________________
10
श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् ।
१२१ यत् सिंहासनं तत्रोपविष्टो भगवत्पादपीठे वोपविष्टो ज्येष्ठोऽन्यो वा गगधरो द्वितीयपौरुष्यां सङ्ख्ययाऽतीता भवाः-असङ्खयेयास्तानपि कथयति, असङ्ख्येयभवेषु यदभवद् यद् भविष्यति तत् सर्वं कथयति। 'यद् वा' यद् वस्तुजातं परः पृच्छेद् अभिलाप्यपदार्थगोचरं तत् सर्वं कथयति। किंबहुना ! 'न च' नैव "ण"मिति वाक्यालङ्कारे "अगाइसेसि" त्ति अनतिशयी अवध्याचतिशयरहित इत्यर्थः विजानाति 'यथैष गणधरश्छमस्थः' इति, अशेषप्रश्नोत्तरप्रदानसमर्थत्वात् तस्येति भाव इति गाथार्थः ।। पं. १६. अत्रार्थे उत्तरत्रयमदायि। पं. २६. त्रीणि योजनशतानीत्यादि, हिमांश्च शिखरी च हिमवच्छिखरिणौ तयोः पादा इव पादाः-5 अग्रभागास्तेषु प्रतिष्ठिताः-व्यवस्थिता एकोरुकादयोऽन्तरद्वीपाः । क्षेत्रसमासादिग्रन्थादेतत्स्वरूपं विज्ञेयम् । पं. २९. एकेषां मते पुद्गलद्रव्योपचयाद् यकाऽऽहारादिविषया शक्तिरुत्पद्यते सा पर्याप्तिरुच्यते। पं. ३०. सम्प्रति च-तत्रेत्यादिना इत्येके' पर्यन्तेनापरमतेन पर्याप्तिस्वरूपमुक्तम् ।
[ पृष्ठ ३४] पं. ५. आसां युगपदिति । वेउव्वा-ऽऽहाराणं सरीर अन्तो उ (? अंतमुह), पण इगिगसमया। पिह पण अन्तमुत्ता, उरले आहार सामइया ॥१॥
पं. ११. ये मिथ्यात्वात् सम्यक्त्वस्य प्रतिपत्त्यभिमुखाः, न तु सम्यक्त्वस्य परित्यागाभिमुखाः, ते जीवाः सम्यग्मिथ्यादृष्टयोऽन्तर्मुहूर्त्तमात्रं कालं भवन्ति । पं. १२. किमित्येवं तल्लक्षणं व्याख्यायते ? इत्याह-यत उक्तमिति ।
मिच्छत्ता संकंती अविरुद्धा होइ सम्म-मीसेसु । मीसाओ वा दोसुं सम्मा मिच्छं न उण मीसं ॥ १॥ इति गाथा परिपूर्णा । यतः सम्यक्त्वपुञ्जाद् मिश्रपुञ्जगमनं निषिद्धमनयेति भावः । संयतस्य सर्वप्रमादरहितस्य विविधर्द्धिमत 15 इदमुत्पद्यते, शेषश्च सम्यग्दृष्टि पर्याप्तकादिविशेषणकलापः सामर्थ्यलब्धोऽप्युच्यते प्रपञ्चितज्ञशिष्यावबोधार्थम् । पं. २६. अस्यां व्युत्पत्ताविति, ऋज्ची चासौ मतिश्चेति कर्मधारयरूपायाम् , यद्वा ऋज्वी-साक्षात्कृतेषु मनोद्रव्येषु अनुमितेषु चार्थेष्वल्पतरविशेषविषयतया मुग्धा मतिः-विषयपरिच्छित्तिर्यस्य प्रमातुः स ऋजुमतिः । विपुलमतिरपि प्रमातैव ।
[ पृष्ठ ३५] पं. १२. द्रव्यत इत्यादि । अनन्तप्रादेशिकान् मनस्त्वपरिणतानन्तस्कन्धसमूहमयमनोद्रव्यरूपान् स्कन्धान जानाति । 20 क्षेत्रतस्तु ऋजुमतेरर्द्धतृतीयाङ्गुलहीनो मनुष्यलोको विषयः । स एव विपुलमतेः सम्पूर्णो निर्मलतरः । कालतस्त्वेतावति क्षेत्रे भूतभाविनोः पल्योपमासंख्येयभागयोरतीता-ऽनागतानि संज्ञिमनोरूपाणि मूलद्रव्याणि विषयः । भावतस्तु तत्पर्याया रूपादय श्चिन्तनानगुणा परिणतिरूपा ऋजमतेविषयः । चिन्तनीयं तु मूर्तममूर्त वा त्रिकालगोचरमपि बाह्यमर्थमनमानादेवेति, 'यत एत त्परिणतीन्येतानि मनोद्रव्याणीति एतदन्यथानुपपत्ते: अमुकोऽनेनार्थश्चिन्तितः' इति लेखाक्षरदर्शनात् तदुक्तार्थमिवाप्रत्यक्ष मनोद्रव्यदर्शनाच्चिन्त्यमर्थमनुमिमीते । विपुलमतेश्चायं विषयः स्फुटतरः बहुतरविशेषाध्यासितत्वेन विमलतरोऽवसेयः । तेन मनोगतद्रव्यस्कन्धान 25 तद्गतचिन्तानुगुणान सर्वपर्यायराश्यनन्तभागरूपाननन्तान् रूपादीन् पर्यायान् चिन्तनीयबाह्यघटादिवस्तुगतांश्च जानाति सविशेषान् , पल्योपमासङ्ख्येयभागरूपे काले ये तेषां मनस्त्वपरिणमितमनोद्रव्यागां भूता अनागताश्च चिन्तनानुगुणाः पर्यायास्तान् सविशेषान्
१ वैक्रिया-ऽऽहारकयोस्तु शरीरपर्याप्तिः अन्तर्मुहूर्त्तम् , पञ्च पर्याप्तयः एकैकसामयिक्यः । औदारिके पञ्च पर्याप्तयः पृथग् आन्तर्मोहूतिक्यः, आहारपर्याप्तिः एकसामयिकी ॥ इति भावार्थगर्भा छाया । अत्रार्थे एषाऽपि ग्रन्थान्तर्गता गाथाऽवधेया-वेउव्विय पज्जत्ती सरीर अंतमुहु, सेस इगसमया । आहारे इगसमया सेसा, अंतमुहु ओराले ॥ १॥ इति । विचारसप्ततिकायां तु मतभेदेन पर्याप्तिस्वरूपं दृश्यते-"उरलविउव्वा-ऽऽहारे छण्ह वि पजत्ति जुगवमारंभो । तिण्ह वि पढमिगसमए, बीआ पुण अंतमोहुत्ती ॥ ४४ ॥ पिहु पिहु असंखसमइयअंतमुहुत्ता उराल चउरो वि । पिहु पिहु समया चउरो वि हुंति वेउव्विया-ऽऽहारे ॥ ४५ ॥ छह वि सममारंभे पढमा समए, बि अंतमोहुत्ती । ति तुरिअ समए समए सुरेसु, पण-छट्ठ इगसमए ॥ १६ ॥” इति ॥ २ इयं गाथा कल्पलघुभाष्य ११४ गोथासमा ॥ टी० १६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org