Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 143
________________ मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं साक्षान्मध्यभागेनोपलब्धेरात्ममध्यगतमभिधीयते १ । सर्वात्मनः क्षयोपशमयोगाविशेषेऽप्यौदारिकशरीरमध्यभागेनैवोपलब्धेरौदारिकशरीरमध्यगतमुच्यते २ । सर्वदिगुपलम्भादवधिज्ञानप्रकाशितक्षेत्रमध्य एव ज्ञानिनः सद्भावात् क्षेत्रमध्यगतमभिधीयते ३ । पं. २४. अन्तगतं भूयोऽपि पुरतोऽन्तगतादिभेदात् त्रिधा-पुरतः अग्रेतनभागेऽन्तस्थितं प्रागुक्तात्मदेशादीनाम् । मार्गतः पृष्ठतः । पासउ त्ति पार्थतः । ६.२९. उल्का दीपिका, ऋजुलेति या प्रसिद्धा । मणिं व त्ति प्रदीपशिखा मणिविशेषः, 5 आदिप्रहणादन्योऽप्येवंजातीयो ग्राह्यः । प्रदीपः कलिकारूपः । प्रेरयन् प्रेरयन् आकर्षन् आकर्षन् । [पृष्ठ २४ ] पं. २. नान्यत्रेति, पृष्ठि-पार्श्वयोः। पं. ५. मार्गतोऽन्तगतसूत्रे-उल्कादिकं अणुकड्ढेमाणे अणुकड्ढेमाणे त्ति अनुकर्षन् अनुकर्षन् गच्छेत् । पं. ८. पार्थतोऽन्तगतसूत्रे-उल्कादिकं प्रदीपान्तं ज्योतिर्वस्तु पार्श्वतः कृत्वा परिकड्ढेमाणे परिकड्ढेमाणे त्ति परिकर्षन् परिकर्षन् गच्छेत् । पं. १३. मध्यगतसूत्रे-मस्तकस्थेन ज्योतिर्वस्तुना यथा कश्चिद् गच्छेत् 10 सर्वत्र तत्प्रकाशितमर्थ पश्येत् , एवं मध्यगतावधिज्ञानिन्यपि योज्यम् । पं. २४. विशुद्धफडकैरिति, विशुद्धक्षयोपशमजन्यफडकानि विशुद्धफडकान्युच्यन्ते, तैरित्यर्थः । [ पृष्ठ २६] पं. ७. द्रव्यलेश्योपरञ्जितमिति, तत्र कृष्णादिद्रव्यसाचिव्यात् परिणामो य आत्मनः । स्फटिकस्येव तत्रायं लेश्याशब्दः प्रवर्तते ॥१॥ 15 साचिव्यं-सानिध्यम् । पं. ११. जावइया० गाहा-त्रिसमयमाहारक इति वाक्यम् । यद्वा आहारयतीत्याहारकः, त्रीन् समयानाहारकस्त्रिसमयाहारक इति व्युत्पत्तिः। पं. १९-२४. योजनेत्याचार्याषट्कम् यो मत्स्यो योजनसहस्रायामः स्वदेहस्यैवैकदेशे उत्पद्यमानः स प्रथमे समये आयाम सङ्क्षिपति । तं च सङ्क्षिपन् प्रतरं करोति, कथम्भूतम् ? इत्याह-'सङ्ख्यातीताख्याङ्गुलविभागबाहल्यमानं' बाहल्येनाङ्गुलासङ्ख्येयभागसूक्ष्ममित्यर्थः । पुनरपि कथम्भूतम् ? इत्याह-स्वकेति, मत्स्यदेह विस्तीर्णम् , शरीरान्तःसम्बद्धत्वादूधिस्तिर्यक् च यावान् मत्स्यदेहस्य विस्तरस्तावांस्तज्जीवप्रदेशप्रतरस्यापीत्यर्थः । एवं चाऽऽयामतो 20 विष्कम्भतश्च मत्स्यशरीरपृथुत्वतुल्योऽङ्गलासङ्ख्येयभागबाहल्यश्चायं प्रतरो भवतीत्येष प्रथमसमयव्यापारः, प्रतरमेतावन्मात्रं करोति । दैयेणापि, कुतः ? जीवसामर्थ्यात् , ततो द्वितीयसमये 'तं' प्रतरमायामतो विष्कम्भतश्च संक्षिप्याऽङ्गलासङ्ख्येयभागबाहल्यां मत्स्यशरीरपृथुत्वायामां सूचिं करोति । ततस्तृतीयसमये या निजतनुपृथुत्वेन दीर्घा सूचिः तामपि सूचिं सङ्क्षिप्याङ्गुलासङ्ख्येयभागमात्रावगाहनो भूत्वा निर्जीर्णमत्स्यभवायु[रुदीर्णपरभवायुश्चाविग्रहगत्या मत्स्यशरीरस्यैवैकदेशे 'पनकः' सूक्ष्मवनस्पति जीवविशेषो भवति । अस्मादुत्पादसमयात् तृतीयसमये यद् देहमानमङ्गलासङ्खयेयभागमात्र एतस्य पनकस्य, तद् जघन्यमवधेविषय25 भूतं 'क्षेत्रं तज्ज्ञेयद्रव्याधारम् । एतेन तज्ज्ञेयद्रव्याधारत्वेनैव क्षेत्रमवधेविषय उच्यते, न तु साक्षात् , तस्यामूर्तत्वात् , अवधेस्तु मूर्त विषयत्वादिति । पं. २६. स एव चेत्यादि, यो हि योजनसहस्रायामो महाकायो मत्स्यस्त्रिभिश्च समयैरात्मानं सङ्क्षिपति स किल प्रयत्नविशेषादतिसूक्ष्मामवगाहनां कुरुते, नान्यः, अनेन 'किमिति मत्स्योऽतिमहान् गृह्यते ? तृतीयसमयसंक्षिप्तश्च' इत्येतस्य द्वयस्योत्तरमदायि । दूरे च गत्वाऽन्यत्र यद्युत्पद्यते विग्रहेण च गच्छति तदा जीवप्रदेशाः किञ्चिद् विस्तरं यान्तीत्यवगाहना स्थूलतरा स्यादित्यविग्रहगत्या स्वशरीरदेश एवोत्पादित इत्येतत् स्वयमेव द्रष्टव्यमिति । पं. २७. किं त्रिसमयाहारको 30 गृह्यते ? अत्रोत्तरमाह-प्रथमेत्यादि । पं. २८. त्रिसमयाहारकत्वविषये केचनाऽऽचार्या व्याचक्षते, यदुत-द्वौ तावन्मस्यस्य सम्बन्धिनौ आद्यसमयौ गृह्यते-आयामसंहरणेन प्रतरकरणमित्येकः, तत्संहरणेन सूचिं यत्र करोति स द्वितीय इत्यायाम १ ऋडुलेति जे०॥२ मत्स्यशरीरपृथुत्वमायामो यस्याः जेटि० ॥ Jain Education Infernational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248