________________
श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् ।
१११ अज्ञः सुखमाराध्यः, सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवदुर्विदग्धं ब्रह्माऽपि नरं न रञ्जयति ॥२॥ [भर्तृहरित्रिशती १.२] अत्राऽऽद्यपर्षद्द्यं योग्यम् , तृतीया त्वयोग्येति ॥
[ पृष्ठ १८] पं. १. नाणमित्यादि। पं. २. सामान्य-विशेषात्मके वस्तुनि विशेषग्रहणात्मको बोधो ज्ञानं संविदुच्यते । करणाउपादाना-ऽधिकरण-कर्तृसाधनोऽपि ज्ञानशब्दो व्युत्पाद्यः। नवरं कर्तृपक्षे ज्ञान-ज्ञानिनोः कथञ्चिव्यतिरेकादात्मैव ज्ञानम् , जानाति 5 स्वं रूपं बाह्यभावांश्चेति ज्ञानम् , प्रदीपवत् स्व-परावभासित्वाद् ज्ञानस्येति भावः । अत एवाऽऽह- पं. ३. स्व-विषयेति स्व-विषययोः-आत्म-बाह्यार्थयोः संवेदनं रूपं यस्येति विग्रहः॥ पं. ७. क् च ङ् च इत्-अनुबन्धो यस्य प्रत्ययस्येति विग्रहः, कानुबन्धे ङानुबन्धे चेत्यर्थः । अजादिगणश्च अच्च अजाद्यत् तस्मात् , अजादीनां तदन्याकारान्तानां च टापिति स्त्रियामा प्रवर्तते ।
पं. १०. कुव्याख्येति, 'विध इत्यकारान्तोऽयम्' इति केचिदाहुः तदस्य न सम्मतमिति रूपसिद्भिर्दर्शिता ॥
पं. १२. अत्थं० गाहा-इहोपचारादर्थप्रत्यायनहेतुत्वाच्छब्द एव खल्वर्थोऽत्र, ततः शब्दमेवार्थप्रत्यायकमर्हन् भाषते, न तु 10 साक्षादर्थम् , तस्याशब्दरूपत्वेनाभिलपितुमशक्यत्वात् । गणभृतोऽपि च शब्दात्मकमेव. श्रुतं प्रथ्नन्ति 'निपुणं' सूक्ष्मं बह्वथं वा ।
कः प्रतिविशेषः ? इति चेत् , उच्यते-स हि भगवान् विशिष्टमतिसम्पन्नगणधरापेक्षया प्रभूतार्थमर्थमात्रं स्वल्पमेवाभिधत्ते, बीजमात्रतया, न वितरजनसाधारणं ग्रन्थराशिमिति, प्रभूतार्थतीर्थकरभाषितस्य गणधरैविस्तीर्णतया सूत्रकरणमिति विशेष इति गाथार्थः ॥ पं. १८. तत्रेति ज्ञानपञ्चकमध्ये । आभिनिबोधिकज्ञानमित्यस्यायमर्थ:-अभिमुखः-योग्यदेशावस्थितार्थापेक्षी, अर्थाभिमुखः अर्थबलायातत्वेन तन्नान्तरीयकोद्भव इत्यर्थः । 'नियतः स्वस्वविषयापेक्षी, तेन श्रोत्र-चक्षू-रसना-प्राण-स्पर्शनानामि- 15 न्द्रियाणां शब्द-रूप-रस-गन्ध-स्पर्शाः स्वविषया ग्राह्यतया नियताः, न वितरस्य विषयमितरद् गृहणाति यो बोधः सोऽभिनिबोधः, अभिनिबोध एवाऽऽभिनिबोधिकम् , विनयादिपाठात् स्वार्थे इकणिति, यथा विनय एव वैनयिकमिति । यद्वा नात्र स्वार्थिकप्रत्यय एव किन्तु यथाघटमानमन्यथाऽपि व्युत्पाद्यम् । पं. १९. अभिनिबुध्यते तदित्यादि, ननु कर्तारमन्तरेण कर्म न भवति, अभिनिबुध्यते तदित्यत्र तु मतिज्ञानं कर्मास्ति, न तु कर्ता, तत् कथमिदं घटते ? इत्याह-- पं. २०. तस्य स्वसंविदितरूपत्वादिति, स्वयमेव ज्ञानं नीलादिग्राहकत्वेनात्मानं व्यवच्छिनत्ति, न बाह्यो ज्ञानपरिच्छेदकः कर्ताऽन्वेषणीय इति भावः । ननु 20 'ओदनं पचति देवदत्तः' इत्यादिषु भेदेनैव कर्म-कर्तृव्यवहारो दृष्टः, अत्र तु तदेव ज्ञानं परिच्छेदकं तदेव च परिच्छेद्यमिति भेदाभावात् कथं तद्व्यवहारः ? इत्याशङ्कयाऽऽह-भेदोपचारादिति, तद्धि प्रदीपवत् प्रकाशस्वभावमेवोत्पद्यत इत्यसन्नपि कर्तृ-कर्मभावेन भेद उपचर्यत इति भावः । यथा ज्ञानं कर्तृ स्वं रूपमभिनिबुध्यते इत्येकस्यैव कर्तृत्वं कर्मत्वं स्यात् । तदेवमाभिनिबोधिकशब्दवाच्य ज्ञानमुक्तम् । अथवा ज्ञानं क्षयोपशम आत्मा वा तद्वाच्य इति दर्शयति-करणादिसाधनतया अभिनिबुध्यते घटादि वस्तु आत्मा 'अनेन' प्रस्तुतज्ञानेन तदावरणक्षयोपशमेन वाऽभिनिबोधः, स एवाऽऽभिनिबोधिकम् । पं. २१. अभिनिबुध्यते 'अस्मात' 25 प्रकृतज्ञानात् क्षयोपशमाद्वा। पं. २२. 'अभिनिबुध्यते' अवगच्छति वस्तु आत्मा 'अस्मिन्' अधिकृतज्ञाने क्षयोपशमे वा सति आभिनिबोधिकम् । पं. २३. यद्वा 'अभिनिबुध्यते' वस्तु अवगच्छति आत्मैवाभिनिबोधः, स एवाऽऽभिनिबोधिकम् । नन्वात्म-क्षयोपशमयोराभिनिबोधिकशब्दवाच्यत्वे ज्ञानेन सह कथं सामानाधिकरण्यं स्याद् येन कर्मधारयो युज्येत ? सत्यम् , किन्तु ज्ञानस्याऽऽत्माश्रयत्वात् क्षयोपशमस्य च ज्ञानकारणत्वादुपचारतोऽत्रापि पक्षे आभिनिबोधिकशब्दो ज्ञाने वर्त्तते, ततश्च आभिनिबोधिकं च तद् ज्ञानं चेति कर्मधारयोऽदुष्टः १॥ पं. २४. श्रूयतेऽसाविति श्रुतं शब्दः । नन्वभिलापप्लावितार्थग्रहण- 30 प्रत्ययो लब्धिविशेषः श्रुतम् , तदेव च ज्ञानम् , तत् कथं शब्दः श्रुतं स्यात् ? इत्याह-भावश्रुतेत्यादि, श्रुतज्ञानकारणं शब्दोऽपि श्रुतमुच्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org