________________
श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्ते: टिप्पनकम् ।
१२३
विमलतरप्रकाशकद्रव्यविशेषाद् विमलप्रकाशयुक्तद्रष्टुः सकाशाद् विमलतरं पश्यति, एवं प्रकृतेऽपि तपश्चरण-विनय-ध्यानादि यः कारणभेदः ततस्तद्वशाद् विष्कम्भितोदयं यन्मनःपर्यायज्ञानस्याऽऽवरणम्-आवारकं कर्म तस्य मन्द-मन्दतरविशेषभावो भवति । यस्य तपश्चरणाद्यल्पं तस्य मन्दस्तदावरणविष्कम्भितोदयविशेषः, यस्याल्पतरं तस्य सोऽपि मन्दतरः, यस्य तपश्चरणादिभेदः प्रकृष्टः तस्य विष्कम्भितोदयविशेषोऽपि विमलः, यस्य तपश्चरणादि प्रकृष्टतरं तस्य तदावरणविष्कम्भितोदयत्वमपि विशिष्टतरमित्यक्षरगमनिका । पं. २३. उपशान्तं नाम विष्कम्भितोदयं यदावरणं तस्य विशेषादपि । तदावरणेति, तिमिरकल्पं 5 यत् तदावरणं तस्य क्षयेण सह उपशमः-उदीर्णानां कर्मणां क्षयेण वेदनकृतः अनुदीर्णानां चोपशमेन विष्कम्भितोदयत्वेन क्षयोपशमस्तस्य विशेषाद् वितिमिरतरं' आवरणतिमिररहितम् । पं. २५. अथवेति प्राग्बद्धं यत् तदावरणं कर्म तस्य क्षयोपशमः प्रागुक्तस्तस्य प्राधान्याद् विशुद्धतरम् । बव्यमानावरणस्य विशेषस्तारतम्येन यत्र तद् वितिमिरतरम् । पं. २६. अन्ये तु 'तदावरणस्य बध्यमानाभावेन वितिमिरं तदुच्यते' इत्याहुः। पं. २७. अथ 'वितिमिरादिविशेषणं क्षेत्रं जानाति पश्यति' इति कथमुच्यते ? क्षेत्रं ह्याकाशम् तस्य चामूर्त्तत्वात् कथं तद्विषये छद्मस्थस्य पश्यत्तासम्भवः ? इत्याशङ्कयाह- 10 तात्स्थ्यादिति, क्षेत्रस्थं द्रव्यमपि क्षेत्रमुच्यते । समर्थितं मनःपर्यायज्ञानम् ॥
[ पृष्ठ ३७] केवलज्ञानमधुना। तत्र- पं. १६. कम्मे सिप्पे य० गाहा । नाम-स्थापना-द्रव्यसिद्धव्युदासेन शेषाः कर्मसिद्धादयश्चतुर्दशामी सिद्धभेदाः । तत्र कर्मणि सिद्धः कर्मसिद्धः, कर्मगि निष्ठां गत इत्यर्थः । एवं शिल्पसिद्धादिष्वपि वाच्यम् । नवरं कर्म-शिल्पयोर्विशेषोऽयम्-आचार्योपदेशाद् यद् न जातं तदनाचार्योपदेशजं सातिशयमनन्यसाधारणं कर्मोच्यते, यदाचार्योपदेशजं 15 ग्रन्थनिबन्धाद्वा उपजायते तत् सातिशयं कर्मापि शिल्पमुच्यते । अयं वाऽनयोविठोषः-यत् किल पीठफलक-मञ्चादिनिर्मापणं तस्मिन्नेव क्षणे प्रारब्धं तदैव निष्पाद्यतेऽकालहीनं तत् कादाचित्कं शिल्पम् , न पुनः प्रासादादिवन्नित्यं प्रतिदिनं यत् क्रियते, प्रासादादिनिर्मापणादिकं तु बहुदिनसाध्यत्वादाचार्योपदेशजत्वात् सातिशयं नित्यव्यापारत्वात् शिल्पमपि कर्मोच्यते । अत एव बुद्धिप्रस्तावे वक्ष्यति-"कादाचित्कं वा शिल्पम् , नित्यव्यापारः कर्म" [ पत्र ४७ पंक्ति २६] इति । कर्मसिद्धादिदृष्टान्तास्त्वावश्यकाद् ज्ञेयाः । स्त्रीदेवताधिष्ठिता विद्या ससाधना च । पुरुषदेवताधिष्ठितो मन्त्रोऽसाधनश्च । योगोऽदृश्यीकरण-पादप्रलेपादिगोचरः । तत्र 20 योगसिद्धः पादलिप्ताचार्यवत् , आगमसिद्धो गौतमवत् , अर्थसिद्धो मम्मणवणिग्वत् , यात्रासिद्धो हनूमानवत् , अभिप्रायःबुद्धिः तत्सिद्धः चाणक्या-ऽभयकुमारादिवत् , तपःसिद्धो दृढप्रहारिवत् , कर्मक्षयसिद्धो निरञ्जन-ऋषभादिवत् ।
पं. १९. सितं बद्धमिति, सेतति बध्नाति जीवमिति सितम् नाम्युपधत्वात् [ कातन्त्र ४-२-५१] के सितम् , "षिञ बन्धने वा" भावे ते सितमिति । पं. २८. सह योगेनेति-जीवव्यापारेण वर्तन्ते सयोगाः, योगा मनोवाकाया .. एव, तेऽस्य सन्तीति सयोगी ।
[ पृष्ठ ३८] पं. ५. तत्पथमतयेति, यो येन भावेन पूर्व नासीद् इदानीं च जातः स तेन भावेन तत्प्रथम उच्यते, तस्याप्राप्तपूर्वत्वात् , प्राप्तस्य पुनवंसाभावात् । पं. ६. अन्यथा प्रतिपाद्यत इति, द्वैविध्यमिति शेषः ॥ पं. २७. अनन्तरभवगतोपाधिभेदेनेति, अनन्तरभवगतश्चासावुपाधिभेदश्च स तथा तेन । उपाधिः-विशेषणम् ।
[ पृष्ठ ३९] पं. १. अचिन्त्यशक्तिसमन्वितं च तद् अविसंवादि च तद् उडुपकल्पं च-नौकल्पं तत् तथेति समासः।।
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org