________________
१२८
मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं
जगत्प्रतीतमेवेति स एव श्रुततां प्रामोति, नाऽऽत्मनः परिणामविशेषः, अत्रोच्यते, तत्खतो जीवः श्रुतम्, ज्ञान- ज्ञानिनोरभेदाद जीवः शृणोतीति कृत्वा श्रुतकारणत्वात् श्रुतशब्दः स्यादुपचारतः । पं. २. प्रकारान्तरेणापि मति श्रुतयोर्लक्षणभेदमाह एतदुक्तमित्यादिना ——–इन्द्रियाणि च मनश्च तानि निमित्तं यस्य तत् तथा, इन्द्रिय-मनोद्वारेण यद् विज्ञानमुपजायते तत् श्रुतम्, श्रुतज्ञानमित्यर्थः । इन्द्रिय-मनोनिमित्तं च मतिज्ञानमपि भवत्यतस्तद्वयवच्छेदार्थमाह - श्रुतग्रन्थानुसारिणेति, श्रूयते इति श्रुतं - शब्द 5 उच्यते, स च सङ्केतगोचरपरोपदेशरूपः श्रुतग्रन्थात्मकचेह गृह्यते, तदनुसारेण यदुपजायते तत् श्रुतज्ञानम्, नान्यत् । एतदुक्तं भवति-सङ्केतकालप्रवृत्तं श्रुतग्रन्थसम्बन्धिनं वा घटादिशब्दमनुसृत्य वाच्य वाचकभावेन संयोज्य 'घटो घटः' इत्याद्यन्तर्जल्पाकारमन्तःशब्दोल्लेखान्वितमिन्द्रियादिनिमित्तं यद् ज्ञानमुदेति तत् श्रुतज्ञानमित्यर्थः । शेषमिन्द्रिय मनोनिमित्तमश्रुतानुसारेण यदवग्रहादि ज्ञानं तन्मतिज्ञानमित्यर्थः । तदुक्तम् —
इंदिय-मणोनिमित्तं जं विन्नाणं सुयाणुसारेण । निययत्थुत्तिसमत्थं तं भावसुयं, मई से सं ॥ १॥ [ विशेषा ०गा० १०० ] सुगमा । नवरमिन्द्रियादिनिमित्तं यद् ज्ञानमुदेति तत् श्रुतज्ञानम् । तच्च कथम्भूतम् ? निजकार्थोक्तिसमर्थम्, अभिलाप्यवस्तुविषयमित्यर्थः, स्वरूपविशेषणमेतत् शब्दानुसारिगो ज्ञानस्य निजकार्थोक्तिसामर्थ्याव्यभिचारात् । अत्राऽऽह कश्चित् - ननु यदि शब्दोल्लेखसहितं श्रुतज्ञानमिष्यते, शेषं तु मतिज्ञानम्, तदा वदयमाणस्वरूपोऽवग्रह एव मतिज्ञानं स्याद्, न पुनरीहा-पायादयः, तेषां शब्दोल्लेखसहितत्वात्, मतिज्ञानभेदत्वेन चैते प्रसिद्धाः, मतिज्ञानभेदानां चेहा-ऽपायादीनां साभिलापत्वेन श्रुतज्ञानप्राप्तिश्च स्यादित्युभयलक्षणसङ्कीर्णता, अत्रोच्यते - यद्यपीहादयः साभिलापास्तथापि न तेषां श्रुतरूपता, श्रुतानुसारिण एव साभिलाप15 ज्ञानस्य श्रुतत्वात् । अथावग्रहादयः श्रुतनिश्रिता एवं सिद्धान्ते प्रोक्ताः, तन्न, पूर्वं श्रुतपरिकर्मितमतेरेव ते समुपजायन्त इति श्रुतनिश्रिता उच्यन्ते, न पुनर्व्यवहारकाले श्रुतानुसारित्वमेतेष्वस्ति, तदा हि अभ्यासपाटववशात् परोपदेशसङ्केतितशब्दानुसरणमन्तरेणैवाक्षरादिप्रवाचने ईहादिप्रवृत्त्यनुपलक्षणात् कथं श्रुतानुसारित्वं तत्र सङ्गच्छते ! अमुकस्मिन् ग्रन्थे एतदित्थमभिहितमित्येवं श्रुतग्रन्थानुसरणं विनाऽपि पट्वभ्यासवशादनवरतं विकल्पपरम्परापूर्वकविविधवचनप्रवृत्तिदर्शनाच्च । यत्र तु श्रुतानुसारित्वं तत्रेहादिषु श्रुतरूपताऽस्माभिरपि न निषिध्यते, तस्मात् श्रुतानुसारित्वाभावेन श्रुतत्वाभावादीहा-पाय-धारणानां मतिज्ञानत्वमेव, न 20 श्रुतज्ञानत्वम् । किञ्च–नेह मति श्रुतयोः परमाणु-करिणोरिवाऽऽत्यन्तिको भेदः समन्वेषणीयः, यतः प्रागिहैवोक्तम् - विशिष्टः कश्चिन्मतिविशेष एव श्रुतमिति वल्कसदृशं मतिज्ञानं तज्जनितदवरिकारूपं श्रुतज्ञानम् । न च बल्क- शुम्बयोः परमाणु-कुञ्जरवदात्यन्तिको भेदः, किन्तु कारण-कार्यभावकृत एव स चेहाप्यस्ति मतेः कारणत्वेन श्रुतस्य तु कार्यत्वेनाभिधास्यमानत्वात् । न च कारण-कार्ययोरैकान्तिको भेदः, कनक-कुण्डलादिषु मृत्पिण्ड - कुण्डादिषु च तथाऽदर्शनात् । तस्मादवग्रहापेक्षयाऽनभिलापत्वाद् ईहाद्यपेक्षया साभिलापत्वात् साभिलापा- ऽनभिलापं मतिज्ञानं अश्रुतानुसारि च सङ्केतकालप्रवृत्तस्य श्रुतग्रन्थसम्बन्धिनो वा शब्दरूपस्य श्रुतस्य 25 व्यवहारकालेऽननुसरणात् । श्रुतज्ञानं तु साभिलापमेव श्रुतानुसार्येव च सङ्केतकालप्रवृत्तस्य श्रुतग्रन्थसम्बन्धिनो वा शब्दरूपस्य श्रुतस्य व्यवहारकालेऽवश्यमनुसरणादिति स्थितम् ॥ पं. ५. इत्थं लक्षणभेदाद् भेदोऽभिहितः । सम्प्रति हेतु-फलभावादनयोर्भेदं दर्शयति “मइपुव्वं सुयं, न मई सुयपुव्त्रिया" इत्यनेन - यदि ह्येकत्वं मति श्रुतयोर्भवेत् तदा एवम्भूतो नियमेन पूर्वपश्चाद्भावो घट-तस्त्वरूपयोरिव न स्यात्, अस्ति चायम्, ततो भेद इति भावः । पृ धातुः पालन- पूरणयोरर्थयोः पठ्यते, तस्य च पिपर्तीति पूर्वमिति निपात्यते। पूर्वशब्दश्चायमिह कारणपर्यायो द्रष्टव्यः, कार्यात् पूर्वमेव कारणस्य भावात् सम्यग्ज्ञानपूर्विका सर्व30 पुरुषार्थसिद्धिरित्यादौ तथादर्शनात् । ततश्च मतिपूर्वं श्रुतमिति कोऽर्थः ? श्रुतज्ञानं कार्यं मतिस्तु तत्कारणम्, कार्य-कारणयोश्च मृत्पिण्ड - घटयोरिव कथञ्चिद् भेद: प्रतीत एव । पं. ६. किमिति पुनर्मतिः पूर्वं कारणमस्य श्रुतस्य : इत्याह- तथा वेदमित्यादि, अनुप्रेक्षादिकालेऽभ्यूह्याम् श्रुतपर्यायवर्धनेन मत्यैव श्रुतज्ञानं पूर्यते - पोष्यते, पुष्टिं नीयत इत्यर्थः, तथा मत्यैवान्यतस्तत् प्राप्यते-गृह्यतेऽन्यस्मै दीयते वा, न मतिमन्तरेणेत्यर्थः, तया गृहीतं सदेतत् परावर्तन - चिन्तनद्वारेण मत्यैव पाल्यते - स्थिरीक्रियते,
?
10
Jain Education International
For Private Personal Use Only
www.jainelibrary.org