________________
११०
मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं
घृतवारकोऽयं मयाऽगृहीत एव मुक्तस्ततो भग्नः । आभीरस्त्वाह-रण्डे ! नगरयूनां वदनानि वीक्षमाणया त्वयैव दुष्परिगृहीतोऽयं कृतस्ततो भग्नः । इत्युभयोरपि कलहः समभवत् । पिट्टिता च तेनाऽऽभीरी। कलहयतोश्च तयोरन्यदपि घृतं बहु छर्दितम् , उद्धरितशेषेण च घृतेनोत्सूरेऽर्घोऽप्यूनो लब्धः । इतरेषु च सार्थिकेषु घृतं विक्रीय गतेषु तयोरेकाकिनोर्गच्छतोघृतद्रम्मा गन्त्री बलीबर्दाश्च सर्व तस्करैरपहृतमिति ॥२६॥ एवं दृष्टान्तमभिधायोपनयमाह
. मा निण्हव इय दाउं, उवउजिय देहि, किं विचिंतेसि ।
विचामेलियदाणे किलिस्ससे तं च हं चेव ॥ २७॥ चिन्तनिकाद्यवस्थायां वितथं प्ररूपयन्नधीयानो वा गुरुणा शिक्षितः शिष्यो जगाद-त्वयैव ममत्थं व्याख्यातम् , पाठितो वा त्वयैवैवंविधमहम् , अतस्तवैव दोषोऽयम् , किं मां शिक्षयसि ? । आचार्यः प्राह-न मयैवमुपदिष्टम् । कुशिष्यो ब्रवीति-हन्त !
साक्षादेव मम पुरस्सरमित्थं सूत्रमर्थं वा दत्त्वा सूरे ! मा निह्नोषीस्त्वम् । इत्थमुक्त आचार्यः किमप्यन्तायन् पुनरप्युक्तः शिष्या10 भासेन-किं बलीवात् पातित इव चिन्तयसि ? भव्यगत्या 'उपयुज्य' उपयुक्तो भूत्वा देहि सूत्रा-ऽौँ, 'व्यत्यानेडितदाने' वितथ
सूत्रार्थप्रदाने केवलं त्वं अहं च क्लेशमेवानुभवावः । तदित्थं स्वदोषाप्रतिपत्तौ गुरुदोषोद्भावने वाऽऽभीरमिथुनस्येव गुरु-शिष्ययोः कलह एव प्रवर्तते । तथा च सति व्याख्याव्यवच्छित्ति-सूत्रार्थहान्यादयो दोषाः ।। अत्र प्रतिपक्षः स्वयमेव द्रष्टव्यः । तथाहि
अन्योऽप्याभीरः किल सकलत्रस्तथैव कापि नगरे घृतविक्रयार्थं गतः। कलत्रस्य च वारके समर्पिते भग्ने च 'अहो! मयाऽनुपयुक्तेन समर्पितोऽयम्' इति ब्रुवाणो झगिति गन्त्र्याः समुत्तीर्य कपरकैघृतं संवृणोति। भार्याऽपि 'धिग् मयाऽनुपयुक्तया दुष्प15 रिगृहीतः कृतोऽसौ तेन भग्नः' इति वदन्ती तथैव तत् संवृणोति । ततश्चान्योन्यं कलहेऽजाते उभयसंवित्त्या घृतं शीघ्रमेव विक्रीतम्।
सार्थिकैश्च सह क्षेमेण स्वस्थानं जग्मतुः । एवं गुरु-शिष्या अपि स्वदोष प्रतिपद्यमानाः परदोषं तु निढुवाना येऽन्योन्यं न विवदन्ते त एव सूत्रार्थप्रदान-ग्रहणयोर्योग्या भवन्ति निर्जरादिलाभभागिनश्चेति ॥२७॥
तदेवं योग्या-ऽयोग्यान् गुरून् शिष्यांश्चोपदोपसंहारपूर्वकं तत्फलमाहपं. ९. भणिया जोग्गा-जोग्गा मीसा गुरवो य, तत्थ दोण्हं पि ।
___ वेयालियगुण-दोसो, जोग्गो जोग्गस्स भासेज्जा ॥ २८॥ भणिता योग्या-ऽयोग्या गुरु-शिष्याः । तत्र 'द्वयोरपि' गुरु-शिष्ययोर्विचारितगुण-दोषयोर्योग्यो गुरुयोग्याय शिष्याय सूत्रा-ऽर्थी भाषेतेति ॥२८॥
पं. १६. 'अज्ञिका' परिज्ञानरहिता। पं. २१. पगईमुद्धेत्यादिगाथा-अज्ञिका प्रकृत्या मुग्धा भवति । कुतः प्रकृत्या मुग्धा भवति ? "मियछावय" त्ति छावगशब्दः सर्वत्र सम्बध्यते, ततो मृग-सिंह-कुक्कुटशावं-लघु मृगाद्यपत्यं तद्भता, अत्यन्तर्जुत्व25 साम्यात् तत्सदृशी येत्यर्थः । सहजरत्नमिवासंस्कृता 'सुखसंज्ञाप्या' सुखप्रज्ञापनीया 'गुणैः' गुरुबहुमानादिभिः समृद्धा । अन्यच्चजा खलु अभाविया कुस्सुईहिं न य ससमए गहियसारा । अकिलेसकरा सा खलु वइरं छक्कोडिसुद्ध व ॥१॥
[कल्पभाष्य गा० ३६८] षट्कोणविशुद्धं 'वज्रमिव' हीरक इव विशुद्धा या सा खल्वज्ञायकपर्षदिति वाक्यशेषः ॥ पल्लवग्राहित्वादिकं च महतेऽनाय, सम्पूर्णश्रुताभावात् । तदुक्तम्--
पल्लवग्राहि पाण्डित्यं, क्रयक्रीतं च मैथुनम् । भोजनं च परायत्तं, तिस्रः पुंसां विडम्बनाः॥१॥ १ पराधीनं सं० ॥
20.
.
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org