________________
श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् ।
१२७
रणत्वाद् द्रव्यश्रुतमेवेत्यर्थः । अथवा तानर्थान् भाषते केवली, वाग्योगश्चायं शब्दराशिरस्य भाषमाणस्य भवति, तेषां श्रोतृणां भावश्रुतकारणत्वात् श्रुतमसौ भवति । पदघटनाकृत एव विशेषः, अर्थः स एवेति गाथार्थः ॥
[पृष्ठ ४४] पं. १४. अनयोश्चेत्यादि, ‘मतिपूर्वकत्वात् श्रुतस्य विशिष्टमत्यंशरूपत्वाद्वा श्रुतात् प्रथमतो मतिज्ञानमेवोच्यते' इत्यादिकं प्रयोजनमुक्तम् [पत्र १९ पं. १८]। पं. २६. स्वामित्वादिभिर्विशेषाभावाद् मति-श्रुतयोरेकतैव प्राप्ता, न भेदः स्यात् , 5 तथा च सति न परोक्षद्वैवियसिद्धिः ज्ञानपञ्चकसिद्धिर्वा, धर्मभेदे हि वस्तूनां भेदः स्यात्, धर्माभेदे तु घट-तत्स्वरूपयोरिवाभेद एव श्रेयानिति पराशयः । अत्राऽऽचार्यः प्रत्युत्तरयति लक्षणभेदादित्यादिना, यद्यपि स्वामि-कालादिभिर्मति-श्रुतयोरेकत्वं तथापि लक्षण-कार्य-कारणभावादिभिर्नानात्वमस्येव, घटा-काश-धर्मा-ऽधर्मादीनामपि हि सत्व-प्रमेयत्वा-ऽर्थक्रियाकारित्वादिभिः साम्येऽपि लक्षणादिभेदाद् भेद एव । यदि पुनर्बहुभिर्धमैर्भेदे सत्यपि कियद्धर्मसाम्यमात्रादेवार्थानामेकत्वं प्रेर्येत तदा सर्वं विश्वमेकं स्यात् । किं हि नाम तद् वस्त्वस्ति यस्य वस्वन्तरैः सह कैश्चिद् धमैन साम्यमस्ति, तस्मात् स्वाम्यादिभिस्तुल्यत्वेऽपि लक्षणा- 10 दिभिर्मति-श्रतयोर्भेदः । ते च मति-श्रुतभेदनिबन्धना लक्षणादयः सम्पिण्डयैकगाथयोच्यन्ते । सा चेयम् -
लक्खणभेया हेउ-फलभावओ भेय-इंदियविभागा । वाग-ऽक्खर-मूएयरभेया भेओ मइ-सुयाणं ॥१॥ [विशेषा० गा० ९७]
'लक्षणभेदाद्' भिन्नलक्षणत्वान्मति-श्रुतयोर्भेदः । तथा मतिज्ञानं हेतुः श्रुतं तु तत्फलं-तत्कार्यमिति हेतु-फलभावात् तयोभेंदः । तथा "भेय" त्ति विभागशब्दो अत्रापि युज्यते, ततश्च भेदानां विभागः-विशेषो भिन्नत्वं भेदविभागस्तस्मादपि मति-श्रुतयोभेंदः । अवग्रहादिभेदादष्टाविंशत्यादिभेदं हि मतिज्ञानं वक्ष्यते, “अक्खर सगी सम्म"मित्यादिवदयमाणवचनाच्चतुर्दशादिभेदं 15 च श्रुतज्ञानमिति भेदविभागात् तयोरुंद इति भावः । "इंदियविभाग" त्ति तत्वतः श्रोत्रविषयमेव श्रुतज्ञानम् , शेषेन्द्रियविषयमपि मतिज्ञानमित्येवं वक्ष्यमाणादिन्द्रियविभागाच्च तयोर्भेदः । “वागे"त्यादि, वल्कश्च अक्षरं च मूकं च वल्कादिप्रतिपक्षभूतानीतराणि च वल्का-ऽक्षर-मूकेतराणि तैर्योऽसौ भेदस्तस्मादपि मति-श्रुतयोर्भेद इत्यर्थः । तथाहि
“अन्ने मन्नंति मई वागसमा, सुंबसरिसयं सुत्तं ।" [विशेषा० गा० १५४] इत्यादिना ग्रन्थेन कारणत्वाद् वल्कसदृशं मतिज्ञानम् , शुम्बसदृशं तु श्रुतज्ञानम् , कार्यत्वादित्यभिहितम् । तत्र वल्कः-पलाशादित्वग्रूपः, शुम्बं तु इतरशब्देनेहोपात्तम् , 20 तज्जनिता दवरिकोच्यते । ततश्चायमभिप्रायः-यथा वलनादिसंस्कृतो विशिष्टावस्थाप्राप्तः सन् वल्को दवरिकेत्युच्यते, तथा परोपदेशाहद्वचनसंस्कृतविशिष्टावस्थाप्राप्तं सद् मतिज्ञानं श्रुतमभिधीयत इत्येवं वल्केतरभेदान्मति-श्रुतयोर्भेदः। तथा
“अन्ने अणक्खर-ऽक्खरविसेसओ मइ-सुयाई भिंदन्ति ।।
__ज मइनाणमणक्खरमक्खरमियरं च सुयनाणं ॥१॥" [विशेषा० गा० १६२] इत्यक्षरेतरभेदात् तयोर्भेदः । तथा
"स-परप्पच्चायणओ भेओ मूएयराण वाऽभिहिओ।
जं मूयं मइनाणं स-परप्पच्चायगं सुत्तं ॥१॥" [विशेषा० गा० १७१] इति वचनान्मूकेतरभेदाद मति-श्रुतयोर्भेद इति गाथार्थः ॥
[पृष्ठ ४५] पं. १. तत्रानयोर्लक्षणभेदाद् भेदं तावत् सूत्रकारः प्राह 'अभिनिबुध्यते' इत्यादिना-यद् ज्ञानं कर्तृ वस्तु कर्मतापन्न- 30 मभिनिबुध्यते-अवगच्छति तद् ज्ञानमाभिनिबोधिकम् , मतिज्ञानं तदित्यर्थः, यजीवः शृणोति तत् श्रुतम् इत्येवं सूत्रोक्तलक्षणभेदादनयोर्भेदः । यदि 'यदात्मा शृणोति तत् श्रुत'मिति श्रुतस्य लक्षणमुच्यते तर्हि शब्दमेव जीवः शृणोतीति सकल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org