________________
श्रीहरिभद्रसूरिप्रणीताया नन्दीसूत्रवृत्तेः टिप्पनकम् ।
अन्यथा हि यदि क्षेत्रस्य प्रदेशादिवृद्धौ कालस्य नियमेन समयादिवृद्धिः स्यात् तदाऽङ्गमात्रादिकेऽपि वर्धिते क्षेत्रे कालस्यासङ्ख्येया उत्सर्पिण्यवसर्पिण्यो वर्द्धेरन् । तथा च वक्ष्यति -- “अंगुलसेढीमेत्ते ओसप्पिणिओ असंखेज" ति अङ्गुलश्रेणिमात्रे क्षेत्रे यः प्रदेशराशिः स प्रतिसमयं प्रदेशापहारेणापह्रियमाणोऽसङ्ख्येयावसर्पिणीभिरपहियते इति भावः, ततश्च "आवलिया अंगुलपुहुत्त "मित्यादि सर्वं विरुध्येत, तस्मात् क्षेत्रवृद्धौ कालवृद्धिर्भजनायैव, स्थूलत्वात् कालः स्याद् वर्द्धते स्यान्नेति । द्रव्य-पर्यायास्तु क्षेत्रवृद्धौ नियमाद् वर्द्धन्त एवेति स्वयमेव दृश्यम् । “वुड्ढीए दव्व- पज्जवेत्यादि, द्रव्य-पर्याययोवृद्धौ सत्यां क्षेत्र कालौ 'भक्तव्यौ' विकल्पनीयौ, वर्हेते 5 वा न वा । तथाहि—अवस्थितयोरपि क्षेत्र - कालयोस्तथाविधशुभाध्यवसायतः क्षयोपशमवृद्धौ द्रव्यं वर्द्धत एव तद्वृद्धौ च पर्यायवृद्धिरवश्यम्भाविन्येव, प्रतिद्रव्यं पर्यायानन्त्यात्, जघन्यतोऽपि चैकैकद्रव्यादप्यवधेः पर्यायचतुष्टयलाभादिति । पर्यायवृद्धौ च द्रव्यवृद्धिर्भाज्या, भवति वा नवेति स्वयमेव द्रष्टव्यम् । अवस्थितेऽपि हि ये तथाविवक्षयोपशमवृद्धौ पर्याया वर्द्धन्त एवेति गाथार्थः ॥ पं. १८. वृत्तौ - सप्तम्यन्तता चास्येति, खेत्तबुड्ढीए इत्यस्य पदस्येत्यर्थः ।
पं. १ ९. सप्तम्या यथैकारस्तथाऽऽह - ए होइ अयारंते ० इत्यादिगाथा | व्याख्या - द्वितीयाबहुवचनान्तेऽकारान्तपदे पुल्लिङ्गे - 10 ऽभिधेये यत् तस्यैकारो भवति, यथा - "नमिऊण जिणवरिंदे ” [ उपदेशमाला गा. १] इत्यादि । तथा तृतीयादिषु आदिशब्दात् चतुर्थीपरिग्रहः, ततश्च "एगम्मि" त्ति एकत्वे वर्तमानानां तृतीया चतुर्थी षष्टी सप्तमीनां स्थाने 'महिलथे' त्ति स्त्रीलिङ्गेऽभिधेये एकारो भवति, तत्र तृतीयायां यथा "सुंदरबुद्धीए कयं" इत्यादि, चतुर्थ्यां यथा - "गावीए पुण दिन्नं तणं पि खीरत्तणमुवेति ।" इत्यादि, षष्ठ्याः स्थाने यथा - "तीए पुण विसुद्धीए कारणं होति पडिमाओ ।" इत्यादि, सप्तम्याः स्थाने यथाऽयैव । ननु 'तृतीयादिषु ' - इत्यत्राऽऽदिशब्दात् किमिति न पञ्चमीपरिग्रहः ? नैवम्, तत्स्थाने ओकारस्य दर्शनात्, तद्यथा--" इत्थी आणि संक्रमणं" इत्यादि, 15 अत एव चात्र " तइयाइसु छट्ठी-सत्तमीण" इति व्यस्तनिर्देशः, अन्यथा ह्यादिशब्देन चतुर्थ्यादीनां सर्वासामपि विभक्तीनामनुरोधः स्यादेवेति गाथार्थः ||
११९
पं. २५. ननु वस्तूनां नव-पुराणादयः पर्यायाः कालक्रमेणैव भवन्ति, अतस्ते चेदुत्तरोत्तरकालक्रमवृद्धिभाजो वर्द्धन्ते तदा तद्वृद्धौ सिद्धैव कालवृद्धिः, अतः 'पर्यायवृद्धौ कालो भजनीयः' इति यदुक्तं तदसङ्गतमित्याशङ्कयाऽऽह - अक्रमवर्तिनामपि च वृद्धिसम्भवादिति इदमुक्तं भवति - यद्युत्तरोत्तरकालक्रमवृद्धिभाजो नव-पुराणादय एव वस्तूनां पर्यायाः स्युस्तदा युज्येत भवद्वचः, 20 तच्च नास्ति, रूप-रस-गन्ध-स्पर्शतारतम्यादिपर्यायाणां मन्दक्षयोपशमावस्थाऽनुपलब्धानां विशिष्टक्षयोपशमे सति कालकमवृद्ध भावेsपि बहूनां युगपदेव वृद्धिसम्भवादिति भावनीयम् । पं. २५. अत्रेत्यादि, क्षेत्र - कालयोः सम्बन्धिनां प्रदेशानां समयानां च सङ्ख्यामाश्रित्य यन्मानं तत् परस्परं किं तुल्यं हीनमधिकं वा भवेत् ? इति प्रश्नार्थः । पं. २७. सर्वत्रेत्यादिना प्रतिविधत्ते ।
[ पृष्ठ ३० ]
पं. १५. “ तेया-भासेत्यादि, “गुरुलहुय अगुरुयलहुयं तं पि य तेणेव निट्टाइ” त्ति उत्तरार्द्धम् ।
व्याख्या ---तैजसं च भाषा च तैजस-भाषे, तयोर्द्रव्याणि तेषां तैजस-भाषाद्रव्याणाम् 'अन्तराद्' अपान्तराले “एत्थ” ति अत्रान्यदेव तदयोग्यं द्रव्यं 'लभते' पश्यति 'प्रस्थापकः' अवधिज्ञानप्रारम्भकः, अवधिप्रतिपत्तेति यावत् । किंविशिष्टं तत् ? इत्याह'गुरुलघु अगुरुलघु चे 'ति गुरुलघुपर्यायोपेतं गुरुलघु, अगुरुलघुपर्यायोपेतं त्वगुरुलघु । तत्र तैजसद्रव्यासन्नं गुरुलघु, भाषाद्रव्यासन्नं वगुरुलघु । तदपि चावधिज्ञानं तदावरणोदयात् प्रतिपतत् 'तेनैव' उक्तस्वरूपद्रव्येणोपलब्धेन सता निष्ठां याति, प्रतिपततीत्यर्थः । अपिशब्देन चैतद् ज्ञापयति- प्रतिपातिन्यवधिज्ञाने अयं न्याय: - आरम्भे यद् दृष्टं तद् दृष्ट्वा प्रतिपततीति । न चैतदवश्यं प्रतिपा- 36 त्येवेति भावः ॥ भावार्थः
प्राकू
प्रतिपादित एवेति । क्षेत्र - कालदर्शनमुपचारेणोच्यते, “मञ्चाः क्रोशन्ति” इति न्यायेन, यतो मूर्त्तद्रव्या
Jain Education International
For Private Personal Use Only
25
www.jainelibrary.org