________________
११५
श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् ।
[पृष्ठ २२] __पं. ४. उदय० गाहा । व्याख्या-उदयः क्षयः क्षयोपशम उपशम इत्येते चत्वारः कर्मणोऽवस्थाविशेषाः 'यद्' यस्माद् भणिता एते प्रवर्तन्ते इत्यर्थः । कथम् ? इत्याह-'द्रव्यं क्षेत्रं कालं भवं च भावं च सम्प्राप्य' इति द्रव्याद्यपेक्षाः सन्तः स्युः, न यतस्तत इत्यर्थः । तत्र पीतमदिरस्य भक्षितहृत्पूरकस्य वा ज्ञानान्यथात्वं द्रव्याद् भवतीति प्रतीतम् , मण्डूक-ब्राह्मी-कङ्गुणीतैलादिपानादिना कचित् कदाचिदज्ञाननिवृत्तिश्च भवति । देवताराधन-मन्त्रादिस्मरणतश्च सा भवतीति भावापेक्षाऽप्यसौ। एवं सक-चन्दनाऽङ्गना- 5 डरोग्यत्वादिद्रव्य-भावापेक्षः साताद्युदयो भवति । तथा निद्रादिपञ्चकोदयो भक्षितमाहिषदधि-वृन्ताकादिद्रव्यस्य जीवस्य तत्तद्रव्यमपेक्ष्य भवन् द्रव्यापेक्षः । सजलादिक्षेत्रं प्राप्य स एवातिशयेन भवतीति क्षेत्रापेक्षः । निद्रोदयस्यैव रजन्यादिकः कालः विशेषतो ग्रीष्मो वा इति कालापेक्षः । स एवैकेन्द्रियादिभवं प्राप्य पृथिव्यादिवनस्पतीनां विशेषतो निद्रोदय इति भवापेक्षः । स एव चित्तस्वास्थ्यादिभावमपेक्ष्य भवन् भावापेक्ष इति । एवं द्रव्यादयः परस्परं सव्यपेक्षाः सन्तः कर्मणामुदय-क्षय-क्षयोपशमोपशमरूपं कचित् कदाचिदवस्थाविशेष जनयन्तीति क्षयोपशमजोऽप्यवधिर्देव-नारकयोर्भवप्रत्ययो भवति, अवश्यं तस्य तत्र भावात् । तिर्यग्मनु- 10 ष्याणां भवे सत्यप्यसौ क्षयोपशमज एव, क्वचित् कदाचिदेव भावाद् इति प्रकृतोपयोगि । अन्यच्च तृणाद्याहारस्तज्जप्रभूतभारोद्वहनसामर्थ्य च तिरश्चां भवप्रत्ययं भवति । नारकाणां तादृशमारणान्तिकवेदनाधिसहनसामर्थ्य भवप्रत्ययं भवति, एवं वीर्यान्तरायकर्मक्षयोपशमात् केचिन्महासामोपेता मनुष्या अपि दृश्यन्ते, केचित् प्रबलवीर्यान्तरायोदयात् तृणकुब्जीकरणेऽप्यसमर्था इति । एवं सर्वत्र द्रव्याद्यपेक्षया उदयादयः प्रवर्तन्ते इति गाथार्थः ॥
अवधानमवधिः-इन्द्रियाद्यनपेक्षमात्मनः साक्षादर्थग्रहणम् । अवधेरेव ज्ञानमवधिज्ञानम् । अथवा अवधिः-मर्यादा, तेनाव- 15 धिना-रूपिद्रव्यमर्यादात्मकेन ज्ञानमवधिज्ञानम् । तद् भवप्रत्ययं नारक-देवानाम् , गुणप्रत्ययं मनुष्य-तिरश्चाम् ।
[पृष्ठ २३] पं. १. तद् द्विविधं सत् षोढा आनुगामुकादिभेदात् । आ-अभिविधिना अनुगमनशीलमानुगामुकम् , यत्र उत्पन्नं ततो देशान्तरगतमपि ज्ञानिनं यदनुगच्छति लोचनवत् तदानुगामुकम १ । यत्र क्षेत्रे उत्पन्नं तत्रस्थ एव पश्यति नान्यत्र गत इति, ' यत तदेशस्थितस्यैव भवति स्थानस्थदीपवत् , तत् तदेशनिबन्धनक्षयोपशमजत्वाद् देशान्तरगतस्य तु भ्रंशाद् अनानुगामुकम २। 20 वर्द्धमानकं यदङ्गुलासंख्येयभागादिविषयमुत्पद्य पुनः वृद्धि-विषयविस्तरणात्मिकां याति यावदलोके लोकप्रमाणान्यसंख्येयानि खण्डादीनि ३ । हीयमानकं यद् जघन्येनाङ्गुलासंख्येयभागविषयम् उत्कर्षेण सर्वलोकविषयमुत्पद्य पुनः संक्लेशवशात् क्रमेण हानिविषयसङ्कोचात्मिकां याति यावदङ्गलासंख्येयभागस्ततोऽपि प्रतिपतति, येन त्वलोकस्य प्रदेशोऽपि दृष्टस्तस्य न हीयते ४ । प्रतिपाति कियन्तमपि कालं स्थित्वा ततो ध्वंसनस्वभावं यदित्यर्थः ५ । अप्रतिपाति आमरणान्तभावि यदित्यर्थः ६ । अत्र चाप्रतिपाति ज्ञानमनुगाम्येव भवति, आनुगामुकं त्वप्रतिपाति प्रतिपाति च भवतीत्युभयोर्विशेषः । तथा प्रतिपाति प्रतिपतत्येव, 25 पतितमपि च देशान्तरे गतस्य कदाचिज्जायते, न चेत्थमनानुगामुकम् , यत इदं यत्र देशे तिष्ठतः समुत्पन्नं तत्रैव तिष्ठतश्चयवते न वा, च्युतमपि देशान्तरे पुनरप्युत्पत्तिप्रदेशे समायातस्य भवतीति प्रतिपात्यनानुगामुकयोर्भेदः । पं. १५. तच्च फड्डकावधित्वादिति, अपवरकांदिजालकान्तरस्थप्रदीपप्रभानिर्गमस्थानानीवाऽवधिज्ञानावरणक्षयोपशमजन्यान्यवधिज्ञाननिर्गमस्थानानीह फड़कान्युच्यन्ते, तानि चैकजीवस्य संख्येयान्यसंख्येयानि च भवन्ति, तैर्यदवधिज्ञानं जीवस्य तत् फडकावधीत्युच्यते । तत्र सकलजीवोपयोगे सत्यपि साक्षादेकदेशेनैव दर्शनादात्मप्रदेशान्तर्गतमुच्यते १ । सर्वात्मप्रदेशक्षयोपशमभावे सत्यप्यौदारिकशरीरैकदेशेनैव 30 दर्शनादौदारिकशरीरान्तर्गतमुच्यते २ । एकदिगुपलम्भाद् ज्ञानोद्योतितक्षेत्रान्तर्वृत्तेरवधिमत एगदिगुद्योतितक्षेत्रान्तर्गतमुच्यते ३ ।
पं. १९. आत्ममध्यगतादिभेदेन मध्यगतमपि त्रिधा-तत्र सर्वात्मोपयोगे सत्यपि मध्य एव सर्वफडकविशुद्धिसद्भावात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org