Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 139
________________ ११२ मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं ___ पं. २६. यद्वा शृणोतीति श्रुतमात्मैवोच्यते, ज्ञान-ज्ञानिनोः कथञ्चिदव्यतिरेकात् श्रुतोपयोगपरिणामयुक्तः श्रुतं भवति, तदत्रापि शब्दस्य श्रुतकारणत्वात् क्षयोपशमस्य च ज्ञानहेतुत्वाद् आत्मनश्च कथञ्चित् तदव्यतिरेकाद् उपचारतः श्रुतं च तद् ज्ञानं चेति समासो युज्यते २। पं. २८. अवशब्दो अधःशब्दार्थः मर्यादार्थश्च । 'अवधीयते' अधोऽधो विस्तृतं परिच्छिद्यते रूपि वस्तु 'अनेन' ज्ञानेनेत्यवधिः । यद्वा अव-रूपिद्रव्यमर्यादया धीयते-परिच्छिद्यते वस्त्वनेनेत्यवधिः । पं. २९. अव5 धीयते 'अस्माद्' ज्ञानाद् जीवेन साक्षाद् वस्तु इत्यवधिः। पं. ३०. अवधीयते जीवेनास्मिन् सति वस्तु इत्यवधिः । अवधानं वाऽवधिः-साक्षादर्थपरिच्छेदनम् । पं. ३२. पर्ययनं-सर्वतः परिच्छेदनं पर्ययः । क पुनरसौ ? इत्याह [पृष्ठ १९] पं. १. मनसीत्यादि, मनसि ग्राह्ये मनसो वा ग्राह्यस्य सम्बन्धी पर्ययो मनःपर्ययः। पं. ३. यद्वा मनःपर्यायज्ञानमित्युच्यते । तत्र "इण् गतौ” अयनं आयो लामः प्राप्तिरिति पर्यायाः, परिः-समन्तादायः पर्यायः, मनसः पर्यायास्तेषु ज्ञानम् । 10 यद्वा संज्ञिभिर्जी वैः काययोगेन गृहीतानि मनःप्रायोग्यवर्गणापुद्गलद्रव्याणि चिन्तनीयवस्तुचिन्तनव्यापृतेन मनोयोगेन मनस्त्वेन परिणमय्याऽऽलम्ब्यमानानि मनांसीत्युच्यन्ते । ततश्च जीवैर्वस्तुचिन्तने व्यापारितानि मनांसि पर्येति-परिच्छिनत्ति मनःपर्यायम् , "कर्मण्यण” [पा. ३-२-१] तस्य कथञ्चित् कर्तुरनन्यत्वात् कर्तृत्वविवक्षा । कर्ता वा आत्मा यथोक्तानि मनांसि पर्येति अनेनेति मनःपर्यायम् , "अकर्तरि च" (पा. ३-३-१९) इत्यादिना घञ् , तत् पुनस्तदावरणक्षयोपशमजो लब्धिविशेषस्तदुपयोगो वा विषय ग्रहणात्मकः । यद्वाऽवनं--गमनं वेदनमित्यवः, परिः-समन्तादवः पर्यवः, मनसि मनसो वा पर्यवा मनःपर्यवाः, तेषां तेषु वा 15 इदमित्थम्भूतमनेन चिन्तितमित्येवंरूपं ज्ञानं मनःपर्यवज्ञानं मनःपर्यायज्ञानमिति वेति । इदं चेत्यादि, अर्द्ध तृतीयं येषां तेऽर्धतृतीया द्वीपाः, ते च समुद्रौ चार्धतृतीयद्वीप-समुद्राः, तेषामन्तः-मध्यं तत् तथा, तत्र वर्तन्ते ये तेऽर्द्धतृतीयद्वीप-समुद्रान्तर्वर्तिनः, ते च ते संज्ञिनश्च तेषां मनोगतानि-मनस्त्वेन परिणमय्य मुक्तानि यानि द्रव्याणि तैरेव तान्यालम्बते-आश्रयति अर्थपरिच्छेदकतया यद् ज्ञानं तत् तदालम्बनम् । पं. ५. केवलमित्यादि, "केवलमेगं सुद्धं सकलमसाहारणं अणंतं च ।" [विशेषा. गा. ८४] इति वचनात् केवलशब्द एकाद्यर्थपञ्चकवृत्तिरिति क्रमेण व्याचष्टे । तत्र केवलमिति कोऽर्थः ? असहायम इन्द्रियादिसाहाय्यानपेक्षित्वा20 देकमित्यर्थः, तद्भावे शेषच्छामस्थिकज्ञाननिवृत्तेर्वाऽसहायम् । अत एवाह-मत्यादिज्ञाननिरपेक्षम् । केवलं शुद्धं निर्मलमित्यर्थः, सकलावरणमलकलङ्कविगमसम्भूतत्वात् । सकलं वा केवलम् , परिपूर्णमित्यर्थः, सम्पूर्णद्रव्यादिज्ञेयग्राहित्वात् । पं. ६. तत्पथमतयैवेति, यो येन भावेन पूर्व नासीदिदानी च जातः स तेन भावेन तत्प्रथम उच्यते तेन प्रथमः, सा चासौ प्रथमता चेति वेति विग्रहः । असाधारणं तादृशापरज्ञानाभावाद् अनन्यसदृशम् । पं. ७. अनन्तं अप्रतिपातित्वेनाविद्यमानपर्यन्तं ज्ञेयानन्तत्वाद्वा अनन्तं केवलमुच्यते । 25 पं. ९. आहेत्यादि, एतेषु मध्ये आदौ मतिश्रुतोपन्यासः किमर्थः ?, उच्यते, स्वाम्यादिकारणषट्कं प्रतीत्य मति-श्रुतयोरुपन्यासः, नवरमाभिनिबोधिकं ह्यौत्पत्तिक्यादिमतिप्रधानत्वान्मतिरप्युच्यते । कालो द्विधा-नानाजीवापेक्षया एकजीवापेक्षया च । स चायं द्विविधोऽप्यनयोस्तुल्य एव, नानाजीवापेक्षया द्वयोरपि सर्वकालमनुच्छेदात् , एकजीवापेक्षया तूभयोरपि निरन्तरसातिरेकसागरोपमषट्षष्टिस्थितिकत्वेनात्रैवाभिधास्यमानत्वात् । कारणमपीन्द्रिय-मनोलक्षणं स्वावरणक्षयोपशमस्वरूपं च द्वयोरपि समानम् । उभयस्यापि "सव्वगयं सम्मत्तं" [आव०नि० गा० ८३० विशेषा० गा० २७५१] इत्यादिना सर्वद्रव्यादिविषयत्वाद् विषय30 तुल्यता। पं. १६. तत्र आदेशत इति, आदेश:-प्रकारः, स च सामान्यतो विशेषतश्च । सामान्यतो द्रव्यजाति जानीते, विशेषतो धर्मास्तिकायादेरेव देशादिविभागं जानीते। - पं. १७. इन्द्रियादिपरनिमित्तत्वादुभयोः परोक्षत्वसमता । १ मनःपर्यवव्युत्पादनं नास्ति हारिभद्रयां व्याख्यातम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248