________________
११४
मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं
कर्णपर्पटिकादि बाह्यसंस्थानं बहिनिर्वृत्तिः, कदम्बपुष्पगोलकाद्याकृतिश्चान्तनिर्वृत्तिः, तच्छक्तिविशेषश्चोपकरणम् । यथा खड्गे खड्गः तद्वारा तच्छेदनशक्तिश्चेति त्रयं व्याप्रियते, एवं द्रव्येन्द्रियगोचरं निर्वृत्तिद्वयं तच्छक्तिश्चेति त्रितयं ज्ञानं प्रति व्याप्रियते ।
पं. २७. नोइन्द्रियप्रत्यक्षमिति, यत्रेन्द्रियं सर्वथैव न प्रवर्तते किन्तु जीव एव साक्षादर्थं पश्यति तद् नोइन्द्रियप्रत्यक्षमवध्यादि ।
[ पृष्ठ २१] पं. ४. उपचारतः प्रत्यक्षमिति, इहेन्द्रियं श्रोत्रादि, तदेव निमित्तं सहकारिकारणं यस्योत्पित्सोस्तदा (? द)लैङ्गिकं शब्द-रूपरस-गन्ध-स्पर्शविषयज्ञानमिन्द्रियप्रत्यक्षम् । इदं चेन्द्रियलक्षणं जीवात् परं-व्यतिरिक्तं निमित्तमाश्रित्योत्पद्यते इति धूमादग्निज्ञानमिव वस्तुतोऽर्थसाक्षात्कारित्वाभावात् परोक्षमेव, केवलं लोकेऽस्य प्रत्यक्षतया रूढत्वात् संव्यवहारतोऽत्रापि प्रत्यक्षत्वमुच्यते, न परमार्थतः,
परमार्थतोऽवध्यादिकमेव प्रत्यक्षम् , इन्द्रियाद्यनपेक्षत्वात् । कथं ज्ञायत इत्यादि, मुख्यतोऽपीन्द्रियप्रत्यक्षं किमिति न स्यादिति 10 वितर्कार्थः। पं. ६. न चेत्यादि, मति-श्रुते विमुच्येन्द्रियज्ञानमपरं न किञ्चिदस्ति यत् प्रगुणन्यायेन मुख्यतः प्रत्यक्षं भवेत्
ते-श्रताभ्यां पार्थक्ये षष्ठज्ञानप्रसङ्गः, तस्मादिन्द्रियजज्ञानस्य मति-श्रतयोरेवान्तर्भावः। मति-श्रते च परोक्षे अभिहिते, तत्परोक्षत्वे इन्द्रियजज्ञानस्यापि परोक्षत्वमेव पारमार्थिकम् । पं.-८. आहेत्यादि, धूमादग्निज्ञानवत् , न त्वक्षजमिति भावः । इह यदित्यादि, हन्त ! इहापीन्द्रिय-मनोभिर्गृहीते बाह्ये धूमादौ लिङ्गेऽन्यादिविषयं यज्ज्ञानमुत्पद्यते तदेकान्तेन परोक्षम् , इन्द्रिय-मनसामात्मनश्च तद्ग्राह्यार्थस्य एकान्तेन परोक्षत्वादिति भावः । पं. १०. यत् पुनरित्यादि, लिङ्गमन्तरेणैव यदि15 न्द्रिय-मनसां वस्तुसाक्षात्कारित्वेन ज्ञानमुपजायते तत् तेषां प्रत्यक्षत्वाल्लोकव्यवहारमात्रापेक्षया प्रत्यक्षमुच्यते, अलिङ्गत्वात् , अवध्यादिवत् , न त्वात्मनस्तत् प्रत्यक्षमिति शेषः । इन्द्रिय-मनोभवं ज्ञानमात्मनः परोक्षमेव, परनिमित्तत्वात् , धूमादग्निज्ञानवत् ।
पं. ११. यद्येवं यल्लिङ्गमन्तरेणैव साक्षादिन्द्रिय-मनोनिमित्तं ज्ञानमुत्पद्यते तत् परमार्थतः प्रत्यक्षमस्तु, किं तदपि परोक्षत्वे' नेष्यते ? नैवमित्याह-इन्द्रियाणामपीत्यादि, इन्द्रिय-मनांसि ज्ञानजनकत्वेनाऽऽमनो व्याप्रियन्ते इति ज्ञाननिमित्तत्वेन साक्षाद्
व्याप्रियमाणत्वादुपचारतोऽक्ष-इन्द्रियं प्रति वर्तते इतीन्द्रियप्रत्यक्षमुच्यते, न तत्त्वतः; यतो यदिन्द्रिय-मनोनिमित्तं ज्ञानमुत्पद्यते 20 तदप्यात्मनः, न त्विन्द्रियाणाम् , तेषामचेतनत्वात् । एतेन ये वैशेषिकादयो अक्षं-इन्द्रियं प्रति गतं प्रत्यक्षमितीन्द्रियाणां साक्षाद घटाद्यर्थोपलब्धेर्घटादिज्ञानं प्रत्यक्षमिच्छन्ति तन्न युज्यत इत्यावेदितम् , इन्द्रियाणामचेतनत्वेन ज्ञानायोगात् । तथाहि-यदचेतनं तन्न जानाति, यथा घटादि, अचेतनानि चेन्द्रियाणि, कुतस्तेषामुपलब्धिः प्रत्यक्षं भवेत् ? । एवं मूर्तिमत्त्वात् स्पर्शादिमत्त्वाच्च न जानन्ति । न च वाच्यम्-'इन्द्रियाणि न जानन्तीति प्रत्यक्षविरोधिनी प्रतिज्ञा, तेषां साक्षात्कारेणार्थोपलब्धेरनुभवप्रत्यक्षेण प्रतिप्राणि
प्रसिद्धत्वात् ' [इति], यतश्चक्षुरादीन्द्रिये करणतया व्याप्रियमाणे वस्तूनामुपलब्धा आत्मैव, न विन्द्रियम् , चक्षुरादीन्द्रियोपरमेऽपि 25 तदुपलब्धार्थानुस्मर्तृत्वात् । इह यो येषूपरतेष्वपि तदुपलब्धानर्थाननुस्मरति स तत्रोपलब्धा दृष्टः, यथा गृहगवाक्षोपलब्धानामर्थानां
तद्विगमेऽप्यर्थानुस्मर्ता देवदत्तादिः, अनुस्मरति चेन्द्रियविगमेऽपि तदुपलब्धमर्थमात्मा, तस्मात् स एवोपलब्धा । यदि पुनरिन्द्रियाण्युपलम्भकानि स्युस्तदा तद्विगमे कस्यानुस्मरणं स्यात् ?, नह्यन्येनोपलव्धेऽर्थेऽन्यस्य स्मरणं युक्तम् , अस्ति चानुस्मरणम् , तस्मान्न जानन्तीन्द्रियाणि । ततश्चेन्द्रिय-मनोनिमित्तमात्मनो ज्ञानं परनिमित्तत्वात् परोक्षमति-श्रुतान्तर्भावाच्चानुमानवत् परोक्षं तत्त्वतः,
संव्यवहारतस्तु प्रत्यक्षम् । पं. १२. अत एवाह-अत्र बहु वक्तव्यमित्यादि, मनोनिमित्तस्यापि ज्ञानस्य परनिमित्तत्वाद30 नुमानवत् परोक्षत्वं ज्ञेयम् । न च वक्तव्यम्-'आगमेऽस्य तत् परोक्षत्वं न कचिद् विशेषतोऽभिहितम्' इति], यतो मति-श्रुतयोरागमे परोक्षत्वस्य विशेषतो भणनात् , मनोनिमित्तस्यापि च ज्ञानस्य तदन्तःपातित्वादिन्द्रियजज्ञानस्येव परोक्षत्वं सिद्धमेवाऽऽह ।
पं. १६. अत एवाह-इह मनोज्ञानमपीत्यादि, योग-क्षेमौ आक्षेप-परिहारौ तुल्यावस्येन्द्रियज्ञानेन सहेति । पं. ३०. कायन्ति शब्दयन्ति योग्यतया तद्वेतुकर्मोपादानत इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org