Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 144
________________ श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्ते: टिप्पनकम् । ११७ विष्कम्भयोः संहरणसमयद्वयम् , तृतीयसमयस्तु सूचिसंहरण-पनकत्वेनोत्पादश्चेति त्रयम् , ततश्च त्रयः समया यस्यासौ त्रिसमयः, अविग्रहेणोत्पत्तेराहारकश्च एवं च सति प्रत्युताऽतिसूक्ष्मपनकश्चायं सिद्धो भवति, तथा च सति “तिसमयाहारगस्स पगगजीवस्से"ति सूत्रकारवचनमाराधितं भवति, किञ्चेह यथा सूक्ष्मः सूक्ष्मतरोऽसौ भवति तथा कर्तव्यम् , एतच्चास्मिन् व्याख्याने सविशेषं सिध्यति, उत्पादसमय एव यतो यस्मादसौ पनकजीवोऽतिजघन्यावगाहनो भवति, न शेषसमयेषु, द्वितीयादिष्वीषन्महत्त्वात् , जघन्यावगाहनश्च सूत्रे प्रोक्तः, ततोऽतिसूक्ष्मत्वसिद्धेस्तस्य पनकदेहस्य समानमेव किलावधेविषयभूतं जघन्य क्षेत्रं भवतीति । न युक्तमिदं 5 केषाश्चिद व्याख्यानम् , त्रिसमयाहारकत्वस्य पनकविशेषणत्वेनोक्तत्वात् , मत्स्यसमयद्वयस्य च पनकसमयत्वायोगात् ; योऽपीथमपि जघन्यावगाहनालाभलक्षणो गुण उद्भाव्यते सोऽपि न युक्तः, यस्मान्नेहातिसूक्ष्मे गातिमहता वा किञ्चित् प्रयोजनम् , किं तर्हि ! योग्येन, योग्यश्च स एव तद्वेत्तृभिर्दयो यः प्रथमं जवन्यावगाहनः संस्तस्मिन्नेव भने समयत्रयमाहारं गृङ्गाति । [ पृष्ठ २७] पं. ४. सर्वबहग्निजीवाः 'निरन्तरं' सततं नैरन्तर्येणेत्यर्थः 'यावदिति' यत्प्रमाणं 'क्षेत्रम्' आकाशं वक्ष्यमाणविशिष्टसूची- 10 रचनया रचिताः सन्तः 'भृतवन्तः' व्याप्तवन्तः। पं. ५. भूतकालनिर्देशश्चाजितस्वामिकाल एव वक्ष्यमाणयुक्त्या प्रायः सर्वबहवोऽनलजीवा भवन्त्यस्यामवसर्पिण्यामित्यस्यार्थस्य ख्यापनार्थः । अनलजीवोत्पत्तेर्महावृष्टयादिव्याघाताभावे समस्तभरतैरावतविदेहलक्षणपञ्चदशसु कर्मभूमिषु सर्वबहवो बादराग्निजीवा भवन्तीति । किमविशेषेण सर्वदैव एतास्ते भवन्ति ? नैवम् , किन्त्वजितजिनेन्द्रकाले, अजितजिनेन्द्रस्याप्युपलक्षणत्वादवसर्पिण्यां द्वितीयतीर्थकरकाले अग्नि जीवा बहवो भवन्ति । ___पं. १२. कुतः ? तदारम्भकपुरुषबाहुल्यादिति, तेषां-बादराग्निजीवानां आरम्भकाः-उत्पादकाः सन्धुक्षण-चालनाद्या- 15 .. रम्भकरणात् तदारम्भका ये पुरुषास्तेषां बाहुल्यात् । कोऽर्थः ? सर्वेभ्योऽप्यतीता-ऽनागतेभ्यो बहवः प्रचुरा गर्भजमनुष्यास्तदा भवन्ति स्वभावादेवेति । आह-किमेतै रेव बादराग्निजीवैः सर्वबहग्निजीवपरिमाणं पूर्यते ? आहोश्चित् सूक्ष्माग्निभिः सह ?, यदि तैस्सह तदा तेऽविशिष्टा अपि गृह्यन्ते ? आहोश्चित् केचिदेव विशिष्टाः ? इति, उच्यते-स्वभावाद् यदा सूक्ष्माग्निजीवा अप्युत्कृष्टपदिनः स्युः । इदमत्र हृदयम्-अनन्तानन्तास्ववसर्पिणीषु मध्ये स एव कश्चिद् द्वितीयतीर्थकरकालो गृह्यते यत्र सूक्ष्माग्निजीवा उत्कृष्टपदिनः प्राप्यन्ते, ततश्च तैर्बादरैः सूक्ष्मश्चाग्निजीवैरुत्कृष्ट पदिभिर्मीलितैः सर्वबह्वग्निजीवानां परिमाणं ग्राह्यम् । अत एवाह- 20 सूक्ष्माश्चेति । तत्रैवेति तेष्वेव मध्ये गृह्यन्ते । पं. १३. तेषां चावस्थानं बहुतरक्षेत्रपूरकं बुद्धया षोढा यद्यपि सम्भवति तथापि 'पञ्चाऽनादेशाः षष्ठस्वादेशः' इति वक्तुमाह-तेषां चेति, अयमर्थः-तैः सर्वैरप्यग्निजीवैः समचतुरस्रो घनो द्विभेदः स्थाप्यते, कथम् ? इति, उच्यते-एकैकाकाशप्रदेशे एकैकाग्निजीवरचनया स्वावगाहे चाऽसङ्ख्येयाकाशप्रदेशलक्षणे एकैकाग्निजीवरचनयेति । अत्र स्थापना : । एतेषां नवानामग्निजीवानां प्रत्येकमेकैकाकाशप्रदेशे व्यवस्थापितानामधस्तादुपरिष्टाच्चान्येऽपि नव नव जीवा इत्थमेव व्यवस्थाप्यन्ते, एष कल्पनया सप्ताविंशत्या सद्भावतस्त्वसङ्ख्येयरग्निजीवै रेकैकाकाशप्रदेशव्यवस्थापितैर्घनो मन्तव्यः । द्वितीयोऽपि 25 घन इत्थमेव द्रष्टव्यः, केवलमिहासंख्येयाकाशप्रदेशेष्वेकैकजीवो व्यवस्थाप्यते । एवमेकैकाकाशप्रदेशे एकैकजीवस्थापनया असङ्ख्येयप्रदेशात्मकस्वावगाहस्थापनया च प्रतरोऽपि द्विभेदः, सूचिरपि द्विभेद। तत्र घन-प्रतरपक्षश्चतुर्भेदः पञ्चमश्चकैकाकाशप्रदेशस्थापितैकैकजीवलक्षणसूचिपक्षोऽपि न ग्राह्यः, दोषद्वयानुषङ्गात् । तथाहि-पञ्चविधयाऽप्यनया स्थापनया स्थापिता अग्निजीवाः षट्स्वपि दिश्ववधिज्ञानिनोऽसत्कल्पनया भ्रम्यमाणाः स्तोकमेव क्षेत्रं स्पृशन्तीत्येको दोषः, एकैकाकाशप्रदेशे एकैकजीवस्थापनायामागमविरोधश्च द्वितीयो दोषः, असङ्ख्येयाकाशप्रदेशानन्तरेणाऽऽगमे जीवावगाहनिषेधात् । पं. १५. असत्कल्पनया प्रतिप्रदेशा- 30 वगाहोऽप्यस्त्विति चेत्, नैवम् , कल्पनाऽपि सति सम्भवेऽविरोधिन्येव कर्तव्या, किं विरोधिन्या ? इत्यालोच्याऽऽह-षष्ठः श्रुतादेश इति, असङ्खयेयाकाशप्रदेशलक्षणे स्वावगाहे पङ्क्त्या एकैकजीवस्थापनेन यः सूचिलक्षणः षष्ठः पक्षोऽयं श्रुते आदिष्टत्वाद् ग्राह्यः, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248