________________
श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्ते: टिप्पनकम् ।
११७ विष्कम्भयोः संहरणसमयद्वयम् , तृतीयसमयस्तु सूचिसंहरण-पनकत्वेनोत्पादश्चेति त्रयम् , ततश्च त्रयः समया यस्यासौ त्रिसमयः, अविग्रहेणोत्पत्तेराहारकश्च एवं च सति प्रत्युताऽतिसूक्ष्मपनकश्चायं सिद्धो भवति, तथा च सति “तिसमयाहारगस्स पगगजीवस्से"ति सूत्रकारवचनमाराधितं भवति, किञ्चेह यथा सूक्ष्मः सूक्ष्मतरोऽसौ भवति तथा कर्तव्यम् , एतच्चास्मिन् व्याख्याने सविशेषं सिध्यति, उत्पादसमय एव यतो यस्मादसौ पनकजीवोऽतिजघन्यावगाहनो भवति, न शेषसमयेषु, द्वितीयादिष्वीषन्महत्त्वात् , जघन्यावगाहनश्च सूत्रे प्रोक्तः, ततोऽतिसूक्ष्मत्वसिद्धेस्तस्य पनकदेहस्य समानमेव किलावधेविषयभूतं जघन्य क्षेत्रं भवतीति । न युक्तमिदं 5 केषाश्चिद व्याख्यानम् , त्रिसमयाहारकत्वस्य पनकविशेषणत्वेनोक्तत्वात् , मत्स्यसमयद्वयस्य च पनकसमयत्वायोगात् ; योऽपीथमपि जघन्यावगाहनालाभलक्षणो गुण उद्भाव्यते सोऽपि न युक्तः, यस्मान्नेहातिसूक्ष्मे गातिमहता वा किञ्चित् प्रयोजनम् , किं तर्हि ! योग्येन, योग्यश्च स एव तद्वेत्तृभिर्दयो यः प्रथमं जवन्यावगाहनः संस्तस्मिन्नेव भने समयत्रयमाहारं गृङ्गाति ।
[ पृष्ठ २७] पं. ४. सर्वबहग्निजीवाः 'निरन्तरं' सततं नैरन्तर्येणेत्यर्थः 'यावदिति' यत्प्रमाणं 'क्षेत्रम्' आकाशं वक्ष्यमाणविशिष्टसूची- 10 रचनया रचिताः सन्तः 'भृतवन्तः' व्याप्तवन्तः। पं. ५. भूतकालनिर्देशश्चाजितस्वामिकाल एव वक्ष्यमाणयुक्त्या प्रायः सर्वबहवोऽनलजीवा भवन्त्यस्यामवसर्पिण्यामित्यस्यार्थस्य ख्यापनार्थः । अनलजीवोत्पत्तेर्महावृष्टयादिव्याघाताभावे समस्तभरतैरावतविदेहलक्षणपञ्चदशसु कर्मभूमिषु सर्वबहवो बादराग्निजीवा भवन्तीति । किमविशेषेण सर्वदैव एतास्ते भवन्ति ? नैवम् , किन्त्वजितजिनेन्द्रकाले, अजितजिनेन्द्रस्याप्युपलक्षणत्वादवसर्पिण्यां द्वितीयतीर्थकरकाले अग्नि जीवा बहवो भवन्ति ।
___पं. १२. कुतः ? तदारम्भकपुरुषबाहुल्यादिति, तेषां-बादराग्निजीवानां आरम्भकाः-उत्पादकाः सन्धुक्षण-चालनाद्या- 15 .. रम्भकरणात् तदारम्भका ये पुरुषास्तेषां बाहुल्यात् । कोऽर्थः ? सर्वेभ्योऽप्यतीता-ऽनागतेभ्यो बहवः प्रचुरा गर्भजमनुष्यास्तदा भवन्ति स्वभावादेवेति । आह-किमेतै रेव बादराग्निजीवैः सर्वबहग्निजीवपरिमाणं पूर्यते ? आहोश्चित् सूक्ष्माग्निभिः सह ?, यदि तैस्सह तदा तेऽविशिष्टा अपि गृह्यन्ते ? आहोश्चित् केचिदेव विशिष्टाः ? इति, उच्यते-स्वभावाद् यदा सूक्ष्माग्निजीवा अप्युत्कृष्टपदिनः स्युः । इदमत्र हृदयम्-अनन्तानन्तास्ववसर्पिणीषु मध्ये स एव कश्चिद् द्वितीयतीर्थकरकालो गृह्यते यत्र सूक्ष्माग्निजीवा उत्कृष्टपदिनः प्राप्यन्ते, ततश्च तैर्बादरैः सूक्ष्मश्चाग्निजीवैरुत्कृष्ट पदिभिर्मीलितैः सर्वबह्वग्निजीवानां परिमाणं ग्राह्यम् । अत एवाह- 20 सूक्ष्माश्चेति । तत्रैवेति तेष्वेव मध्ये गृह्यन्ते । पं. १३. तेषां चावस्थानं बहुतरक्षेत्रपूरकं बुद्धया षोढा यद्यपि सम्भवति तथापि 'पञ्चाऽनादेशाः षष्ठस्वादेशः' इति वक्तुमाह-तेषां चेति, अयमर्थः-तैः सर्वैरप्यग्निजीवैः समचतुरस्रो घनो द्विभेदः स्थाप्यते, कथम् ? इति, उच्यते-एकैकाकाशप्रदेशे एकैकाग्निजीवरचनया स्वावगाहे चाऽसङ्ख्येयाकाशप्रदेशलक्षणे एकैकाग्निजीवरचनयेति । अत्र स्थापना : । एतेषां नवानामग्निजीवानां प्रत्येकमेकैकाकाशप्रदेशे व्यवस्थापितानामधस्तादुपरिष्टाच्चान्येऽपि नव नव जीवा इत्थमेव व्यवस्थाप्यन्ते, एष कल्पनया सप्ताविंशत्या सद्भावतस्त्वसङ्ख्येयरग्निजीवै रेकैकाकाशप्रदेशव्यवस्थापितैर्घनो मन्तव्यः । द्वितीयोऽपि 25 घन इत्थमेव द्रष्टव्यः, केवलमिहासंख्येयाकाशप्रदेशेष्वेकैकजीवो व्यवस्थाप्यते । एवमेकैकाकाशप्रदेशे एकैकजीवस्थापनया असङ्ख्येयप्रदेशात्मकस्वावगाहस्थापनया च प्रतरोऽपि द्विभेदः, सूचिरपि द्विभेद। तत्र घन-प्रतरपक्षश्चतुर्भेदः पञ्चमश्चकैकाकाशप्रदेशस्थापितैकैकजीवलक्षणसूचिपक्षोऽपि न ग्राह्यः, दोषद्वयानुषङ्गात् । तथाहि-पञ्चविधयाऽप्यनया स्थापनया स्थापिता अग्निजीवाः षट्स्वपि दिश्ववधिज्ञानिनोऽसत्कल्पनया भ्रम्यमाणाः स्तोकमेव क्षेत्रं स्पृशन्तीत्येको दोषः, एकैकाकाशप्रदेशे एकैकजीवस्थापनायामागमविरोधश्च द्वितीयो दोषः, असङ्ख्येयाकाशप्रदेशानन्तरेणाऽऽगमे जीवावगाहनिषेधात् । पं. १५. असत्कल्पनया प्रतिप्रदेशा- 30 वगाहोऽप्यस्त्विति चेत्, नैवम् , कल्पनाऽपि सति सम्भवेऽविरोधिन्येव कर्तव्या, किं विरोधिन्या ? इत्यालोच्याऽऽह-षष्ठः श्रुतादेश इति, असङ्खयेयाकाशप्रदेशलक्षणे स्वावगाहे पङ्क्त्या एकैकजीवस्थापनेन यः सूचिलक्षणः षष्ठः पक्षोऽयं श्रुते आदिष्टत्वाद् ग्राह्यः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org