________________
श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् ।
पं. २९. इहराऽऽई० गाहा । व्याख्या - ननु यथेकस्मिन् समये केवलज्ञानोपयोगोऽन्यस्मिंस्तु समये केवलदर्शनोपयोग इष्यते तहर्येवं क्रमोपयोगत्वे केवलज्ञान-दर्शनयोः ' सनिधनत्वं' प्रतिसमयं सान्तत्वं प्राप्नोति, तथा च सति तयोः समयोक्तमपर्यवसितत्वं हीयते । अथवा यः कष्टशतानि कृत्वा ज्ञानावरणादिक्षयो विहितः सः 'मिथ्या' निरर्थकः 'जिनस्य' भगवतः प्राप्नोति, समयात् समयादूर्ध्वं केवलज्ञान- दर्शनोपयोगयोः पुनरप्यभावात् नापनीतावरणौ द्वौ प्रदीपो क्रमेण प्रकाश्यं प्रकाशयतः किन्तु युगपदेव । अथवा केवलज्ञान-दर्शनयोः 'इतरेतरावरणता' परस्परमावारकत्वं प्राप्नोति, कर्मरूपावरणाभावेऽपि 5 अन्यतरसद्भावेऽन्यतराभावादिति । अथ इतरेतरावरणता नेण्यले तर्ह्यन्यतरोपयोगकालेऽन्यस्य निष्कारणमेवाऽऽवरणं स्यात्, तथा च सति “ नित्यं सत्त्वमसत्त्वं वा " [प्रमाणवार्त्तिक ३ - ३४] इत्यादि प्रसज्यत इति ॥ ४ ॥
[ पृष्ठ ४१ ]
पं. ९. तथा एकतरस्मिन्-ज्ञाने दर्शने वा अनुपयुक्त एकतरानुपयुक्तः, तस्मिन् एकतरानुपयुक्ते केवलिनीष्यमाणे ज्ञानानुपयोगेकाले तस्य केवलिनोऽसर्वज्ञत्वं प्राप्नोति, दर्शनानुपयोगकाले त्वसर्वदर्शित्वं प्रसजति, तच्चासर्वज्ञत्वमसर्वदर्शित्वं च नेष्टं 10 जैनानाम्, सर्वदैव केवलिनि सर्वज्ञत्व सर्वदर्शित्वाभ्युपगमादिति । सूरिराह - ननु छद्मस्थस्यापि दर्शन - ज्ञानयोरेकान्तरे उपयोगे सर्वमिदं दोषजालं समानमेव । अत्रापि हि शक्यते एवं वक्तुम् - ज्ञानानुपयोगे तस्याज्ञानित्वम्, दर्शनानुपयोगे पुनरदर्शनित्वम्, तथा मिथ्याऽऽवरणक्षयः इतरेतरावरणता वा निष्कारणावरणत्वं वेत्यादि 'बहुविधीका: ' बहुविधा दोषा इत्यर्थः ॥ ५ ॥ पं. १३. भण्णईत्यादिगाथाः विवृता ग्रन्थकृता किञ्चित्, सुगमाश्च ॥
[ पृष्ठ ४२ ]
पं. ४. तदित्थं बुभुक्षिता जरद्गवीव बुरागृहे प्रविशन्ती निविडयुक्तिलगुडादिवातैर्निवार्यमाणाऽपि परस्य दुराग्रहबुद्धिर्न निर्तते, ततश्चक्षुषी निमील्य धृष्टतया पुनरप्याह-तुल्ले उभयावरणे० गाहा । द्विविधोपयोगभावे इष्यमाणे जिनस्य प्रथमतरं उद्भवः–उत्पादः कस्य ? ज्ञानस्य ? दर्शनस्य वा इति, आवरणक्षयस्य युगपद्भावात् ततो जिनस्य द्विविधोपयोगाभावः प्राप्नोति इति प्रश्नः, युगपद्भावानिष्टौ एकोऽपि न प्राप्नोति ॥ १३ ॥
१२५
पं. १४. अथैवं सूरिः परं दुरभिनिवेशममुञ्चन्तमवलोक्य युगपदुपयोगद्वयपक्षं मूलत एवोन्मूलयितुं क्रमोपयोगसाधकं व्यक्त - 20 मेव सिद्धान्तोक्तमादर्शयन्नाह
भणियं पिपन्नत्ती- पन्नवणाईसु, जह जिणो समयं । जं जाणइ न वि पासइ तं अणु-रयणप्पभाईणि ॥ १६ ॥
Jain Education International
15
ननु 'प्रज्ञप्त्यां' भगवत्यां प्रज्ञापनायां च स्फुटं 'भणितमेव' उक्तमेव, यथा- 'जिन' केवली परमाणु-रत्नप्रभादीनि वस्तूनि “समयं जं जाण” त्ति यस्मिन् समये जानाति "न वि पासइ तं" ति तस्मिन् समये नैव पश्यति, किन्त्वन्यस्मिन् समये 25 जानाति अन्यस्मिंस्तु पश्यति । इयमत्र भावना - इह भगवत्यां तावदष्टादशशतस्याष्टमोदेशके स्फुटमेवोक्तम्, तद्यथा - "छउमत्थे णं भंते! मस्से परमाणुपोग्गलं किं जाणइ न पासइ : उदाहु न जाणइ न पासह ? गो० ! अत्थेगइए जाणइ न पासइ, अत्थेगइए न जाणइ न पासइ, एवं जाव असंखेज्जपएसिए खंधे ।" इह छद्मस्थो निरतिशयो गृह्यते । तत्र श्रुतज्ञानी उपयुक्तः श्रुतज्ञानेन परमाणुं जानाति न तु पश्यति श्रुते दर्शनाभावात् । अपरस्तु न जानाति न पश्यति । " एवं आहोहिए वि” आघोवधिक:न्यूनाधिकः । “परमाहोहिए णं भंते! मणूसे परमाणुपोग्गलं जं समयं जाणइ तं समयं पासइ ? जं समयं पासइ तं समयं 30 १ दर्शनसमये जेटि० ॥ २ ज्ञानसमये जेटि० ||
For Private Personal Use Only
www.jainelibrary.org