Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 151
________________ १२४ मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं पं. ४. तीर्थान्तरसिद्धा नाम ये मुविधिप्रभृतीनामष्टानां शान्तिनाथान्तानां जिनानामन्तरेषु जातिस्मरणादिनाऽवाप्तज्ञानादिसन्मार्गाः सन्तः सिद्धाः । तीर्थान्तरकालस्य च मानमिदम्चउभाग चउभागो तिन्नि चउब्भाग पलियमेगं च । चउभागं चउभागो चउत्थभागो चउब्भागो ॥ १ ॥ [प्रवचन० गा. ४३१ ] त्ति । 5 पं. ७. स्वयं-बाह्यनिमित्तमन्तरेण जातिस्मरणादिना बुद्धाः सन्तो ये सिद्धास्ते स्वयम्बुद्धसिद्धाः । प्रत्येकम्-अन्यान्यं बाह्य-वृषभादि कारणं दृष्ट्वा बुद्धाः सन्तो ये सिद्धास्ते प्रत्येकबुद्धसिद्धाः। पं. ११. उपधिः पुनः स्वयम्बुद्धानां चोलपट्ट-मात्रकवर्जः पात्रादिदशविधः । प्रत्येकबुद्धानां पुनर्जघन्यो रजोहरण मुखवस्त्रिकारूपो द्विविध उपधिः, उत्कृष्टतश्चोलपट्ट-मात्रक-कल्पत्रिकवजों नवविधः। पं. १२. स्वयम्बुद्धानां पूर्वाधीतं श्रुतं स्याद्वा न वा । प्रत्येकबुद्धानां पुनस्तन्नियमतो भवत्येव, जघन्यत एकादशाङ्गानि, उत्कृष्टतो भिन्नदशपूर्वाणि । लिङ्गप्रतिपत्तिः स्वयम्बुद्धानां यदि पूर्वाधीतं श्रुतं नास्ति ततो 10 नियमाद गरुसमीपे भवति, अथ श्रतं समस्ति ततो देवता लिङ्गप्रयच्छति गुरुसमीपे वा प्रतिपद्यन्ते। यदि चैकाकिविहारयोग्यता इच्छा च समस्ति तत एकाकिन एव विचरन्ति, अन्यथा गच्छ एवाऽऽसते । प्रत्येकबुद्धानां पुनर्लिङ्ग देवतैव प्रयच्छति, लिङ्गवर्जिता वा भवन्ति । यदुक्तम्-"रुप्पं पत्तेयबुहा" [आव०नि० गा० ११५१] इति । अत्र सङ्ग्रहगाथा यथासुरलिंगे पुव्वसुए अनियय-नियया सबुद्ध-पत्तेया । अनिमित्तेयरबोही, बारस नव उवहिणो हुंति ॥१॥ [ पं. १६. तीर्थकरीसिद्धाः स्तोकाः १ तीर्थकरीतीर्थे 'नोतीर्थसिद्धाः' तीर्थान्तरे सिद्धा ये प्रत्येकबुद्धसिद्धा इत्यर्थः ते 15 सङ्ख्यातगुणाः २ तीर्थकरीतीर्थे 'नोतीर्थकरीसिद्धाः' सामान्यकेवलिस्त्रियः ताः सङ्ख्येयगुणाः ३ तीर्थकरीतीर्थे 'नोतीर्थकरसिद्धाः' सामान्यकेवलिपुरुषास्ताभ्यः सङ्घयेयगुणाः ४ ।। पं. १८. यथा तीर्थकराः स्त्रीलिंगे भवत्येवं नपुंसकलिंगेऽपि किं ते स्युः ? इत्याशंक्याऽऽह-न तु नपुंसकलिङ्गा इति, तीर्थकृतः स्युरिति वाक्यशेषः । प्रत्येकबुद्धा अपि स्त्री-नपुंसकलिङ्गे न भवन्ति, किन पुस्येव । तीर्थकर-प्रत्येकबुद्धवर्जाः केचन नपुंसकलिङ्गसिद्धा भवन्ति । रजोहरणादिलिङ्गधारिणो ये सिद्धास्ते स्वलिङ्गसिद्धाः । परिव्राजकादिलिङ्गसिद्धा अन्यलिङ्गसिद्धाः । नवरं यदाऽन्यलिङ्गिनामपि भावतः सम्यक्त्वादिप्रतिपन्नानां केवलज्ञानमुत्पद्यते तदैव च 20 कालं कुर्वन्ति तदेदम् । अन्यथा यदि दीर्घमायुरात्मनः पश्यन्ति तदा साधुलिङ्गमेव प्रतिपद्यन्ते । एवं गृहलिङ्गसिद्धा अपि मरुदेवीप्रभृतयः इत्थमेव वक्तव्याः । सिद्धकेवलिनोऽपि गुणाष्टकं भवति । यदुक्तम् सम्मत्त १ नाण २ सण ३ वीरिया ४ ऽवाहा ५ तहा य अवगाहो ६ । अगुरुलहू ७ सुहुमत्तं ८ अट्ठ गुणा हुंति सिद्धस्स ॥ १॥ [ पं. २२. बत्तीसा० गाहा । एतद्विवरणम्-यदा एकसमयेन एकादय उत्कर्षेण द्वात्रिंशत् सिध्यन्ति तदा द्वितीयेऽपि समये 25 द्वात्रिंशत् , एवं नैरन्तर्येण अष्टौ समयान् यावद् द्वात्रिंशत् सिध्यन्ति, तत ऊर्ध्वमवश्यमेवान्तरं भवतीति । यदा पुनस्त्रयस्त्रिंशत आरभ्य अष्टचत्वारिंशदन्ता एकसमयेन सिध्यन्ति तदा निरन्तरं सप्त समयान् सिध्यन्ति, ततोऽवश्यमेवान्तरं भवति । एवं यदा एकोनपञ्चाशतमादिं कृत्वा यावत् षष्टिरेकसमयेन सिध्यन्ति तदा निरन्तरं षट् समयान् सिध्यन्ति, तदुपरि अन्तरं समयादि भवति । एवमन्यत्रापि योज्यम् । यावद् अष्टशतमेकसमयेन यदा सिध्यति तदाऽवश्यमेव समयाद्यन्तरं भवतीति । अन्ये तु व्याचक्षते-अष्टौ समयान् यदा नैरन्तर्येण सिद्धिस्तदा प्रथमसमये जघन्येनैकः सिध्यति उत्कृष्टतो द्वात्रिंशदिति, द्वितीयसमये 30 जघन्येनैक उत्कृष्टतोऽष्टचत्वारिंशत् , तदेवं सर्वत्र जघन्येनैकः समयः उत्कृष्टतो गाथार्थोऽयं भावनीय इति ॥ [पृष्ठ ४०] पं. १३. क्रमोपयोगादाविति, आदिशब्देन एकोपयोगमतस्य परिग्रहः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248