________________
मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं
साक्षान्मध्यभागेनोपलब्धेरात्ममध्यगतमभिधीयते १ । सर्वात्मनः क्षयोपशमयोगाविशेषेऽप्यौदारिकशरीरमध्यभागेनैवोपलब्धेरौदारिकशरीरमध्यगतमुच्यते २ । सर्वदिगुपलम्भादवधिज्ञानप्रकाशितक्षेत्रमध्य एव ज्ञानिनः सद्भावात् क्षेत्रमध्यगतमभिधीयते ३ ।
पं. २४. अन्तगतं भूयोऽपि पुरतोऽन्तगतादिभेदात् त्रिधा-पुरतः अग्रेतनभागेऽन्तस्थितं प्रागुक्तात्मदेशादीनाम् । मार्गतः पृष्ठतः । पासउ त्ति पार्थतः । ६.२९. उल्का दीपिका, ऋजुलेति या प्रसिद्धा । मणिं व त्ति प्रदीपशिखा मणिविशेषः, 5 आदिप्रहणादन्योऽप्येवंजातीयो ग्राह्यः । प्रदीपः कलिकारूपः । प्रेरयन् प्रेरयन् आकर्षन् आकर्षन् ।
[पृष्ठ २४ ] पं. २. नान्यत्रेति, पृष्ठि-पार्श्वयोः। पं. ५. मार्गतोऽन्तगतसूत्रे-उल्कादिकं अणुकड्ढेमाणे अणुकड्ढेमाणे त्ति अनुकर्षन् अनुकर्षन् गच्छेत् । पं. ८. पार्थतोऽन्तगतसूत्रे-उल्कादिकं प्रदीपान्तं ज्योतिर्वस्तु पार्श्वतः कृत्वा परिकड्ढेमाणे
परिकड्ढेमाणे त्ति परिकर्षन् परिकर्षन् गच्छेत् । पं. १३. मध्यगतसूत्रे-मस्तकस्थेन ज्योतिर्वस्तुना यथा कश्चिद् गच्छेत् 10 सर्वत्र तत्प्रकाशितमर्थ पश्येत् , एवं मध्यगतावधिज्ञानिन्यपि योज्यम् । पं. २४. विशुद्धफडकैरिति, विशुद्धक्षयोपशमजन्यफडकानि विशुद्धफडकान्युच्यन्ते, तैरित्यर्थः ।
[ पृष्ठ २६] पं. ७. द्रव्यलेश्योपरञ्जितमिति, तत्र
कृष्णादिद्रव्यसाचिव्यात् परिणामो य आत्मनः । स्फटिकस्येव तत्रायं लेश्याशब्दः प्रवर्तते ॥१॥ 15 साचिव्यं-सानिध्यम् । पं. ११. जावइया० गाहा-त्रिसमयमाहारक इति वाक्यम् । यद्वा आहारयतीत्याहारकः, त्रीन्
समयानाहारकस्त्रिसमयाहारक इति व्युत्पत्तिः। पं. १९-२४. योजनेत्याचार्याषट्कम् यो मत्स्यो योजनसहस्रायामः स्वदेहस्यैवैकदेशे उत्पद्यमानः स प्रथमे समये आयाम सङ्क्षिपति । तं च सङ्क्षिपन् प्रतरं करोति, कथम्भूतम् ? इत्याह-'सङ्ख्यातीताख्याङ्गुलविभागबाहल्यमानं' बाहल्येनाङ्गुलासङ्ख्येयभागसूक्ष्ममित्यर्थः । पुनरपि कथम्भूतम् ? इत्याह-स्वकेति, मत्स्यदेह
विस्तीर्णम् , शरीरान्तःसम्बद्धत्वादूधिस्तिर्यक् च यावान् मत्स्यदेहस्य विस्तरस्तावांस्तज्जीवप्रदेशप्रतरस्यापीत्यर्थः । एवं चाऽऽयामतो 20 विष्कम्भतश्च मत्स्यशरीरपृथुत्वतुल्योऽङ्गलासङ्ख्येयभागबाहल्यश्चायं प्रतरो भवतीत्येष प्रथमसमयव्यापारः, प्रतरमेतावन्मात्रं
करोति । दैयेणापि, कुतः ? जीवसामर्थ्यात् , ततो द्वितीयसमये 'तं' प्रतरमायामतो विष्कम्भतश्च संक्षिप्याऽङ्गलासङ्ख्येयभागबाहल्यां मत्स्यशरीरपृथुत्वायामां सूचिं करोति । ततस्तृतीयसमये या निजतनुपृथुत्वेन दीर्घा सूचिः तामपि सूचिं सङ्क्षिप्याङ्गुलासङ्ख्येयभागमात्रावगाहनो भूत्वा निर्जीर्णमत्स्यभवायु[रुदीर्णपरभवायुश्चाविग्रहगत्या मत्स्यशरीरस्यैवैकदेशे 'पनकः' सूक्ष्मवनस्पति
जीवविशेषो भवति । अस्मादुत्पादसमयात् तृतीयसमये यद् देहमानमङ्गलासङ्खयेयभागमात्र एतस्य पनकस्य, तद् जघन्यमवधेविषय25 भूतं 'क्षेत्रं तज्ज्ञेयद्रव्याधारम् । एतेन तज्ज्ञेयद्रव्याधारत्वेनैव क्षेत्रमवधेविषय उच्यते, न तु साक्षात् , तस्यामूर्तत्वात् , अवधेस्तु मूर्त विषयत्वादिति । पं. २६. स एव चेत्यादि, यो हि योजनसहस्रायामो महाकायो मत्स्यस्त्रिभिश्च समयैरात्मानं सङ्क्षिपति स किल प्रयत्नविशेषादतिसूक्ष्मामवगाहनां कुरुते, नान्यः, अनेन 'किमिति मत्स्योऽतिमहान् गृह्यते ? तृतीयसमयसंक्षिप्तश्च' इत्येतस्य द्वयस्योत्तरमदायि । दूरे च गत्वाऽन्यत्र यद्युत्पद्यते विग्रहेण च गच्छति तदा जीवप्रदेशाः किञ्चिद् विस्तरं यान्तीत्यवगाहना
स्थूलतरा स्यादित्यविग्रहगत्या स्वशरीरदेश एवोत्पादित इत्येतत् स्वयमेव द्रष्टव्यमिति । पं. २७. किं त्रिसमयाहारको 30 गृह्यते ? अत्रोत्तरमाह-प्रथमेत्यादि । पं. २८. त्रिसमयाहारकत्वविषये केचनाऽऽचार्या व्याचक्षते, यदुत-द्वौ तावन्मस्यस्य सम्बन्धिनौ आद्यसमयौ गृह्यते-आयामसंहरणेन प्रतरकरणमित्येकः, तत्संहरणेन सूचिं यत्र करोति स द्वितीय इत्यायाम
१ ऋडुलेति जे०॥२ मत्स्यशरीरपृथुत्वमायामो यस्याः जेटि० ॥
Jain Education Infernational
For Private & Personal Use Only
www.jainelibrary.org