Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 129
________________ १०२ मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं 15 सर्वाऽप्युच्यते । सचेतनस्य गुणाः पर्यायाश्च वाच्याः अचेतनस्य च । तत्र जीवद्रव्यस्य जीवत्व-चेतनत्वादयः सहवर्तित्वाद् गुणाः, नारकत्वादयश्च क्रमवर्तित्वात् पर्यायाः । अचेतनस्यापि वर्णादयः सहवर्तित्वाद् गुणाः, नव-पुराणादयश्च तस्य क्रमभावित्वात् पर्यायाः । तदुक्तम्सहवत्ति गुणा कमवत्ति पज्जवा जीवतिगुण निरयाई। वण्णाइ पोग्गलगुणा, पजाया नव-पुराणाई ॥१॥[ ] [पृष्ठ १५] पं. ८. भाषाभिधेया अर्था इत्यादि, सूत्रस्य हि त्रयोव्याख्याप्रकारा भवन्ति-भाषा विभाषा वार्तिकमिति । तत्र भाषा--- सुत्ते जो जं सुत्तालावगनिप्फन्नं धात्वर्थमात्रमेव भाषते स भाषको भण्यते १ । जया तस्स सुत्तस्स जो दोहिं वा तिहिं वा चउहिं वा पगारेहिं अत्थपयाणि विभासइ सो विभासगो भण्णइ २ । जया सव्वपज्जवेहिं अत्थं भासइ तदा व्यक्तीकरणाद वार्तिककरोऽभिधीयते । अत एवोक्तम्-भाषाभिधेया अर्थाः, अल्पभाषणविषया इत्यर्थः, बहुबहुतरभाषणविषयास्त्वितरे इत्यमीषामयं 10 विभागः। पं. १२. सुकुमालेत्यादिगाथा ४२-सुकुमालकोमलं-अतिमृदु तलं-चरणाधोभागरूपं येषां ते तथा तान् । पादान् दूसगणिसत्कान् प्रणमामि । 'प्रशस्तलक्षणान्' चक्र-च्छत्र-पद्म-वज्र-चामर-पताका-शङ्ख-मीन-श्रीवत्स-मन्दर-स्वस्तिक-कलशवृषभ-सिंह-गजप्रभृत्यन्यतरसामुद्रिकशास्त्राभिहितलक्षणोपेतान् । प्रावचनिकाः-तत्कालोचितप्रकृष्टागमवेत्तारः सूरयः तेषां सम्बन्धिनः । ये पठनार्थमागता अन्यगच्छीयास्साधवस्ते प्रतीच्छका अभिधीयन्ते, तैः 'प्रणिपतितान् ' प्रणतान् , अनेन बाहुश्रुत्यमुक्तम् । यद्वा तेषां प्रावचनिकानां दूसगणिनाम्नां सुकुमालादिविशेषणविशिष्टान् पादान् प्रणमामीति देववाचक इदमाह ॥ . [ पृष्ठ १६] पं. ४. अनुयोजयन्तोऽपि श्रुतादिनोपकुर्वन्तोऽपि अयोग्यं जनं दयालवो न खलु भवन्ति महीयांसः, कथम्भूताः सन्तः ? न अवगतः परार्थसम्पादने उपायो यस्तेऽनवगतपरार्थसम्पादनोपायाः सन्तः, येन हि परार्थसम्पादने उपायो ज्ञातो भवति स एव दयालुर्भवति, नेतरः ॥ पं. ६. लाघवं चाऽस्येति, 'लाघवं' हीलां 'अस्य' अध्ययनश्रुतस्य असावयोग्यः सम्पा दयति, तच्च महतेऽनर्थाय । यत उक्तम्20 अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् । दोषायाभिनवोदीर्णे शमनीयमिव ज्वरे ॥१॥ धर्मशास्त्रार्थवैतथ्यात् प्रत्यपायो महान् भवेत् । रौद्रदुःखौघजनको दुष्प्रयुक्तादिवौषधात् ॥२॥ [ ... पं. ८. आमेत्यादि । अल्पाधारं पात्रं सिद्धान्तरहस्यं कर्तृ 'विनाशयति' धर्मादेभ्रंशयति, यथाऽपक्कघटनिक्षिप्त जलं तमेव घटं 'विनाशयति' स्वरूपाद् भ्रंशयति ॥ पं. १०. तत्राधिकृतगाथामिति, “सेलघण-कुडग-चालणी"त्यादि [गा. ४४] प्रागुपन्यस्ताम् । विनेयजनानुग्रहाय चैनां सभाष्यां व्याख्यानयामः सम्प्रत्येव वयम् । तद्यथा-सेलघण० गाथायां 25 'सेल' त्ति मुद्गशैलः पाषाणविशेषः, घनः-मेघः, मुद्गशैलश्च घनश्च तदुदाहरणं प्रथमम् १। 'कुटः' घटः २ । 'चालनी' प्रतीता ३ । ..'परिपूणकः' सुघरीचिटिकागृहम् ४ । हंस-महिष-मेष-मशक-जेलूका-बिडाल्यः प्रतीताः ५-१० । जाहकः-सेहुलकः ११ । गौः १२ भेरी १३ आभीरी १४ चेति । योग्या-ऽयोग्यशिष्यविषयाणि चतुर्दशैतान्युदाहरणानि इति प्रकृतगाथासक्षेपार्थः ॥ उदाहरणं च द्विविधं भवति-चरितं कल्पितं च । तत्रेह प्रथमं कल्पितमुदाहरणम् । एतच्च भाष्यकारो विवृण्वन्नाहपं. १२-१३. उल्लेऊण न सको, गज्जइ इय मुग्गसेलओ रणे । तं संवयमेहो गंतुं तस्सुप्परिं पडइ ॥१॥ रविउ त्ति ठिओ मेहो, उल्लो मि न व त्ति गज्जई सेलो। . सेलसमं गाहिस्सं निग्विजइ गाहगो एवं ॥२॥ १ जलौको-बिडालाः सं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248