Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 132
________________ श्रीहरिभद्रसूरिप्रणीताया नन्दिसूत्रवृत्तेः टिप्पनकम् । १०५ सच्छिद्रो भवतीत्यर्थः १ अन्यस्तु 'भिन्नः' राजिमान् भवति २ तृतीयस्तु ‘खण्डः' भग्नकर्णः ३ चतुर्थस्तु 'सकलः' परिपूर्ण एवेति ४ । एतेषां च चतुर्णामपि कुटभेदानां दान्तिकमधिकृत्य प्ररूपगा स्वयमेव कार्या, यथा-कोऽपि शिष्यः श्रुतग्रहणमाश्रित्य छिद्रघटकल्पो भवति, कश्चित्तु भिन्नघटकल्प इत्यादि वाच्यमिति ॥८॥ अथ क्रमप्राप्तं चालन्युदाहरणमभिधित्सुर्मुद्गशैल-च्छिद्रकुटचालन्युदाहरणानां परस्पराभेदोद्भावकशिष्यमतं च निराचिकीर्षुराह. पं. २०-२१. सेले य छिड्डु चालणि मिहो कहा सोउमुट्टियाण तु। छिड्डाऽऽह, तत्थ बिट्टो सुमरिंसु, सरामि नेदाणिं ॥९॥ एगेण विसइ बीएण नीइ कण्णेण, चालणी आह । धन्न त्थ आह सेलो, जं पविसइ नीइ वा तुझं ॥१०॥ शैल-च्छिद्र कुट-चालन्युदाहरणैः प्रतिपादिताः शिष्या अप्युपचारात् तथोच्यन्ते, तत्सादृश्यात् । ततश्च शैल-च्छिद्रकुट-चालन्यभिधानानां शिष्याणां गुर्वन्तिके व्याख्यानं श्रुत्वोत्थायान्यत्र गतानां 'मिथः' परस्परं कथा समभवत् । कीदृशी ? इत्याह- 10 छिड्केत्यादि । छिद्रघटकल्पश्छिदशिष्यः प्राह । किम् ? इत्याह-'तत्र' गुरुसमीपे उपविष्टस्तदुक्तमस्मार्षमहम्, इदानीं तु न किमपि । स्मरामि । छिद्रघटोऽपि ह्येवंविध एव भवति, सोऽपि हि स्थानस्थितो मुद्गादिकं प्रक्षिप्तं धरति, अन्यत्र तूत्क्षिप्य नीतस्य तन्न प्राप्यते, . अधश्छिद्रेण गलित्वा निःसृतत्वात् , अतस्तत्कल्पः शिष्योऽपीथमाहेति भावः ॥९|| छिद्रकुटकल्पेन शिष्येणैवमुक्ते चालनीकल्पः प्राह एगेणेत्यादि । चालनीकल्पः शिष्यश्चालनी। स प्राह-भोः छिद्रकुट ! शोभनस्त्वं येन गुरुसमीपस्थेन त्वया तावदवधारितं 15 तद्वचः पश्चादेव विस्मृतम्, मम तु गुर्वन्तिके स्थितस्यैकेन कर्णेन विशति द्वितीयेन तु निर्गच्छति, न पुनः किमपि हृदये स्थितम्, कणिक्कादिचालन्या अपि हि जलादिकमुपरिभागेन क्षिप्यते, अधोभागेन तु निर्गच्छति, न तु किमपि सन्तिष्ठते, अतस्तदुपमः शिष्योऽपीत्थमेवाऽऽहेति भावः । तदेवं छिद्रकुट-चालनीभ्यामेवमुक्ते मुद्गशैलः प्राह-धन्न त्येत्यादि, मुद्गशैलो वदति-धन्यावत्र युवाम् , 'यद्' यस्मात् कारणाद् युवयोस्तावत् कर्णयोर्गुरूक्तं किमपि प्रविशति निर्गच्छति वा, मम त्वेतदपि नास्ति, तदुक्तस्य सर्वथाऽपि मध्ये प्रवेशाभावात् , उपलस्यैवंविधत्वादेवेति भाव इति ॥१०॥ तदेवं चालन्युदाहरणस्य स्वरूपमुक्तम् । शैल-च्छिद्रघट- 20 चालन्युदाहरणानां परस्परं विशेषश्चाभिहितः । अथ चालनीप्रतिपक्षमाहपं. २२. तावसखउरकढिणयं चालणिपडिवक्खो , न सवइ दवं पि । परिपूणगम्मि उ गुणा गलंति, दोसा य चिट्ठति ॥११॥ चालनीप्रतिपक्षो भवतीति शेषः । किं तत् ? इत्याह-तापसानां भोजनादिनिमित्त उपकरणविशेषः खेउरकठिनकमुच्यते । तच्च किल वंशं शुम्बादिकं च द्रव्यमतिश्लदणं कुट्टयित्वा कमठकाकारं क्रियते । इदं चातिनिबिडत्वाद् 'द्रवं' जलमपि प्रक्षिप्तं न 25 श्रवति, किन्तु सम्यग् धरति, एवं शिष्योऽपि यो गुरुभिराख्यातं सर्वमेव धरति, न तु विस्मरति स ग्राह्यः, चालनीसमस्त्वग्राह्य इति भावः । अथ परिपूणकोदाहरणमाह-परिपूणगेत्या । परिपूणको नाम-सुघरीचिटिकाविरचितो नीडविशेषः, तेन च किल घृतं गाल्यते, ततस्तत्र कचवरमवतिष्ठते, घृतं तु गलित्वाऽधः पतति, एवं परिपूणकसदृशः शिष्योऽप्युपचारात् परिपूर्णकः । तत्र हि श्रुतसम्बन्धिनो गुणाः सर्वेऽपि घृतवद् गलन्ति, दोषास्तु घृतगतकचवरवदवतिष्ठन्ते, श्रुतस्य दोषानेव गृह्णाति, गुणांस्तु सर्वथा परिहरति असौ, अतोऽयोग्य इति भावः ॥११॥ अत्र प्रेर्यमुत्थाप्य परिहरन्नाह 30 १ “चालिन्याः प्रतिपक्षस्तापसस्य भाजनं खउरं बिल्वरस-भल्लातकरसाभ्यां लिप्तत्वात् 'कठिनं' अतिशयेन घनम्" इति बृहत्कल्पटीकायां मलयगिरयः १०३-१ पत्रे ॥ टी०१४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248