________________
श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् |
११३
पं. १८. ननु यद्यनयोः परस्परमेवं तुल्यता तर्ह्येकत्र द्वयोरप्युपन्यासोऽस्तु, आदावेव तु तदुपन्यासः कथम् ? इति उच्यते, मति श्रुतज्ञानसद्भावे एव शेषावध्यादिज्ञानलाभादादौ तदुपन्यासः, नहि स कश्चित् प्राणी भूतपूर्वोऽस्ति भविष्यति वा यो मतिश्रुतज्ञाने अनासाद्य प्रथममेवावध्यादीनि शेषज्ञानानि प्राप्तवान् प्राप्नोति प्राप्स्यति वेति भावः । तदुक्तम्
जं सामि-काल-कारण-विसय-परोक्खत्तणेहिं तुल्लाई । तब्भावे सेसागि य, तेगाऽऽईए मइ सुयाई || [विशेषा० गा० ८५ ] भवतु तौ मति श्रुतोपादानम्, केवलं पूर्वं मतिः पश्चात्तु श्रुतमित्यत्र किं कारणम् ? उच्यते मतिपूर्वकत्वादित्यादि । पं.. २०. मइपुव्वं॰ गाहा । व्याख्या– मतिः पूर्वं - प्रथममस्येति मतिपूर्वं 'येन' कारणेन श्रुतज्ञानं तेन श्रुतस्याऽऽदौ 5 मतिः तीर्थकर-गणधरैरुक्तेति शेषः, नह्यवग्रहादिरूपे मतिज्ञाने पूर्वमप्रवृत्ते काप्यभिलापप्लावितार्थग्रहणरूपश्रुतप्रवृत्तिरस्तीति भावः । "विसिट्ठो वा मइमेओ चेव सुयं" ति यदि वा इन्द्रिया - ऽनिन्द्रियनिमित्तद्वारेगोपजायमानं सर्वं मतिज्ञानमेव, केवलं परोपदेशादागमवचनाच्च भवन् विशिष्टः कश्चिन्मतिभेद एव श्रुतम्, नान्यत् । यतश्व विशिष्टमत्यंश एव श्रुतं ततो मूलभूताया मतेरादौ विन्यासः, तद्भेदरूपं तु श्रुतं मतिसमनन्तरं भणितमिति गाथार्थः ॥
पं. २३. मति-श्रुतज्ञानानन्तरमवधेरुपन्यासः कालादिचतुष्टयसाधर्म्यात्, नानाजीवापेक्षया एकजीवापेक्षया च मति- 10 श्रुताभ्यां सहावधेः समानस्थितिकालत्वात् कालसाधर्म्यम् । पं. २४. प्रवाहापेक्षयेति, सर्वजीवानाश्रित्य सर्वाद्धां एकजीवापेक्षया सागरषट्पष्टिः साधिका स्थितिकालः । पं. २५. यथा च मिथ्यात्वोदये मति श्रुतज्ञाने अज्ञानरूपं विपर्ययं प्रतिपद्येते तथाऽवधिरपीति विपर्ययसाधर्म्यम् । पं. २६. य एव मति-श्रुतयो: स्वामी स एवावधेरपीति स्वामिसाधर्म्यम् । पं. २७. लाभोऽपि कदाचित् कस्यचिदमीषां त्रयाणामपि ज्ञानानां युगपदेव भवतीति लाभसाधर्म्यम् ।
पं. २८. अवध्यनन्तरं मनःपर्यायज्ञानस्योपन्यासः छद्मस्थादिकारणचतुष्टयात्, तत्र विषयसाधर्म्ये उभयोरपि 15 पुद्गलमात्रविषयतासाधर्म्यं यद्यपि सामान्येन तथाप्यस्य मनोवर्गणाविशेषतो विषयः । पं. ३२. सर्वज्ञानानामुपरि केवलस्योपन्यासः तस्योत्तमत्वात्, सर्वोत्तमं हि केवलज्ञानम्, अतीतानागत- वर्तमाननिः शेषज्ञेयस्वरूपावभासित्वात् । सर्वज्ञानानां लाभेऽवसान एवास्य लाभाद्वा अन्ते निर्देशः । विपर्ययाभावश्च साधर्म्यम् ।
[ पृष्ठ २० ]
पं. ९. अनुते - केवलाद्युत्पत्तौ ज्ञानात्मना सर्वार्थान् व्याप्नोतीति उगादिनिपातनाद् अक्षः - जीवः । यद्वा अश्नाति 20 समस्तत्रिभुवनान्तर्वर्तिनो देवलोकसमृद्ध्यादीनर्थान् पालयति भुङ्क्ते चेति निपातनाद् अक्षः - जीवः, अश्नातेर्भोजनार्थत्वात्, भुजेश्व पालना-ऽभ्यवहारार्थत्वादिति भावः, तमक्षं जीवं प्रति साक्षाद् गतमिन्द्रियनिरपेक्षं वर्तते यद् ज्ञानं तत् प्रत्यक्षम् ।
पं. १०. अत एवोक्तम्- अपरनिमित्तमिति, न परम् - इन्द्रियादि निमित्तं यस्योत्पत्तौ अक्षं- जीवं विमुच्य तदपरनिमित्तम्, अत एवातीन्द्रियमेतत्, अवध्यादित्रयस्यैव साक्षादर्थपरिच्छेदकत्वेन जीवं प्रति साक्षाद् वर्तमानत्वात् प्रत्यक्षव्यपदेशः ।
पं.११. विचित्रतां चास्येति, अवध्यादिप्रत्यक्षस्य परेभ्योऽक्षस्य - जीवस्य यज्ज्ञानमुत्पद्यते तत् परोक्षम्, यस्माद् द्रव्ये- 25 न्द्रियाणि द्रव्यमनश्चाक्षस्य-जीवस्य पराणि वर्तन्ते, भिन्नानीत्यर्थः । कुतः परत्वम् ? द्रव्येन्द्रिय-मनसोः पुद्गलमयत्वादिति । इदमुक्तं भवति—अपौद्गलिकत्वादमूर्तो जीवः, पौगलिकत्वान्मूर्तानि द्रव्येन्द्रिय मनांसि, अमूर्ताच्च मूर्तं पृथग्भूतम्, ततस्तेभ्यः पौद्गलिकेन्द्रियमनोभ्यः यन्मति श्रुतलक्षणं ज्ञानमुपजायते तद् धूमादेरग्न्यादिज्ञानवत् परनिमित्तत्त्वात् परोक्षमुच्यते । यद्वा परैः - इन्द्रियादिभिः उक्षा-सम्बन्धनं लिङ्गानुमेये ग्राह्य-ग्राहकलक्षणं अस्य ज्ञानस्य तत् परोक्षम् । पं २४. द्रव्येन्द्रियमित्यादि,
अंतो-बहिनिव्वत्ती, तस्सत्तिसरूवगं च उवगरणं । दच्चिदियमियरं पुण लधुवओगेहिं नायव्वं ॥ १॥ [ टी० १५
Jain Education International
For Private Personal Use Only
] 30
www.jainelibrary.org