________________
१२४
मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं पं. ४. तीर्थान्तरसिद्धा नाम ये मुविधिप्रभृतीनामष्टानां शान्तिनाथान्तानां जिनानामन्तरेषु जातिस्मरणादिनाऽवाप्तज्ञानादिसन्मार्गाः सन्तः सिद्धाः । तीर्थान्तरकालस्य च मानमिदम्चउभाग चउभागो तिन्नि चउब्भाग पलियमेगं च । चउभागं चउभागो चउत्थभागो चउब्भागो ॥ १ ॥
[प्रवचन० गा. ४३१ ] त्ति । 5 पं. ७. स्वयं-बाह्यनिमित्तमन्तरेण जातिस्मरणादिना बुद्धाः सन्तो ये सिद्धास्ते स्वयम्बुद्धसिद्धाः । प्रत्येकम्-अन्यान्यं बाह्य-वृषभादि कारणं दृष्ट्वा बुद्धाः सन्तो ये सिद्धास्ते प्रत्येकबुद्धसिद्धाः। पं. ११. उपधिः पुनः स्वयम्बुद्धानां चोलपट्ट-मात्रकवर्जः पात्रादिदशविधः । प्रत्येकबुद्धानां पुनर्जघन्यो रजोहरण मुखवस्त्रिकारूपो द्विविध उपधिः, उत्कृष्टतश्चोलपट्ट-मात्रक-कल्पत्रिकवजों नवविधः। पं. १२. स्वयम्बुद्धानां पूर्वाधीतं श्रुतं स्याद्वा न वा । प्रत्येकबुद्धानां पुनस्तन्नियमतो
भवत्येव, जघन्यत एकादशाङ्गानि, उत्कृष्टतो भिन्नदशपूर्वाणि । लिङ्गप्रतिपत्तिः स्वयम्बुद्धानां यदि पूर्वाधीतं श्रुतं नास्ति ततो 10 नियमाद गरुसमीपे भवति, अथ श्रतं समस्ति ततो देवता लिङ्गप्रयच्छति गुरुसमीपे वा प्रतिपद्यन्ते। यदि चैकाकिविहारयोग्यता इच्छा च समस्ति तत एकाकिन एव विचरन्ति, अन्यथा गच्छ एवाऽऽसते । प्रत्येकबुद्धानां पुनर्लिङ्ग देवतैव प्रयच्छति, लिङ्गवर्जिता वा भवन्ति । यदुक्तम्-"रुप्पं पत्तेयबुहा" [आव०नि० गा० ११५१] इति । अत्र सङ्ग्रहगाथा यथासुरलिंगे पुव्वसुए अनियय-नियया सबुद्ध-पत्तेया । अनिमित्तेयरबोही, बारस नव उवहिणो हुंति ॥१॥ [
पं. १६. तीर्थकरीसिद्धाः स्तोकाः १ तीर्थकरीतीर्थे 'नोतीर्थसिद्धाः' तीर्थान्तरे सिद्धा ये प्रत्येकबुद्धसिद्धा इत्यर्थः ते 15 सङ्ख्यातगुणाः २ तीर्थकरीतीर्थे 'नोतीर्थकरीसिद्धाः' सामान्यकेवलिस्त्रियः ताः सङ्ख्येयगुणाः ३ तीर्थकरीतीर्थे 'नोतीर्थकरसिद्धाः'
सामान्यकेवलिपुरुषास्ताभ्यः सङ्घयेयगुणाः ४ ।। पं. १८. यथा तीर्थकराः स्त्रीलिंगे भवत्येवं नपुंसकलिंगेऽपि किं ते स्युः ? इत्याशंक्याऽऽह-न तु नपुंसकलिङ्गा इति, तीर्थकृतः स्युरिति वाक्यशेषः । प्रत्येकबुद्धा अपि स्त्री-नपुंसकलिङ्गे न भवन्ति, किन पुस्येव । तीर्थकर-प्रत्येकबुद्धवर्जाः केचन नपुंसकलिङ्गसिद्धा भवन्ति । रजोहरणादिलिङ्गधारिणो ये सिद्धास्ते स्वलिङ्गसिद्धाः । परिव्राजकादिलिङ्गसिद्धा अन्यलिङ्गसिद्धाः । नवरं यदाऽन्यलिङ्गिनामपि भावतः सम्यक्त्वादिप्रतिपन्नानां केवलज्ञानमुत्पद्यते तदैव च 20 कालं कुर्वन्ति तदेदम् । अन्यथा यदि दीर्घमायुरात्मनः पश्यन्ति तदा साधुलिङ्गमेव प्रतिपद्यन्ते । एवं गृहलिङ्गसिद्धा अपि मरुदेवीप्रभृतयः इत्थमेव वक्तव्याः । सिद्धकेवलिनोऽपि गुणाष्टकं भवति । यदुक्तम्
सम्मत्त १ नाण २ सण ३ वीरिया ४ ऽवाहा ५ तहा य अवगाहो ६ । अगुरुलहू ७ सुहुमत्तं ८ अट्ठ गुणा हुंति सिद्धस्स ॥ १॥ [
पं. २२. बत्तीसा० गाहा । एतद्विवरणम्-यदा एकसमयेन एकादय उत्कर्षेण द्वात्रिंशत् सिध्यन्ति तदा द्वितीयेऽपि समये 25 द्वात्रिंशत् , एवं नैरन्तर्येण अष्टौ समयान् यावद् द्वात्रिंशत् सिध्यन्ति, तत ऊर्ध्वमवश्यमेवान्तरं भवतीति । यदा पुनस्त्रयस्त्रिंशत
आरभ्य अष्टचत्वारिंशदन्ता एकसमयेन सिध्यन्ति तदा निरन्तरं सप्त समयान् सिध्यन्ति, ततोऽवश्यमेवान्तरं भवति । एवं यदा एकोनपञ्चाशतमादिं कृत्वा यावत् षष्टिरेकसमयेन सिध्यन्ति तदा निरन्तरं षट् समयान् सिध्यन्ति, तदुपरि अन्तरं समयादि भवति । एवमन्यत्रापि योज्यम् । यावद् अष्टशतमेकसमयेन यदा सिध्यति तदाऽवश्यमेव समयाद्यन्तरं भवतीति । अन्ये तु व्याचक्षते-अष्टौ समयान् यदा नैरन्तर्येण सिद्धिस्तदा प्रथमसमये जघन्येनैकः सिध्यति उत्कृष्टतो द्वात्रिंशदिति, द्वितीयसमये 30 जघन्येनैक उत्कृष्टतोऽष्टचत्वारिंशत् , तदेवं सर्वत्र जघन्येनैकः समयः उत्कृष्टतो गाथार्थोऽयं भावनीय इति ॥
[पृष्ठ ४०] पं. १३. क्रमोपयोगादाविति, आदिशब्देन एकोपयोगमतस्य परिग्रहः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org