________________
10
श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् ।
१२९ अन्यथा मत्यभावे तद् गृहीतमपि प्रणश्येदेवेत्यर्थः । श्रुतज्ञानस्यैते पूरण-प्रापण-पालनादयोऽर्था विशिष्टाभ्यूह-धारणादीनन्तरेण कर्तु न शक्यन्ते, अभ्यूहादयश्च मतिज्ञानमेवेति सर्वथा श्रुतस्य मतिरेव कारणं श्रुतं तु कार्य इति कारण-कार्यरूपत्वाद् मति-श्रुतयोर्भेदः। पं. १३. भावश्रुतान्मतिर्नास्तीति, भावश्रुतपूर्विका मतिर्न भवतीत्यर्थः, द्रव्यश्रुतप्रभवा तु भवतु, को दोषः ? ।
पं. १४. यद्वेति, भावश्रुतान्मति स्ति, कार्यतयैव निषिध्यते, न पुनः क्रमेणेति । क्रमशस्तु मतिर्नास्तीत्येवं न, किन्तु क्रमशो मतिरस्त्येव, क्रमेण जायमानां मर्ति को निवारयति । तथाहि-मत्या श्रुतोपयोगो जन्यते, तदुपरमे तु निजकारणात् 5 प्रवृत्ता पुनरपि मतिरवतिष्ठते, पुनस्तथैव श्रुतं तथैव च मतिरित्येवं क्रमेण भवन्ती मतिरिष्यत एव, यस्मात् श्रुतोपयोगात् श्रुतस्य मताववस्थितिर्भवति, श्रुतोपयोगोपरमे कमायातं मत्यवस्थानं न निवार्यते, अन्यथा आमरणान्तं केवलश्रुतमात्रोपयोगप्रसङ्गात् । पं. १६. अथ श्रुतस्य परो मतिपूर्वतां विघटयन्नाह
नाणाणण्णाणाणि य समकालाइं जओ मइ-सुयाइं ।
तो न सुयं मइपुव्वं मइनाणे वा सुयन्नाणं ॥१॥ इह मति-श्रुते वक्ष्यमाणयुक्त्या द्विविधे-सम्यग्दृष्टानस्वरूपे, मिथ्यादृष्टस्त्वज्ञानस्वभावे । तत्र ज्ञाने अज्ञाने वैते प्रत्येकं समकालमेव भवतः, तत्क्षयोपशमलाभस्याऽऽगमे युगपदेव निर्देशात् । यतश्चैते ज्ञाने अज्ञाने च मति-श्रुते पृथक पृथक समकाले भवतः ततो न श्रुतं मतिपूर्व युज्यते, नहि सममेवोत्पन्नयोः सव्येतरगोविषाणयोरिव पूर्व-पश्चाद्भावः सङ्गच्छते । अथोत्सूत्रोऽप्यसदाग्रहवशात् स पूर्व-पश्चाद्भावो न त्यज्यते इत्याह "मइनाणे वा" इत्यादि । इदमुक्तं भवति-मतिज्ञाने समुत्पन्ने तत्समकालं च श्रुतज्ञानेऽनभ्युपगम्यमाने श्रुताज्ञानं जीवस्य प्रसज्यते, श्रुतज्ञानानुत्पादेऽद्यापि तदनिवृत्तेः, न च ज्ञाना-ऽज्ञानयोः समकालमवस्थिति- 15 रागमे कचिदप्यनुमन्यते, विरोधात् , ज्ञानस्य सम्यग्दृष्टिसम्भवित्वात् , अज्ञानस्य तु मिथ्यादृष्टिभावित्वादिति गाथार्थः ॥ १॥
अत्र प्रतिविधानमाहपं. १७. इह लद्धिमइ-सुयाई समकालाई, न तूवओगो सिं।
मइपुव्वं सुयमिह पुण सुओवओगो मइप्पभवो ॥२॥ ननु ध्यान्थ्यविजृम्भितमिदं परस्य, अभिप्रायापरिज्ञानात् । तथाहि-द्विविधे मति-श्रुते-तदावरणक्षयोपशमरूपलब्धितः उपयोग- 20 तश्च । तत्रेह लब्धितो ये मति-श्रुते ते एव समकालं भवतः, यस्त्वनयोरुपयोगः स युगपन्न भवत्येव, किन्तु केवलज्ञान-दर्शनयोरिव तथास्वाभाव्यात् क्रमेणैव प्रवर्तते । अत्र तर्हि लब्धिमङ्गीकृत्य मतिपूर्वता श्रुतस्योक्ता भविष्यतीति चेत् , नैवमित्याह-मतिपूर्व श्रुतम् , इह तु श्रुतोपयोग एव मतिप्रभवोऽङ्गीक्रियते, न लब्धिरिति भावः । श्रुतोपयोगो हि विशिष्टमन्तर्जल्पाकारं श्रुतानुसारि ज्ञानमभिधीयते, तच्चावग्रहेहादीनन्तरेणाऽऽकस्मिकं न भवति, अवग्रहादयश्च मतिरेवेति तत्पूर्वता श्रुतस्य न विरुध्यत इति गाथार्थः ॥ २॥ तदेवं मतिपूर्वं श्रुतमिति समर्थितम् । परस्तु मतेरपि श्रुतपूर्वताऽऽपादनेनाविशेषमुद्भावयन्नाह--
____25 सोऊण जा मई में सा सुयपुव त्ति तेण न विसेसो।
सा दव्वसुयप्पभवा भावसुयाओ मई नत्थि ॥ ३ ॥ परस्मात् शब्दं श्रुत्वा तद्विषया 'भे' भवतामपि या मतिरुत्पद्यते सा 'श्रुतपूर्वा' श्रुतकारणैव, शब्दस्य श्रुतत्वेन प्रागुक्तत्वात् , तस्याश्च मतेः शब्दप्रभवत्वेन भवतामपि सिद्धत्वात् । ततश्च "न विसेसो” त्ति अन्योन्यं पूर्वभावितायां मति-श्रुतयोर्न विशेष इत्यर्थः, तथा च सति "न मई सुयपुब्विय" त्ति यदुक्तं प्राक् तदयुक्तं प्राप्नोतीति भावः । अत्रोत्तरमाह-परस्माच्छब्दमाकर्ण्य या मति- 30
१ श्रुताज्ञान जेटि० ॥ २ श्रुतं पूर्व यस्याः जेटि० ॥ टी०१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org