्ते" इति क्षुल्लकः १३ मार्गः १४ स्त्री १५ द्वौ पती १६ पुत्रः१७ इति । एतानि सप्तदशापि पदानि तत्तज्ज्ञातसूचामात्रफलान्येवेति न सूक्ष्मेक्षिका कार्या ॥ तत्राऽऽद्यज्ञातस्य सङ्ग्रहगाथा- पं. २९. भरहसिलेत्यादि । भरतः- नटस्तवृत्तान्तगता शिला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org