________________
११८
मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं
शेषास्तु पञ्च 'अनादेशाः' सम्भवोपदर्शनमात्रेणोक्तत्वात् परिहार्याः । इयं हि यथोक्ता सूचिरेकैकजीवस्यासङ्खयेयाकाशप्रदेशावगाहे व्यवस्थापितत्वाद् बहुतरं क्षेत्रं स्पृशतीत्येको गुणः, अवगाहविरोधाभावस्तु द्वितीयः । ततश्चैषाऽग्निजीवसूचिरवधिज्ञानिनः षट्स्वपि
दिश्वसत्कल्पनया भ्रामिता सती अलोके लोकप्रमाणान्यसङ्खयेयखण्डानि स्पृशति, अत एतावदुत्कृष्टक्षेत्रमवधेविषय इत्युक्तं भवति । . आह-ननु 'रूपिद्रव्याण्येवावधिः पश्यति' इति गीयते, क्षेत्रं त्वमूर्तत्वात् कथं तद्विषयः ? इत्याशङ्कयोक्तं भाष्यकृता
सामत्थमेत्तमेयं, जइ दहव्वं हवेज पेच्छेज्जा ।
न य तं तत्थऽत्थि जओ, सो रूविनिबंधणो भगिओ ॥१॥ [विशेषावश्यके गा. ६०५] . यदवधेरेतावत् क्षेत्र विषय उच्यते तदेतत् तस्य सामर्थ्यमात्रमेव कीर्यते । कोऽर्थः ? इत्याह-यद्येतावति क्षेत्रे द्रष्टव्यं किमपि भवेत् तदा पश्येदवधिज्ञानी, न च तद् द्रष्टव्यं तत्रालोके समस्ति, यतोऽयमवधिस्तीर्थकर-गगधरै रूपिद्रव्यनिबन्धनो भणितः,
तच्च रूपिद्रव्यमलोके नास्त्येवेति । आह-यद्येवं लोकप्रमाणोऽवधिभूत्वा यस्य पुरतो विशुद्धिवशतो लोकाद् बहिरप्यसौ वर्द्धते तस्य 10 तद्वृद्धेः किं फलम् ? लोकाद् बहिर्द्रष्टव्याभावात् , अत्रोच्यते-लोकस्थमेव सूक्ष्मतरं सूक्ष्मतमं द्रव्यं पश्यति यावनैश्चयिकपरमाणु
मपीति तवृद्धेस्तात्विकं फलम् ॥ पं. २१. अंगुलमावलियाणं० गाहा। पं. २३. उक्तं चेत्यादि, असंख्येयानां समयानां समुदयः-समुदायः, स च तेषां विशकलितानामपि तथाविधदेवदत्तादीनामिव स्यादत उच्यते-समुदायस्य समितिःनैरन्तर्येण मीलना, सा च नैरन्तर्यावस्थापितायःशिलाकानामिव परस्परनिरपेक्षाणामपि स्यादत उच्यते-तस्याः समुदयसमितेर्यः
समागमः-परस्परसम्बद्धतया विशिष्टैकपरिणामो भूत-भवद्-भविष्यत्समयप्रवाहेग समागमः, तेनैवम्भूतसमयराशिना एका आव15 लिका भवति, जघन्ययुक्तासंख्यातकप्रतिसमयमान आवलिकाकालो भवतीति तात्पर्यम् । "अंगुलमावलियाण" मित्यादिगाथात्रयस्य [ सूत्रगा. ४७-४९] तात्पर्यमिदम्-उपचारेण सर्वत्र द्रव्यमेव पश्यतीति विज्ञेयम् । ततश्च 'अङ्गुलासङ्खयेयभागादिकं क्षेत्रं पश्यति' इति कोऽर्थः ? तत्रैवैतावति क्षेत्रे यानि प्रस्तुतावधिदर्शनयोग्यानि पुद्गलद्रव्यागि तान्येवासौ पश्यति । 'आवलिकासङ्ख्येयभागादिकं कालं पश्यति' इत्यत्रापि च कोर्थः ? तेषामेव पुद्गलद्रव्याणां ये प्रस्तुतावधिदर्शनयोग्याः पर्यायास्तान् भूतेऽनागते चैतावति
कालेऽसौ वीक्षते इति । एवं सर्वत्र क्षेत्रे काले चावधेविषयत्वेनोक्तयथासङ्खयक्षेत्रगतानि योग्यरूपिद्रव्याणि कालगतांस्तु योग्यांस्तत्पर्या20 यानायोजयेत् , क्षेत्र-कालौ तु 'मञ्चाः क्रोशन्ति' इत्यादिन्यायेनोपचारत एवोच्यते इति भावः । एवं तावत् परिस्थूरन्यायमङ्गीकृत्य
क्षेत्रवृद्धौ कालवृद्धिरनियता, यतो यथा क्षेत्रं वर्द्धते न तथा कालो बर्द्धते, भरतक्षेत्रापेक्षया जम्बूदीपो महान् , कालस्तु न तथेति । कालवृद्धौ तु क्षेत्रवृद्धिर्भवत्येवेति प्रतिपादितम् । पं. १६. साम्प्रतं द्रव्य-क्षेत्र-काल-भावापेक्षया यवृद्धौं यस्य वृद्धिर्भवति यस्य वा न भवत्यमुमर्थ प्रतिपादयन्नाह---
काले चउण्ह वुड्ढी, कालो भइयव्यो खेत्तबुड्ढीए।
वुड्ढीए व्व-पज्जव भइयव्वा खेत्त-काला उ॥ [सूत्रगा. ५१] 'काले' अवधिगोचरे वर्द्धमाने सतीति गम्यते, "चउण्ह वुड्डि” त्ति नियमात् क्षेत्रादीनां चतुर्गामपि वृद्धिर्भवति, कालात् सूक्ष्म-सूक्ष्मतर-सूक्ष्मतमत्वात् क्षेत्र-द्रव्य-पर्यायाणाम् । तथाहि-कालस्य समयेऽपि वर्द्धमाने क्षेत्रस्य प्रभूतप्रदेशा वर्द्धन्ते, तद्वृद्धौ चाऽवश्यम्भाविनी द्रव्यवृद्धिः, प्रत्याकाशप्रदेशं द्रव्यप्राचुर्यात् । द्रव्यवृद्धौ च पर्यायवृद्धिर्भवत्येव, प्रतिद्रव्यं पर्यायबाहुल्यादिति ।
यद्येवं 'काले वर्द्धमाने शेषस्य क्षेत्रादित्रयस्य वृद्धिर्भवति' इति "काले तिगस्स वुड्ढी" इत्येव वक्तुमुचितम् , कथं चतुर्णामित्युक्तम् ?, 30 सत्यम् , किन्तु सामान्यवचनमेतत् । तथाहि-यथा देवदत्ते भुञ्जाने सर्वमपि कुटुम्ब भुङ्क्त इत्यादि, अन्यथा ह्यत्रापि देवदत्ताच्छे
धमपि कुटुम्ब भुङ्क्त इति वक्तव्य स्यात् ; यथा वा एकस्मिन् रसनेन्द्रिये जिते पञ्चापि जितानि भवन्ति; तथा अन्धे भोक्तुमा कारिते जनद्वयमागच्छतीत्यादिवचनप्रवृत्तिदर्शनादित्यदोषः । “कालो भइयव्वो खेतवुड्ढीए" त्ति क्षेत्रस्य-अवधिगोचरस्य वृद्धौआधिक्ये सति कालः 'भक्तव्यः' विकल्पनीयः, वर्द्धते वा न वा, प्रभूते क्षेत्रे वृद्धि गते वर्द्धते कालः, न स्वल्पे इति भावः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org