________________
१२६
मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं जाणइ ? नो इणटे समटे । से केणद्वेणं भंते ! एवं वुच्चइ ? गो० ! सागारे से नाणे भवइ, अणागारे से दंसणे भवइ, से तेणद्वेणं एवं वुच्चईत्यादि । केवली णं भंते ! मणूसे परमाणुपोग्गलं जं समयं जाणइ तं समयं पासइ ? जं समयं पासइ तं समयं जाणइ ? णो इणद्वे० । से केणटेणं भंते ! एवं वुच्चइ ? गो० ! सागारे से नाणे भवइ, अणागारे से दंसणे भवइ, से एएणष्टेणं एवं वुच्चई" त्यादि [पत्र ७५५] । एवं प्रज्ञापनोक्तमपि द्रष्टव्यम् । तदेवं सिद्धान्ते स्फुटाक्षरैर्युगपदुपयोगे निषिद्धेऽपि किमिति सर्वानर्थमूलं 5 तदभिमानमुत्सृज्य क्रमोपयोगो नेष्यते ? इति ॥ १६ ॥
[पृष्ठ ४३] पं. १५. सूत्रक्रमोद्देशत इति, नन्द्यादिसूत्रे इत्थमेव तस्य निर्देशात् । शुद्धित इति, केवलस्य हि सर्वावरणक्षयसम्भवत्वेन सर्वोत्कृष्टत्वात् सर्वोपरिवर्तिनी विशुद्धिः । लाभत इति, लाभोऽपि केवलस्य शेषज्ञानानन्तरं पश्चादेव भवतीति मनःपर्याय
ज्ञानादनन्तरं केवलज्ञानमुपन्यस्तम् , अतस्तदर्थसूचकोऽयमथशब्दः । 'अथ' अनन्तरं केवलज्ञानमुच्यते । कथम्भूतम् ? इत्याह10 सर्वाणि च तानि द्रव्याणि च सर्वद्रव्याणि-जीवादीनि, तेषां परिणमनानि परिणामाः-प्रयोग-विस्रसोभयजन्या उत्पादादयः सर्व
द्रव्यपरिणामाः, तेषां भावः-सत्ता स्वलक्षणं वा तस्य विविधं विशेषेण वा ज्ञपनं-प्रबोधनं विज्ञप्तिः, अथवा विविधं विशेषेण वा ज्ञानम्-अवबोधः परिच्छित्तिर्विज्ञप्तिः, तस्याः केवलज्ञानादभेदेऽपि विवक्षितभेदयोः कारणं हेतुर्विज्ञप्तिकारणम् , सर्वद्रव्य-क्षेत्र
न्तिपयोयत्वादनन्तम् । शश्वद्भावात् शाश्वतम् , सततोपयोगमित्यर्थः । तथा 'अप्रतिपाति' अव्ययम् , सदाऽवस्थायीत्यर्थः । समस्तावरणक्षयसम्भूतत्वाद् 'एकविधं' भेदविमुक्तम् । 'केवलं' परिपूर्णम् , 15 समस्तज्ञेयावगमात् , मत्यादिज्ञाननिरपेक्षत्वाद् असहायं वा केवलम् , तच्च तद् ज्ञानं च केवलज्ञानमिति गाथार्थः ।।
पं. ३०. केवलनाणे० गाहा । इह समुत्पन्नकेवलज्ञानस्तीर्थकरादिः 'अर्थान्' धर्मास्तिकायादीन् मूर्ता-ऽमूर्त्ता-ऽभिलप्याऽनभिलप्यान् केवलज्ञानेनैव 'ज्ञात्वा' अवबुध्य, न तु श्रुतज्ञानेन, तस्य क्षायोपशमिकत्वात् केवलिनश्चावरणस्य सर्वथा क्षीणत्वेन तत्क्षयोपशमाभावात् ; नहि सर्वविशुद्धे पटे देशविशुद्धिः सम्भवति, तद्वदिहापीति भावः । ततः किम् ? इत्याह-'तत्र' तेषामर्थानां
मध्ये ये प्रज्ञापनायाः-प्ररूपणाया योग्याः 'तान्' अभिलप्यान् भाषते, नेतराननभिलप्यान् । प्रज्ञापनीयानपि न सर्वानेव भाषते, 20 तेषामनन्तत्वात् , आयुषस्तु परिमितत्वात् , किं तर्हि ? योग्यानेव भाषते ग्रहीतृशक्त्यपेक्षया, यो हि यावतां योग्य इति, यत्र
वाऽभिहिते शेषमनुक्तमपि विनेयोऽभ्यूहति । तदपि योग्य भाषते, यथा ऋषभसेनादीनामुत्पादादिपदत्रयोपन्यासेनैव शेषगतिः । तत्र केवलज्ञानोपलब्धार्थाभिधायकः शब्दराशि ष्यमाणस्तस्य भगवतः “वइजोग” त्ति वाग्योग एव भवति, न तु श्रुतम् , नामकर्मोदयजन्यत्वात् । तत्र नामकर्मेह भाषापर्याप्तिसामर्थ्य शरीरनाम वा, तस्योदयजन्यत्वाद् वाक्परिस्पन्दस्य, श्रुतस्य च क्षायोपशमि
कत्वात् । ज्ञानमप्यस्य केवलिनः क्षायिकत्वात् केवलमेव, न भावश्रुतम् । आह-ननु वाग्योगो वाक्परिस्पन्दो वाग्वीर्यमित्यना25 न्तरम् , अयं च भवतु नामकर्मोदयजन्यः, भाष्यमागस्तु पुद्गलात्मकः शब्दः किं भवतु ? इति चेत् , उच्यते-सोऽपि श्रोतृणां भाव
श्रुतकारणत्वाद् द्रव्यश्रुतमात्रं भवति, न तु भावश्रुतम् । तर्हि किं तद् भावश्रुतम् ? इत्याह-"सुयं हवइ सेसं" ति ज्ञानं यत् छद्मस्थानां गणधरादीनां श्रुतग्रन्थानुसारि ज्ञानं तदेव केवलिगतज्ञानापेक्षया 'शेषम्' अन्यद् भावश्रुतं भवति, क्षायोपशमिकोपयोगात्, न तु केवलिगतं ज्ञानम् , तस्य क्षायिकत्वादिति । अथवा "सुयं हवइ सेसं" इत्यन्यथा व्याख्यायते-तद् भण्यमानं शब्दमानं तत्काल
एव श्रुतं न भवति, किं तर्हि ? शेषं कालमिति वाक्यशेषः । इदमुक्तं भवति-तत् केवलिनः शब्दमात्रम् , श्रोतृणां श्रवणानन्तर30 लक्षणे शेषकाले श्रोतृगतज्ञानकारणत्वेनोपचारात् 'श्रुत' द्रव्यश्रुतं भवति, न तु भणनक्रियाकाल इति । अथवाऽन्यथा व्याख्यायते
स केवलिनः सम्बन्धी वाग्योगः श्रुतं भवति । कथम्भूतम् ? 'शेष' गुणभूतमप्रधानम्, औपचारिकत्वादिति । अन्ये तु पठन्ति"वइजोग सुयं हवइ तेसिं" ति, तत्र 'तेषां' भाषमाणानां सम्बन्धी वाग्योगः श्रोतृगतश्रुतकारणत्वात् श्रुतं भवति, द्रव्यश्रुतमित्यर्थः । अथवाऽज्योऽर्थः-'तेषामिति' श्रोतणां तानाश्रित्येत्यर्थः, भाषकगतं वाग्योग एव श्रुतं वाग्योगश्रुतं भवति, .भावश्रतका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org