Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 137
________________ ११० मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं घृतवारकोऽयं मयाऽगृहीत एव मुक्तस्ततो भग्नः । आभीरस्त्वाह-रण्डे ! नगरयूनां वदनानि वीक्षमाणया त्वयैव दुष्परिगृहीतोऽयं कृतस्ततो भग्नः । इत्युभयोरपि कलहः समभवत् । पिट्टिता च तेनाऽऽभीरी। कलहयतोश्च तयोरन्यदपि घृतं बहु छर्दितम् , उद्धरितशेषेण च घृतेनोत्सूरेऽर्घोऽप्यूनो लब्धः । इतरेषु च सार्थिकेषु घृतं विक्रीय गतेषु तयोरेकाकिनोर्गच्छतोघृतद्रम्मा गन्त्री बलीबर्दाश्च सर्व तस्करैरपहृतमिति ॥२६॥ एवं दृष्टान्तमभिधायोपनयमाह . मा निण्हव इय दाउं, उवउजिय देहि, किं विचिंतेसि । विचामेलियदाणे किलिस्ससे तं च हं चेव ॥ २७॥ चिन्तनिकाद्यवस्थायां वितथं प्ररूपयन्नधीयानो वा गुरुणा शिक्षितः शिष्यो जगाद-त्वयैव ममत्थं व्याख्यातम् , पाठितो वा त्वयैवैवंविधमहम् , अतस्तवैव दोषोऽयम् , किं मां शिक्षयसि ? । आचार्यः प्राह-न मयैवमुपदिष्टम् । कुशिष्यो ब्रवीति-हन्त ! साक्षादेव मम पुरस्सरमित्थं सूत्रमर्थं वा दत्त्वा सूरे ! मा निह्नोषीस्त्वम् । इत्थमुक्त आचार्यः किमप्यन्तायन् पुनरप्युक्तः शिष्या10 भासेन-किं बलीवात् पातित इव चिन्तयसि ? भव्यगत्या 'उपयुज्य' उपयुक्तो भूत्वा देहि सूत्रा-ऽौँ, 'व्यत्यानेडितदाने' वितथ सूत्रार्थप्रदाने केवलं त्वं अहं च क्लेशमेवानुभवावः । तदित्थं स्वदोषाप्रतिपत्तौ गुरुदोषोद्भावने वाऽऽभीरमिथुनस्येव गुरु-शिष्ययोः कलह एव प्रवर्तते । तथा च सति व्याख्याव्यवच्छित्ति-सूत्रार्थहान्यादयो दोषाः ।। अत्र प्रतिपक्षः स्वयमेव द्रष्टव्यः । तथाहि अन्योऽप्याभीरः किल सकलत्रस्तथैव कापि नगरे घृतविक्रयार्थं गतः। कलत्रस्य च वारके समर्पिते भग्ने च 'अहो! मयाऽनुपयुक्तेन समर्पितोऽयम्' इति ब्रुवाणो झगिति गन्त्र्याः समुत्तीर्य कपरकैघृतं संवृणोति। भार्याऽपि 'धिग् मयाऽनुपयुक्तया दुष्प15 रिगृहीतः कृतोऽसौ तेन भग्नः' इति वदन्ती तथैव तत् संवृणोति । ततश्चान्योन्यं कलहेऽजाते उभयसंवित्त्या घृतं शीघ्रमेव विक्रीतम्। सार्थिकैश्च सह क्षेमेण स्वस्थानं जग्मतुः । एवं गुरु-शिष्या अपि स्वदोष प्रतिपद्यमानाः परदोषं तु निढुवाना येऽन्योन्यं न विवदन्ते त एव सूत्रार्थप्रदान-ग्रहणयोर्योग्या भवन्ति निर्जरादिलाभभागिनश्चेति ॥२७॥ तदेवं योग्या-ऽयोग्यान् गुरून् शिष्यांश्चोपदोपसंहारपूर्वकं तत्फलमाहपं. ९. भणिया जोग्गा-जोग्गा मीसा गुरवो य, तत्थ दोण्हं पि । ___ वेयालियगुण-दोसो, जोग्गो जोग्गस्स भासेज्जा ॥ २८॥ भणिता योग्या-ऽयोग्या गुरु-शिष्याः । तत्र 'द्वयोरपि' गुरु-शिष्ययोर्विचारितगुण-दोषयोर्योग्यो गुरुयोग्याय शिष्याय सूत्रा-ऽर्थी भाषेतेति ॥२८॥ पं. १६. 'अज्ञिका' परिज्ञानरहिता। पं. २१. पगईमुद्धेत्यादिगाथा-अज्ञिका प्रकृत्या मुग्धा भवति । कुतः प्रकृत्या मुग्धा भवति ? "मियछावय" त्ति छावगशब्दः सर्वत्र सम्बध्यते, ततो मृग-सिंह-कुक्कुटशावं-लघु मृगाद्यपत्यं तद्भता, अत्यन्तर्जुत्व25 साम्यात् तत्सदृशी येत्यर्थः । सहजरत्नमिवासंस्कृता 'सुखसंज्ञाप्या' सुखप्रज्ञापनीया 'गुणैः' गुरुबहुमानादिभिः समृद्धा । अन्यच्चजा खलु अभाविया कुस्सुईहिं न य ससमए गहियसारा । अकिलेसकरा सा खलु वइरं छक्कोडिसुद्ध व ॥१॥ [कल्पभाष्य गा० ३६८] षट्कोणविशुद्धं 'वज्रमिव' हीरक इव विशुद्धा या सा खल्वज्ञायकपर्षदिति वाक्यशेषः ॥ पल्लवग्राहित्वादिकं च महतेऽनाय, सम्पूर्णश्रुताभावात् । तदुक्तम्-- पल्लवग्राहि पाण्डित्यं, क्रयक्रीतं च मैथुनम् । भोजनं च परायत्तं, तिस्रः पुंसां विडम्बनाः॥१॥ १ पराधीनं सं० ॥ 20. . 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248