________________
११२
मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं ___ पं. २६. यद्वा शृणोतीति श्रुतमात्मैवोच्यते, ज्ञान-ज्ञानिनोः कथञ्चिदव्यतिरेकात् श्रुतोपयोगपरिणामयुक्तः श्रुतं भवति, तदत्रापि शब्दस्य श्रुतकारणत्वात् क्षयोपशमस्य च ज्ञानहेतुत्वाद् आत्मनश्च कथञ्चित् तदव्यतिरेकाद् उपचारतः श्रुतं च तद् ज्ञानं चेति समासो युज्यते २। पं. २८. अवशब्दो अधःशब्दार्थः मर्यादार्थश्च । 'अवधीयते' अधोऽधो विस्तृतं परिच्छिद्यते रूपि वस्तु 'अनेन' ज्ञानेनेत्यवधिः । यद्वा अव-रूपिद्रव्यमर्यादया धीयते-परिच्छिद्यते वस्त्वनेनेत्यवधिः । पं. २९. अव5 धीयते 'अस्माद्' ज्ञानाद् जीवेन साक्षाद् वस्तु इत्यवधिः। पं. ३०. अवधीयते जीवेनास्मिन् सति वस्तु इत्यवधिः । अवधानं वाऽवधिः-साक्षादर्थपरिच्छेदनम् । पं. ३२. पर्ययनं-सर्वतः परिच्छेदनं पर्ययः । क पुनरसौ ? इत्याह
[पृष्ठ १९] पं. १. मनसीत्यादि, मनसि ग्राह्ये मनसो वा ग्राह्यस्य सम्बन्धी पर्ययो मनःपर्ययः। पं. ३. यद्वा मनःपर्यायज्ञानमित्युच्यते । तत्र "इण् गतौ” अयनं आयो लामः प्राप्तिरिति पर्यायाः, परिः-समन्तादायः पर्यायः, मनसः पर्यायास्तेषु ज्ञानम् । 10 यद्वा संज्ञिभिर्जी वैः काययोगेन गृहीतानि मनःप्रायोग्यवर्गणापुद्गलद्रव्याणि चिन्तनीयवस्तुचिन्तनव्यापृतेन मनोयोगेन मनस्त्वेन
परिणमय्याऽऽलम्ब्यमानानि मनांसीत्युच्यन्ते । ततश्च जीवैर्वस्तुचिन्तने व्यापारितानि मनांसि पर्येति-परिच्छिनत्ति मनःपर्यायम् , "कर्मण्यण” [पा. ३-२-१] तस्य कथञ्चित् कर्तुरनन्यत्वात् कर्तृत्वविवक्षा । कर्ता वा आत्मा यथोक्तानि मनांसि पर्येति अनेनेति मनःपर्यायम् , "अकर्तरि च" (पा. ३-३-१९) इत्यादिना घञ् , तत् पुनस्तदावरणक्षयोपशमजो लब्धिविशेषस्तदुपयोगो वा विषय
ग्रहणात्मकः । यद्वाऽवनं--गमनं वेदनमित्यवः, परिः-समन्तादवः पर्यवः, मनसि मनसो वा पर्यवा मनःपर्यवाः, तेषां तेषु वा 15 इदमित्थम्भूतमनेन चिन्तितमित्येवंरूपं ज्ञानं मनःपर्यवज्ञानं मनःपर्यायज्ञानमिति वेति । इदं चेत्यादि, अर्द्ध तृतीयं येषां तेऽर्धतृतीया
द्वीपाः, ते च समुद्रौ चार्धतृतीयद्वीप-समुद्राः, तेषामन्तः-मध्यं तत् तथा, तत्र वर्तन्ते ये तेऽर्द्धतृतीयद्वीप-समुद्रान्तर्वर्तिनः, ते च ते संज्ञिनश्च तेषां मनोगतानि-मनस्त्वेन परिणमय्य मुक्तानि यानि द्रव्याणि तैरेव तान्यालम्बते-आश्रयति अर्थपरिच्छेदकतया यद् ज्ञानं तत् तदालम्बनम् । पं. ५. केवलमित्यादि, "केवलमेगं सुद्धं सकलमसाहारणं अणंतं च ।" [विशेषा. गा. ८४] इति
वचनात् केवलशब्द एकाद्यर्थपञ्चकवृत्तिरिति क्रमेण व्याचष्टे । तत्र केवलमिति कोऽर्थः ? असहायम इन्द्रियादिसाहाय्यानपेक्षित्वा20 देकमित्यर्थः, तद्भावे शेषच्छामस्थिकज्ञाननिवृत्तेर्वाऽसहायम् । अत एवाह-मत्यादिज्ञाननिरपेक्षम् । केवलं शुद्धं निर्मलमित्यर्थः, सकलावरणमलकलङ्कविगमसम्भूतत्वात् । सकलं वा केवलम् , परिपूर्णमित्यर्थः, सम्पूर्णद्रव्यादिज्ञेयग्राहित्वात् ।
पं. ६. तत्पथमतयैवेति, यो येन भावेन पूर्व नासीदिदानी च जातः स तेन भावेन तत्प्रथम उच्यते तेन प्रथमः, सा चासौ प्रथमता चेति वेति विग्रहः । असाधारणं तादृशापरज्ञानाभावाद् अनन्यसदृशम् । पं. ७. अनन्तं अप्रतिपातित्वेनाविद्यमानपर्यन्तं ज्ञेयानन्तत्वाद्वा अनन्तं केवलमुच्यते । 25 पं. ९. आहेत्यादि, एतेषु मध्ये आदौ मतिश्रुतोपन्यासः किमर्थः ?, उच्यते, स्वाम्यादिकारणषट्कं प्रतीत्य मति-श्रुतयोरुपन्यासः, नवरमाभिनिबोधिकं ह्यौत्पत्तिक्यादिमतिप्रधानत्वान्मतिरप्युच्यते । कालो द्विधा-नानाजीवापेक्षया एकजीवापेक्षया च । स चायं द्विविधोऽप्यनयोस्तुल्य एव, नानाजीवापेक्षया द्वयोरपि सर्वकालमनुच्छेदात् , एकजीवापेक्षया तूभयोरपि निरन्तरसातिरेकसागरोपमषट्षष्टिस्थितिकत्वेनात्रैवाभिधास्यमानत्वात् । कारणमपीन्द्रिय-मनोलक्षणं स्वावरणक्षयोपशमस्वरूपं च द्वयोरपि समानम् ।
उभयस्यापि "सव्वगयं सम्मत्तं" [आव०नि० गा० ८३० विशेषा० गा० २७५१] इत्यादिना सर्वद्रव्यादिविषयत्वाद् विषय30 तुल्यता। पं. १६. तत्र आदेशत इति, आदेश:-प्रकारः, स च सामान्यतो विशेषतश्च । सामान्यतो द्रव्यजाति जानीते, विशेषतो धर्मास्तिकायादेरेव देशादिविभागं जानीते। - पं. १७. इन्द्रियादिपरनिमित्तत्वादुभयोः परोक्षत्वसमता ।
१ मनःपर्यवव्युत्पादनं नास्ति हारिभद्रयां व्याख्यातम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org