Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 148
________________ 10 श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् । १२१ यत् सिंहासनं तत्रोपविष्टो भगवत्पादपीठे वोपविष्टो ज्येष्ठोऽन्यो वा गगधरो द्वितीयपौरुष्यां सङ्ख्ययाऽतीता भवाः-असङ्खयेयास्तानपि कथयति, असङ्ख्येयभवेषु यदभवद् यद् भविष्यति तत् सर्वं कथयति। 'यद् वा' यद् वस्तुजातं परः पृच्छेद् अभिलाप्यपदार्थगोचरं तत् सर्वं कथयति। किंबहुना ! 'न च' नैव "ण"मिति वाक्यालङ्कारे "अगाइसेसि" त्ति अनतिशयी अवध्याचतिशयरहित इत्यर्थः विजानाति 'यथैष गणधरश्छमस्थः' इति, अशेषप्रश्नोत्तरप्रदानसमर्थत्वात् तस्येति भाव इति गाथार्थः ।। पं. १६. अत्रार्थे उत्तरत्रयमदायि। पं. २६. त्रीणि योजनशतानीत्यादि, हिमांश्च शिखरी च हिमवच्छिखरिणौ तयोः पादा इव पादाः-5 अग्रभागास्तेषु प्रतिष्ठिताः-व्यवस्थिता एकोरुकादयोऽन्तरद्वीपाः । क्षेत्रसमासादिग्रन्थादेतत्स्वरूपं विज्ञेयम् । पं. २९. एकेषां मते पुद्गलद्रव्योपचयाद् यकाऽऽहारादिविषया शक्तिरुत्पद्यते सा पर्याप्तिरुच्यते। पं. ३०. सम्प्रति च-तत्रेत्यादिना इत्येके' पर्यन्तेनापरमतेन पर्याप्तिस्वरूपमुक्तम् । [ पृष्ठ ३४] पं. ५. आसां युगपदिति । वेउव्वा-ऽऽहाराणं सरीर अन्तो उ (? अंतमुह), पण इगिगसमया। पिह पण अन्तमुत्ता, उरले आहार सामइया ॥१॥ पं. ११. ये मिथ्यात्वात् सम्यक्त्वस्य प्रतिपत्त्यभिमुखाः, न तु सम्यक्त्वस्य परित्यागाभिमुखाः, ते जीवाः सम्यग्मिथ्यादृष्टयोऽन्तर्मुहूर्त्तमात्रं कालं भवन्ति । पं. १२. किमित्येवं तल्लक्षणं व्याख्यायते ? इत्याह-यत उक्तमिति । मिच्छत्ता संकंती अविरुद्धा होइ सम्म-मीसेसु । मीसाओ वा दोसुं सम्मा मिच्छं न उण मीसं ॥ १॥ इति गाथा परिपूर्णा । यतः सम्यक्त्वपुञ्जाद् मिश्रपुञ्जगमनं निषिद्धमनयेति भावः । संयतस्य सर्वप्रमादरहितस्य विविधर्द्धिमत 15 इदमुत्पद्यते, शेषश्च सम्यग्दृष्टि पर्याप्तकादिविशेषणकलापः सामर्थ्यलब्धोऽप्युच्यते प्रपञ्चितज्ञशिष्यावबोधार्थम् । पं. २६. अस्यां व्युत्पत्ताविति, ऋज्ची चासौ मतिश्चेति कर्मधारयरूपायाम् , यद्वा ऋज्वी-साक्षात्कृतेषु मनोद्रव्येषु अनुमितेषु चार्थेष्वल्पतरविशेषविषयतया मुग्धा मतिः-विषयपरिच्छित्तिर्यस्य प्रमातुः स ऋजुमतिः । विपुलमतिरपि प्रमातैव । [ पृष्ठ ३५] पं. १२. द्रव्यत इत्यादि । अनन्तप्रादेशिकान् मनस्त्वपरिणतानन्तस्कन्धसमूहमयमनोद्रव्यरूपान् स्कन्धान जानाति । 20 क्षेत्रतस्तु ऋजुमतेरर्द्धतृतीयाङ्गुलहीनो मनुष्यलोको विषयः । स एव विपुलमतेः सम्पूर्णो निर्मलतरः । कालतस्त्वेतावति क्षेत्रे भूतभाविनोः पल्योपमासंख्येयभागयोरतीता-ऽनागतानि संज्ञिमनोरूपाणि मूलद्रव्याणि विषयः । भावतस्तु तत्पर्याया रूपादय श्चिन्तनानगुणा परिणतिरूपा ऋजमतेविषयः । चिन्तनीयं तु मूर्तममूर्त वा त्रिकालगोचरमपि बाह्यमर्थमनमानादेवेति, 'यत एत त्परिणतीन्येतानि मनोद्रव्याणीति एतदन्यथानुपपत्ते: अमुकोऽनेनार्थश्चिन्तितः' इति लेखाक्षरदर्शनात् तदुक्तार्थमिवाप्रत्यक्ष मनोद्रव्यदर्शनाच्चिन्त्यमर्थमनुमिमीते । विपुलमतेश्चायं विषयः स्फुटतरः बहुतरविशेषाध्यासितत्वेन विमलतरोऽवसेयः । तेन मनोगतद्रव्यस्कन्धान 25 तद्गतचिन्तानुगुणान सर्वपर्यायराश्यनन्तभागरूपाननन्तान् रूपादीन् पर्यायान् चिन्तनीयबाह्यघटादिवस्तुगतांश्च जानाति सविशेषान् , पल्योपमासङ्ख्येयभागरूपे काले ये तेषां मनस्त्वपरिणमितमनोद्रव्यागां भूता अनागताश्च चिन्तनानुगुणाः पर्यायास्तान् सविशेषान् १ वैक्रिया-ऽऽहारकयोस्तु शरीरपर्याप्तिः अन्तर्मुहूर्त्तम् , पञ्च पर्याप्तयः एकैकसामयिक्यः । औदारिके पञ्च पर्याप्तयः पृथग् आन्तर्मोहूतिक्यः, आहारपर्याप्तिः एकसामयिकी ॥ इति भावार्थगर्भा छाया । अत्रार्थे एषाऽपि ग्रन्थान्तर्गता गाथाऽवधेया-वेउव्विय पज्जत्ती सरीर अंतमुहु, सेस इगसमया । आहारे इगसमया सेसा, अंतमुहु ओराले ॥ १॥ इति । विचारसप्ततिकायां तु मतभेदेन पर्याप्तिस्वरूपं दृश्यते-"उरलविउव्वा-ऽऽहारे छण्ह वि पजत्ति जुगवमारंभो । तिण्ह वि पढमिगसमए, बीआ पुण अंतमोहुत्ती ॥ ४४ ॥ पिहु पिहु असंखसमइयअंतमुहुत्ता उराल चउरो वि । पिहु पिहु समया चउरो वि हुंति वेउव्विया-ऽऽहारे ॥ ४५ ॥ छह वि सममारंभे पढमा समए, बि अंतमोहुत्ती । ति तुरिअ समए समए सुरेसु, पण-छट्ठ इगसमए ॥ १६ ॥” इति ॥ २ इयं गाथा कल्पलघुभाष्य ११४ गोथासमा ॥ टी० १६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248