________________
श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् ।
१३१ मतिज्ञानं भवति, तथा च सत्यनन्तरमवधारणव्याख्यानमुपपन्नं भवति । “सेसयं तु मइनाण"मिति सामान्येनैवोक्ते शेषस्य सर्वस्याप्युत्सर्गेण मतित्वे प्राप्ते सत्यपवादमाह-"मोत्तणं दवसुयं" ति पुस्तकादिलिखितं यद् द्रव्यश्रतं तद् 'मुक्त्वा' परित्यज्यैव शेषं मतिज्ञानं द्रष्टव्यम् , पुस्तकादिन्यस्तं हि भावश्रुतकारणत्वाच्छब्दवद् द्रव्यश्रुतमेवेति कथं मतिज्ञानं स्यात् ? इति भावः । न केवलं श्रोत्रेन्द्रियोपलब्धिः श्रुतम् , किन्तु यश्च शेषेषु चतुर्षु चक्षुरादीन्द्रियेषु श्रुतानुसारिसामिलापविज्ञानरूपोऽक्षरलाभः सोऽपि श्रुतम् , न त्वक्षरलाभमात्रम् , तस्येहा-ऽपायाद्यात्मके मतिज्ञानेऽपि सद्भावादिति । आह-यदि चक्षुरादीन्द्रियाक्षरलाभोऽपि श्रुतं तर्हि यदाद्य- 5 गाथावयवे 'श्रोत्रेन्द्रियोपलब्धिरेव श्रुतम्' इत्यवधारणं कृतं तन्नोपपद्यते, अश्रोत्रेन्द्रियोपलब्धेरपीदानीं श्रुतत्वेन समर्थितत्वात् , नैतदेवम् , शेषेन्द्रियाक्षरलाभस्यापि श्रोत्रेन्द्रियोपलब्धिरूपत्वात् , स हि श्रुतानुसारिसाभिलापज्ञानरूपोऽत्राधिक्रियते, श्रोत्रेन्द्रियोपलब्धिरपि चैवम्भूतैव श्रुतमुक्ता, ततश्च साभिलापविज्ञानं शेषेन्द्रियद्वारेणाप्युत्पन्नम् , योग्यतया श्रोत्रेन्द्रियोपलब्धिरेव मन्तव्यम् , अभिलापस्य सर्वस्यापि श्रोत्रेन्द्रियग्रहणयोग्यत्वादिति । अत्राह-ननु “सोइंदिओवलद्धी होइ सुयं” तथा “अक्खरलंभो य सेसेसु" इत्युभयवचनात् श्रुतज्ञानस्य सर्वेन्द्रियनिमित्तता सिद्धा, तथा "सेसयं तु मइनाण"मिति वचनात् तुशब्दस्य समुच्चयाच मतिज्ञानस्यापि 10 सर्वेन्द्रियकारणता प्रतिष्ठिता, भवद्भिस्त्विन्द्रियविभागान्मति-श्रुतयोर्भेदः प्रतिपादयितुमारब्धः स चैवं न सिध्यति, द्वयोरपि सर्वेन्द्रियनिमित्ततायास्तुल्यत्वप्रतिपादनादिति, अत्रोच्यते, साधूक्तं भवता, किन्तु यद्यपि शेषेन्द्रियद्वारायातत्वात् तदक्षरलाभः शेषेन्द्रियोपलब्धिरुच्यते, तथाप्यभिलापात्मकत्वादसौ श्रोत्रेन्द्रियग्रहणयोग्य एव, ततश्च तत्वतः श्रोत्रेन्द्रियोपलब्धिरेवायम् । तथा च सति परमार्थतः सर्व श्रोत्रविषयमेव श्रुतज्ञानम् , मतिज्ञानं तु तद्विषयं शेषेन्द्रियविषयं च सिद्धं भवति, अत इत्थमिन्द्रियविभागाद मति-श्रुतयोर्भेदो न विहन्यत इत्यलं विस्तरेणेति पूर्वगतगाथासक्षेपार्थः ॥
___ 15 पं. २६. आवरणभेदाच्चेति, मतिज्ञानावरण-श्रुतज्ञानावरणलक्षणावरगभेदात् तदावार्यस्यापि भेदः ।
[पृष्ठ ४६] पं. ७. ननु यथा मति-श्रुताभ्यां सम्यग्दृष्टिर्घटादिकं जानीते व्यवहरति च तथा मिथ्यादृष्टिरपि, तत् किमिति तस्य सत्कं सर्वमप्यज्ञानमुच्यते ? इत्याशङ्कयाऽऽह
सदसदविसेसणाओ, भवहेउ जदिच्छिओवलंभाओ।
नाणफलाभावाओ, मिच्छद्दिहिस्स अण्णाणं ॥१॥ सच्च असच्च सदसती, तयोः अविशेषणं-अविशेषः तस्माद्रेतोः, मिथ्यादृष्टेः सम्बन्धि व्यवहारमात्रेण ज्ञानमपि निश्चयतोऽज्ञानमुच्यते, सतो ह्यसत्त्वेनासद् विशिष्यते, असतोऽपि च सत्त्वेन सद् भिद्यते । मिथ्यादृष्टिश्च घटे सत्व-प्रमेयत्व-मूर्त्तत्वादीन् स्तम्भ-रम्भाऽम्भोरुहादिव्यावृत्तादींश्च पटादिधर्मान् सतोऽप्यसत्त्वेन प्रतिपद्यते, 'सर्वप्रकारैर्घट एवायम्' इत्यवधारणात् । अनेन ह्यवधारणेन सन्तोऽपि सत्त्व-प्रमेयत्वादयः पटादिधर्माः 'न सन्ति' इति प्रतिपद्यते, अन्यथा सत्त्व-प्रमेयत्वादिसामान्यधर्मद्वारेण घटे पटादीनामपि 25 सद्भावात् 'सर्वथा घट एवायम्' इत्यवधारणानुपपत्तेः । 'कथञ्चिद् घट एवायम्' इत्यवधारणे त्वनेकान्तवादाभ्युप प्रसङ्गात , तथा पट-पुट-नट-शकटादिरूपं घटेऽसदपि सत्त्वेनायमभ्युपगच्छति, 'सर्वैः प्रकारैः घटोऽस्त्येव' इत्यवधारणात् । 'स्यादस्त्येव घटः' इत्यवधारणे तु स्याद्वादाश्रयणात् सम्यग्दृष्टित्वप्राप्तेः । तस्मात् सदसतोर्विशेषाभावादुन्मत्तकस्येव मिथ्यादृष्टे बर्बोधोऽज्ञानम् । तथा विपर्यस्तत्वादेव भवहेतुत्वात् तद्बोधोऽज्ञानम् । तथा पशुवध-तिलादिदहन-जलाधवगाहनादिषु संसारहेतुषु मोक्षहेतुत्वबुद्धेर्दया-प्रशम-ब्रह्मचर्या-ऽऽकिञ्चन्यादिषु तु मोक्षकारणेषु भवहेतुत्वाध्यवसायतो यदृच्छोपलम्भात् तस्याज्ञानम् । तथा 30 विरत्यभावेन ज्ञानफलाभावाद् मिथ्यादृष्टेरज्ञानमिति गाथार्थः ।।
20
१ श्रोत्र जेटि० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org