________________
5
मलधारिश्री - श्रीचन्द्रसूरिविनिर्मितं
१३०
रुत्पद्यते सा हन्त ! शब्दस्य द्रव्यश्रुतमात्रत्वाद् द्रव्यश्रुतप्रभवा, न भावश्रुतकारणा, एतत्तु न केनापि वार्यते, किन्त्वेतदेव वयं ब्रूमः, यदुत–भावश्रुतान्मतिर्नास्ति, भावश्रुतपूर्विका मतिर्न भवतीत्यर्थः, द्रव्यश्रुतप्रभवा तु भवतु, को दोषः ? इति गाथार्थः ॥ ३ ॥ ननु भावश्रुतादूर्ध्वं मतिः किं सर्वथा न भवति ? इत्याह
पं. १९.
20
भावश्रुतान्मतिः कार्यतयैव नास्तीत्यनन्तरोक्तगाथावयवेन सम्बन्धः । “न उ कमसो" त्ति क्रमशस्तु मतिर्नास्तीत्येवं न, किं तर्हि ?, क्रमशः साऽस्तीत्येतत् सर्वोऽपि मन्यते, अन्यथा आमरणावधि श्रुतमात्रोपयोगप्रसङ्गात् । यदि क्रमशः स क्रमेण भवन्त्यास्तस्या भवन्तः किं कुर्वन्ति ? इत्याह- क्रमेणेत्यादि, वाशब्दः पातनार्थे, सा च कृतैव, क्रमेण भवन्तीं मर्ति को निवारयति ? | मत्या श्रुतोपयोगों जन्यते, तदुपरमे तु निजकारणकलापात् सदैव प्रवृत्ता पुनरपि मतिरवतिष्ठते, पुनस्तथैव श्रुतम् 10 तथैव च मतिरित्येवं क्रमेण भवन्त्या मतेर्निषेधका वयं न भवाम इत्यर्थः । किम् ? इत्याह- 'यद्' यस्मात् कारणात् 'तत्र' तस्यां मतौं ‘अवस्थानं’ स्थितिर्भवति श्रुतोपयोगात् च्युतस्य, ततः क्रमेण मतिं न निषेधयामः । इदमुक्तं भवति — यथा सामान्यभूतेन सुवर्णेन स्वविशेषरूपाः कङ्कणा -ऽङ्गुलीयकादयो जन्यन्ते अतस्ते तत्कार्यव्यपदेशं लभन्त एव, सुवर्ण त्वतज्जन्यत्वात् तत्कार्यतया न व्यवहियते, तस्य कारणान्तरेभ्यः काञ्चनोपलादिभ्यः सिद्धत्वात् । कङ्कणादिविशेषोपरमे तु सुवर्णावस्थानं क्रमेण न निवार्यते, एवं मत्याऽपि सामान्यभूतया स्वविशेषरूपः श्रुतोपयोगो जन्यतेऽतस्तत्कार्यं स उच्यते, मतिस्त्वतज्जन्यत्वात् तत्कार्यतया न व्यपदिश्यते, 15 तस्या हेत्वन्तरात् तदावरणक्षयोपशमात् सदा सिद्धत्वात् स्वविशेषभूतश्रुतोपयोगोपरमे तु क्रमायातं मत्यवस्थानं न निवार्यते, आमरणान्तं केवलश्रुतोपयोगप्रसङ्गादिति गाथार्थः ॥ ४ ॥
कज्जता, न उ कमसो, कमेण वा को महं निवारेइ ? | जं तत्थावत्थाणं तस्स सुतोवओगाओ ॥ ४ ॥
पं. २१. लक्षणभेदाद् हेतु-फलभावाच्च भेदोऽनयोरभिहितः । सम्प्रति भेदविभागात् तमाह- इतश्चेत्यादि,
पंचाहे वि इंदिएहिं मणसा अत्थोग्गहो मुणेयव्वो । चक्खिदिय - मणरहियं वंजणमीहाइयं छद्धा ॥१॥ [ जीवस ०गा० ६२] इत्यष्टाविंशतिविधत्वम् ।
पं. २३. सोइंदिओवलद्धी होइ. सुयं, सेसयं तु मइनाणं । मोणं व्वयं अक्खरलंभो य सेसेसु ॥ १ ॥
इन्द्रः–जीवः, तस्येदमिन्द्रियम् । श्रूयतेऽनेनेति श्रोत्रम्, तच्च तदिन्द्रियं चेति श्रोत्रेन्द्रियम्, उपलम्भनमुपलब्धिः - ज्ञानम्, श्रोत्रेन्द्रियेणोपलब्धिः श्रोत्रेन्द्रियोपलब्धिरिति तृतीयासमासः, श्रोत्रेन्द्रियस्य वा उपलब्धिः श्रोत्रेन्द्रियोपलब्धिरिति षष्ठीसमासः, श्रोत्रेन्द्रियद्वारकं ज्ञानमित्यर्थः, श्रोत्रेन्द्रियेणोपलब्धिर्यस्येति बहुव्रीहिणाऽन्यपदार्थे शब्दोऽप्यधिक्रियते, ततश्चाऽऽद्यसमासद्वये 25 श्रोत्रेन्द्रियद्वारकमभिलापप्लावितोपलब्धिलक्षणं भावश्रुतमुक्तं द्रष्टव्यम्, बहुव्रीहिणा तु तस्यां भावश्रुतोपलब्धावनुपयुक्तस्य वदतो द्रव्यश्रुतम्, तदुपयुक्तस्य तु वदत उभयश्रुतमभिहितं वेदितव्यम् । इह च व्यवच्छेदफलत्वात् सर्वं वाक्यं सावधारणं भवति, इष्टतश्चावधारणविधिः प्रवर्त्तते, ततः 'चैत्रो धनुर्द्धर एव' इत्यादिष्विवेहायोगव्यवच्छेदेनावधारणं द्रष्टव्यम्, तद्यथा— श्रुतं श्रोत्रेन्द्रियोपलब्धिरेव, न तु श्रोत्रेन्द्रियोपलब्धिः श्रुतमेवेति । श्रोत्रेन्द्रियोपलब्धिस्तु श्रुतं मतिर्वा भवति, यथा धनुर्द्धरचैत्रोऽन्यो वेति, श्रोत्रेन्द्रियपलब्धेरवग्रहेहादिरूपाया मतित्वात् श्रुतानुसारिण्यास्तु श्रुतत्वादिति । यदि पुनः 'श्रोत्रेन्द्रियोपलब्धिः श्रुतमेव' इत्यवधार्येत तदा 30 तदुपलब्धेर्मतित्वं सर्वथैव न स्यात्, इष्यते च कस्याश्चित् तदपीति भावः । यदि श्रोत्रेन्द्रियोपलब्धिः श्रुतं तर्हि शेषं किं भवतु ? इत्याह—“सेसयं तु” इत्यादि, श्रोत्रेन्द्रियोपलब्धि विहाय 'शेषकं' यच्चक्षुरादीन्द्रियचतुष्टयोपलब्धिरूपं तद् मतिज्ञानं भवतीति वर्तते । तुशब्दः समुच्चये, स चैवं समुच्चिनोति, न केवलं शेषेन्द्रियोपलब्धिर्मतिज्ञानं किन्तु श्रोत्रेन्द्रियोपलब्धिश्व काचिदवग्रहेहादिमात्ररूपा
Jain Education International
For Private Personal Use Only
www.jainelibrary.org