________________
१२२
मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं
जानाति । पं. १५. “बज्झे" त्ति बाह्यान् चिन्तनीयघटादीन् प्रागुपदर्शितानुमानाज्जानाति, न तु साक्षादित्यर्थः । अनुमानादेव चिन्तनीयममूर्तमप्याकाशादिकं वस्तु अवगच्छति, छमस्थश्चामूर्त साक्षान्न पश्यति किलेति भावः। पं. १८. अथ मन:पर्यायदर्शनं भिन्नं नोक्तं कथं 'पश्यति' इत्युच्यते ? सत्यम् , अचक्षुर्दर्शनाख्यं मनोरूपनोइन्द्रियं दर्शनविषयमस्य द्रष्टव्यम् , तेनास्य
दर्शनसम्भवः । अयमर्थः-परस्य घटादिकमर्थं चिन्तयतः साक्षादेव मनःपर्यायज्ञानी मनोद्रव्याणि तावजानाति, तान्येव च 5 मानसेनाचक्षुर्दर्शनेन विकल्पयति, अतो मानसाचक्षुर्दर्शनापेक्षया पश्यतीत्युच्यते । ततश्चैकस्यैव मनःपर्यायज्ञानिनः प्रमातुर्मनःपर्यायज्ञानादनन्तरमेव मानस मचक्षुर्दर्शनमुत्पद्यते इत्यसावेक एव प्रमाता मनःपर्यायज्ञानेन मनोद्रव्याणि जानाति, तान्येव चाचक्षदर्शनेन मानसेन पश्यतीत्यभिधीयते। पं. १९. एतदेवाऽऽह-एकममात्रपेक्षयेति, ज्ञानानन्तरभावित्वाच्च मानसाचक्षुर्दर्शनस्येति कृत्वा सूत्रे पश्यतीत्युपन्यस्तम् । ओघतो वेति, विशेषोपयोगापेक्षया जानाति, सामान्यार्थोपयोगापेक्षया पश्यतीत्युक्तम् ।
पं. २१. ऊर्ध्वाधस्तियग्भेदात् त्रिधा मनःपर्यायज्ञानिनः क्षेत्रविषयो द्रष्टव्यः । तत्र ऋजुमतेरधोविषयोऽमुष्या रत्नप्रभायाः . 10 पृथिव्या उपरिमाधस्त्यान् क्षुल्लकप्रतरान् यावन्मनोगतान् भावान् जानाति, ऊर्ध्वं यावज्ज्योतिश्चक्रस्योपरितलम् , तिर्यक् च मनुष्यलोकान्तम् । सोऽपि ऋजुमतेरर्द्धतृतीयाङ्गुलहीनः, इतरस्य सम्पूर्णः । शेषद्रव्यादित्रयं कथितं सुगमं चेति समुदायार्थः । वैशाखस्थानस्थं प्रसारितपादं कटिस्थकरयुग्मं पुरुषमिव लोकं व्यवस्थाप्य सर्वमिदं भावनीयमिति । पं. २३. प्राकृतचूर्ण्यक्षराणि च व्याख्येयानि एतदनुसारतः । रुचकाभिधानात् तिर्यग्लोकमध्याद् अधो यावन्नव योजनशतानि रुचकादेव चोर्ध्व
नव योजनशतानि यावद् ज्योतिश्चक्रस्योपरितलस्तावदेष समुदितोऽष्टादशशतयोजनमानस्तिर्यग्लोक इति । पं. २८. संवट्टो 15 काययो त्ति संवतः-सङ्कोचनम् ।
[पृष्ठ ३६] पं. ३. तिरियलोयमज्झाउ त्ति रुचकाभिधानात् तिर्यग्लोकमध्याद् अधो यावन्नव योजनशतानि तावदमुष्या रत्नप्रभाया उपरिमाः क्षुल्लकप्रतराः, क्षुल्लकत्वं च तेषामधोलोकप्रतरापेक्षया । तेभ्योऽपि येऽधस्तादधोलोकग्रामान् यावत् तेऽधस्तनाः क्षुल्लक
प्रतराः। पं. ५. अहव त्ति रयणप्पहपुढवीए इति न योज्यम् । पं. ६. अत्र पक्षे अण्णे इत्यादि । 20 पं. ७. सव्यतिरियलोगवत्तिणो त्ति अष्टादशशतयोजनवर्तिनः । पं. ८. ताण चेव त्ति नवयोजनशतमध्यवर्त्तिनाम् । इमं च त्ति अघोलौकिकग्रामेषु मनःपर्यवज्ञानबाधात्वतः, यतस्तियग्लोकस्थो मनःपर्यायज्ञानी पश्यतीत्यत्र मते आपन्नम् । अन्यच्च
अहलोइयगामेसु तित्थयरा केवली य विजंति । जाण विजयाण मज्झे मेरुस्स य पच्छिमदिसाए ॥१॥
पं. १३. अपान्तरालगतावप्युत्पत्तिस्थानमप्राप्नुवन्तोऽपि संज्ञिनोऽभिधीयन्ते, तदायुष्केति आगामिभवायुष्कोदयवशात् । 25 पं. १४. तेऽपि चेति इन्द्रियपर्याप्त्या पर्याप्तत्वभावात् पञ्चेन्द्रियव्यपदेशं लभन्ते, परं मनःपर्याप्त्या पर्याप्ता एव पञ्चेन्द्रिया
ग्राह्याः। पं. १६. हेतवादोपदेशेनेति, हेतुः-निमित्तं कारणमित्यनर्थान्तरम् , तस्य वदनं-वादस्तद्विषय उपदेशः-प्ररूपणं हेतुवादोपदेशः, तेन विकलेन्द्रियाः-द्वीन्द्रियादयः सचेष्टाकाः संज्ञिनः, पृथिव्यादय एव निश्चेष्टा असंज्ञिनः । हेतुवादश्चायम्संज्ञिनो द्वीन्द्रियादयः, हेयोपादेयेषु निवृत्ति-प्रवृत्तेः, देवदत्तादिवत् , तथा च तापादिसन्तप्ताश्छायासमाश्रयणादि कुर्वन्तो दृश्यन्ते ।
पं. १८. विपुलमतिळजुमतेः सकाशात् जानाति पश्यति क्षेत्रमायाम-विष्कम्भावाश्रित्याभ्यधिकतरकम् , बाहल्यमाश्रित्य 30 विपुलतरकम् , 'विशुद्धतरं' निर्मलतरं 'वितिमिरतरकं' तिमिरकल्पतदावरणस्य विशिष्टतरक्षयोपशमसद्भावात् ।
पं. २१. विशुद्धतरमित्यत्र दृष्टान्तपुरःसरं विशुद्धतरत्वं भावयति यथा चन्द्रेत्यादिना-कारणविशेषात् कार्यविशेषः किल भवन्नुपलभ्यते, यथा चन्द्रकान्तादिविमलप्रकाशकद्रव्यविशेषाद् विमलप्रकाशयुक्तो द्रष्टा विमलं पश्यति, स एव चन्द्रकान्तादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org