Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 138
________________ श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् । १११ अज्ञः सुखमाराध्यः, सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवदुर्विदग्धं ब्रह्माऽपि नरं न रञ्जयति ॥२॥ [भर्तृहरित्रिशती १.२] अत्राऽऽद्यपर्षद्द्यं योग्यम् , तृतीया त्वयोग्येति ॥ [ पृष्ठ १८] पं. १. नाणमित्यादि। पं. २. सामान्य-विशेषात्मके वस्तुनि विशेषग्रहणात्मको बोधो ज्ञानं संविदुच्यते । करणाउपादाना-ऽधिकरण-कर्तृसाधनोऽपि ज्ञानशब्दो व्युत्पाद्यः। नवरं कर्तृपक्षे ज्ञान-ज्ञानिनोः कथञ्चिव्यतिरेकादात्मैव ज्ञानम् , जानाति 5 स्वं रूपं बाह्यभावांश्चेति ज्ञानम् , प्रदीपवत् स्व-परावभासित्वाद् ज्ञानस्येति भावः । अत एवाऽऽह- पं. ३. स्व-विषयेति स्व-विषययोः-आत्म-बाह्यार्थयोः संवेदनं रूपं यस्येति विग्रहः॥ पं. ७. क् च ङ् च इत्-अनुबन्धो यस्य प्रत्ययस्येति विग्रहः, कानुबन्धे ङानुबन्धे चेत्यर्थः । अजादिगणश्च अच्च अजाद्यत् तस्मात् , अजादीनां तदन्याकारान्तानां च टापिति स्त्रियामा प्रवर्तते । पं. १०. कुव्याख्येति, 'विध इत्यकारान्तोऽयम्' इति केचिदाहुः तदस्य न सम्मतमिति रूपसिद्भिर्दर्शिता ॥ पं. १२. अत्थं० गाहा-इहोपचारादर्थप्रत्यायनहेतुत्वाच्छब्द एव खल्वर्थोऽत्र, ततः शब्दमेवार्थप्रत्यायकमर्हन् भाषते, न तु 10 साक्षादर्थम् , तस्याशब्दरूपत्वेनाभिलपितुमशक्यत्वात् । गणभृतोऽपि च शब्दात्मकमेव. श्रुतं प्रथ्नन्ति 'निपुणं' सूक्ष्मं बह्वथं वा । कः प्रतिविशेषः ? इति चेत् , उच्यते-स हि भगवान् विशिष्टमतिसम्पन्नगणधरापेक्षया प्रभूतार्थमर्थमात्रं स्वल्पमेवाभिधत्ते, बीजमात्रतया, न वितरजनसाधारणं ग्रन्थराशिमिति, प्रभूतार्थतीर्थकरभाषितस्य गणधरैविस्तीर्णतया सूत्रकरणमिति विशेष इति गाथार्थः ॥ पं. १८. तत्रेति ज्ञानपञ्चकमध्ये । आभिनिबोधिकज्ञानमित्यस्यायमर्थ:-अभिमुखः-योग्यदेशावस्थितार्थापेक्षी, अर्थाभिमुखः अर्थबलायातत्वेन तन्नान्तरीयकोद्भव इत्यर्थः । 'नियतः स्वस्वविषयापेक्षी, तेन श्रोत्र-चक्षू-रसना-प्राण-स्पर्शनानामि- 15 न्द्रियाणां शब्द-रूप-रस-गन्ध-स्पर्शाः स्वविषया ग्राह्यतया नियताः, न वितरस्य विषयमितरद् गृहणाति यो बोधः सोऽभिनिबोधः, अभिनिबोध एवाऽऽभिनिबोधिकम् , विनयादिपाठात् स्वार्थे इकणिति, यथा विनय एव वैनयिकमिति । यद्वा नात्र स्वार्थिकप्रत्यय एव किन्तु यथाघटमानमन्यथाऽपि व्युत्पाद्यम् । पं. १९. अभिनिबुध्यते तदित्यादि, ननु कर्तारमन्तरेण कर्म न भवति, अभिनिबुध्यते तदित्यत्र तु मतिज्ञानं कर्मास्ति, न तु कर्ता, तत् कथमिदं घटते ? इत्याह-- पं. २०. तस्य स्वसंविदितरूपत्वादिति, स्वयमेव ज्ञानं नीलादिग्राहकत्वेनात्मानं व्यवच्छिनत्ति, न बाह्यो ज्ञानपरिच्छेदकः कर्ताऽन्वेषणीय इति भावः । ननु 20 'ओदनं पचति देवदत्तः' इत्यादिषु भेदेनैव कर्म-कर्तृव्यवहारो दृष्टः, अत्र तु तदेव ज्ञानं परिच्छेदकं तदेव च परिच्छेद्यमिति भेदाभावात् कथं तद्व्यवहारः ? इत्याशङ्कयाऽऽह-भेदोपचारादिति, तद्धि प्रदीपवत् प्रकाशस्वभावमेवोत्पद्यत इत्यसन्नपि कर्तृ-कर्मभावेन भेद उपचर्यत इति भावः । यथा ज्ञानं कर्तृ स्वं रूपमभिनिबुध्यते इत्येकस्यैव कर्तृत्वं कर्मत्वं स्यात् । तदेवमाभिनिबोधिकशब्दवाच्य ज्ञानमुक्तम् । अथवा ज्ञानं क्षयोपशम आत्मा वा तद्वाच्य इति दर्शयति-करणादिसाधनतया अभिनिबुध्यते घटादि वस्तु आत्मा 'अनेन' प्रस्तुतज्ञानेन तदावरणक्षयोपशमेन वाऽभिनिबोधः, स एवाऽऽभिनिबोधिकम् । पं. २१. अभिनिबुध्यते 'अस्मात' 25 प्रकृतज्ञानात् क्षयोपशमाद्वा। पं. २२. 'अभिनिबुध्यते' अवगच्छति वस्तु आत्मा 'अस्मिन्' अधिकृतज्ञाने क्षयोपशमे वा सति आभिनिबोधिकम् । पं. २३. यद्वा 'अभिनिबुध्यते' वस्तु अवगच्छति आत्मैवाभिनिबोधः, स एवाऽऽभिनिबोधिकम् । नन्वात्म-क्षयोपशमयोराभिनिबोधिकशब्दवाच्यत्वे ज्ञानेन सह कथं सामानाधिकरण्यं स्याद् येन कर्मधारयो युज्येत ? सत्यम् , किन्तु ज्ञानस्याऽऽत्माश्रयत्वात् क्षयोपशमस्य च ज्ञानकारणत्वादुपचारतोऽत्रापि पक्षे आभिनिबोधिकशब्दो ज्ञाने वर्त्तते, ततश्च आभिनिबोधिकं च तद् ज्ञानं चेति कर्मधारयोऽदुष्टः १॥ पं. २४. श्रूयतेऽसाविति श्रुतं शब्दः । नन्वभिलापप्लावितार्थग्रहण- 30 प्रत्ययो लब्धिविशेषः श्रुतम् , तदेव च ज्ञानम् , तत् कथं शब्दः श्रुतं स्यात् ? इत्याह-भावश्रुतेत्यादि, श्रुतज्ञानकारणं शब्दोऽपि श्रुतमुच्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248