________________
१२०
मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं
लम्बनत्वादवधेरित्ययं भावार्थः । पं. २९-३०. “ओही." गाहा [ सू. २९ गा. ५३ ] "वनिओ एसो" त्ति पाठः, पाठान्तरे “वनिओ दुविहो" त्ति पाठः ।
[ पृष्ठ ३१ ] पं. ५. नेरइय० गाहा [ सू० २९ गा. ५४ ] । यस्य नैरन्तर्येण सर्वतोभाविनोऽवधेस्तद्वान् जीवोऽभ्यन्तरे वर्तते 5 सोऽभ्यन्तरावधिः । तथा च [आवश्यक] चूर्णिः-'अभंतरावही नाम' जत्थ से ठियस्स ओहिन्नाणं समुप्पन्नं तओ ठाणाओ
आरम्भ सो ओहीनाणी निरंतरसंबद्धं संखेजं वा असंखेज वा खेत्तं ओहिणा जाणइ पासइ एस अब्भंतरावही" [विभाग १ पत्र ६३ ] अवधिमतः 'बहिः' बाह्योऽवधिः । अयमर्थः- "जत्थ से ठियस्स ओहिनाणं समुप्पन्नं तम्मि ठाणे सो ओहिनाणी न किंचि पासइ, तं पुण ठाणं जाहे अंतरिय होइ अंगुल-विहत्थिमाईहिं संखेजेहिं असंखेजेहिं वा जोयणेहिं ताहे पासइ, एस बाहिरावही"
[आवश्यकचूर्णि विभाग १ पत्र ६२-६३] । एवं चावधे<विव्ये नारका देवास्तीर्थकराश्चावधिज्ञानस्याबाह्या भवन्ति, 10 अवध्युपलब्धस्य क्षेत्रस्यान्तर्वर्तन्ते, अभ्यन्तरवर्तिन एव भवन्ति, अत एवाबाह्यावधय एवैते प्रतिपाद्यन्ते, अभ्यन्तरावधय इत्यर्थः,
अवधिप्रकाशितक्षेत्रस्य प्रदीपा इव निजनिजप्रभापटलस्य नैते बहिर्भवन्तीति भावः । तथाऽवधिना 'पश्यन्ति' अवलोकयन्ति, खलुशब्दस्यावधारणार्थत्वात् 'सर्वत एव' सर्वास्वेव दिक्षु विदिक्षु च, न तु देशत इत्यर्थः । 'शेषाः' तिर्यग् मनुष्याः 'देशेनेति' एकदेशेन पश्यन्ति, तत्र वाक्यावधारणविधेरिष्टतः प्रवृत्ते: शेषा एव देशतः पश्यन्ति, न तु शेषा देशत एवेति द्रष्टव्यम् , शेषास्तिर्यग
मनुष्याः सर्वतो देशतश्च पश्यन्तीति भावः । ननु 'अवधेरबाह्या भवन्ति' इत्यवध्युपलब्धक्षेत्रस्याभ्यन्तरे नारकादयो वर्तन्ते इत्युक्ते 15 सति 'पश्यन्ति सर्वतः' इति किमर्थ भण्यते ? ये ह्यवधिप्रकाशितक्षेत्रस्य मध्ये वर्तन्ते ते सर्वतः पश्यन्त्येवेति गतार्थत्वादतिरिच्यते ?
अत्रोच्यते-यो ह्यसम्बद्धवलयाकारक्षेत्रप्रकाशकावधिर्भवति तद्वान् साध्वादिरवध्युपलब्धक्षेत्रस्यान्तः स्थितोऽपि न सर्वतः पश्यति, अन्तरालादर्शनात् , अतस्तद्वयवच्छेदार्थ कर्तव्यं पश्यन्ति सर्वतः' इति ॥
अथवा पूर्वार्द्वमन्यथा व्याख्यायते-तत्र के नियतावधयः ? के वाऽनियतावधयः ? इति प्रश्ने नारक-देव-तीर्थकरा अवधेरबाह्या भवन्तीति । कोऽर्थः-अवधिज्ञानवन्त एवामी भवन्ति, अवधिज्ञानं नियमेनैषां भवतीत्यर्थः । तत्रापि किममी तेनावधिना सर्वतः 20 पश्यन्ति ? देशतो वा ? इति संशये सत्याह-"पासंति” इत्याद्युत्तरार्द्धम् , अस्य व्याख्या तथैवेति । तत्रैतत् स्यात्-"भवप्रत्ययो
नारक-देवानाम्" [तत्त्वार्थ. अ. १ सू. २२] इत्यादिवचनात् तथा-"तिहिं नाणेहि समग्गा तित्थयरा जाव होति गिहवासे ।" [आव० भाष्य गा.११० पत्र १८७] इत्यादिवचनात् पारभविकावधिसमन्वागमात् सिद्धमेव नारक-देव-तीर्थकराणां नियतावधित्वं तत् किमनेन ? 'पश्यन्ति सर्वत एव' इत्येतदस्तु, नैवम् , भवप्रत्ययादिवचसा सिद्धेऽमीषां नियतावधित्वे "ओहिस्सऽबाहिरा होति"
त्ति कालस्य नियमोऽयं विधीयते । इदमुक्तं भवति-भवप्रत्ययादिवचनात् सिध्यति नियमेन नारकादीनामवधिमत्त्वम् , परं न ज्ञायते 25 किमाभवक्षयममीषामवधिर्भवति ? आहोस्वित् कियन्तमपि कालं भूत्वाऽसौ प्रतिपतति ? इति, ततश्च "ओहिस्सऽबाहिरा होति"
इत्यनेन कालनियमः क्रियते, 'सर्वदा' सर्वकालममीषामवधिर्भवति, न त्वन्तरालेऽपि प्रतिपततीति । आह-यद्येवं तीर्थकृतां सर्वकालावस्थायित्वमवधेविरुध्यते, केवलोत्पत्तौ तदभावात् , न, तेषां केवलोत्पत्तावपि वस्तुतस्तत्परिच्छेदस्याप्यनष्टत्वात् सुतरां केवलज्ञानेन सम्पूर्णानन्तधर्मात्मकवस्तुपरिच्छित्तेः छमस्थकालस्य चाविवक्षितत्वाददोषः ॥ इत्यवधिज्ञानं समाप्तम् ।।
[पृष्ठ ३३] 30 अथ मनःपर्यवज्ञाने किश्चिदुच्यते- पं. ७. उत्पत्तिस्वामीत्यादि. उत्पत्तेः स्वामी तस्य मार्गणा-अन्वेषणा 'कीदृक्षस्येदमुपजायते ?' इत्येवंरूपा तस्या द्वारं तेनेति विग्रहः। पं. १३. उक्तं चेत्यादि, अयमत्र सम्बन्धः-राज्ञोपनीतं
१-२ अभंतरलद्धी इति पाठः आव० चूर्णौ ॥ ३ बाहिरलंभो आव० चूर्णौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org