________________
ज्ञानस्य भेदा अवधिज्ञानं तद्भेदप्रभेदाच ] श्रीदेववाचकविरचितं नन्दिसूत्रम् । से तं इंदियपचक्खं ।
११. से किं तमित्यादि । अथ किं तदिन्द्रियप्रत्यक्षम् ?, इन्द्रियप्रत्यक्षं पञ्चविधं प्रज्ञप्तम् । तद्यथा-श्रोत्रेन्द्रियप्रत्यक्षमित्यादि । श्रोत्रेन्द्रियस्य श्रोत्रेन्द्रियप्रधानं वा प्रत्यक्षं श्रोत्रेन्द्रियप्रत्यक्षम् , श्रोत्रेन्द्रियनिमित्तमित्यर्थः । एवं शेषेष्वपि वक्तव्यम् । एतच्चोपचारतः प्रत्यक्षम् , न परमार्थतः। कथं ज्ञायते ? इति चेत् , सूत्रपामाण्यात् । वक्ष्यति च-“परोक्खं दुविहं पन्नत्तं, तंजहा-आभिणिबोहियणाणपरोक्वं च सुयणाणपरोक्खं च" [सुत्तं ४३]। 5 न च मति श्रुताभ्यामिन्द्रिय-मनोनिमित्तमन्यदस्ति यत् प्रत्यक्षमञ्जसा भवेत् , भावे च षष्ठज्ञानप्रसङ्गाद् विरोध इति, तस्मात् परोक्षमेवेदं तत्वत इति ।
आहइह लोके 'लिङ्गजं परोक्षम्' इति प्रतीतमिति, उच्यते, इह यदिन्द्रिय-मनोभिर्वाह्यलिङ्गप्रत्ययमुत्पद्यते तदेकान्तेनैवेन्द्रियाणामात्मनश्च परोक्षम् , परनिमित्तत्वात्, धूमादग्निज्ञानवदिति, अतः परोक्षमिति प्रतीतिः। यत् पुनः साक्षादिन्द्रिय-मनोनिमित्तं तत् तेषामेव प्रत्यक्षम् , अलिङ्गत्वात् , आत्मनोऽवध्यादिवत्, न त्वात्मनः, 10 आत्मनस्तु तत् परोक्षमेव, परनिमित्तत्वात् , लैङ्गिकवत् । इन्द्रियाणामपि तदुपचारतः प्रत्यक्षम् , न परमार्थतः, कथम् ?, अचेतनत्वादिति, अत्र बहु वक्तव्यं तच्चान्यत्र वक्ष्यामः, मा भूत् प्रथमग्रन्थ एव प्रतिपत्तिगौरवमित्यलं विस्तरेण ।
आह-स्पर्शन-रसन-घ्राण-चक्षुः-श्रोत्राणीन्द्रियाणीति क्रमः, अयमेव च ज्यायान्, पूर्वपूर्वलाभ एवोत्तरोत्तरलाभात् , अतः किमर्थमुत्क्रमः ?, उच्यते, पश्चानुपूर्व्यादिन्यायज्ञापनार्थ स्पष्टसंवेदनद्वारेण सुखप्रतिपत्त्यर्थ चेति । 15
इह मनोज्ञानमपीन्द्रियज्ञानतुल्ययोग-क्षेममेव द्रष्टव्यम् , तथा चाभिनियोधिकज्ञानप्ररूपणायां प्रवक्ष्यत इति । “से तं इंदियपच्चक्खं" तदेतदिन्द्रियप्रत्यक्षम् ॥
१२. से किं तं णोइंदियपञ्चक्खं ? णोइंदियपञ्चक्खं तिविहं पण्णत्तं, तं जहा-ओहिणाणपञ्चक्खं १ मणपज्जवणाणपञ्चक्खं २ केवलणाणपञ्चक्खं ३ ।
१२. से किं तं णोइंदियपच्चक्खं ? इत्यादि । अथ किं तद् नोइन्द्रियप्रत्यक्षम् ? । नोइन्द्रियप्रत्यक्षं त्रिविधं 20 प्रज्ञप्तम् , तद्यथा-अवधिज्ञानप्रत्यक्षमित्यादि ।।
१३. से किं तं ओहिणाणपञ्चक्खं ? ओहिणाणपञ्चक्खं दुविहं पण्णतं, तं जहाभवपञ्चतियं च खयोवसमियं च । दोन्हं भवपचतियं, तं जहा-देवाणं च णेरतियाणं च । दोन्हं खयोवसमियं, तं जहा-मणुस्साणं च पंचेंदियतिरिक्खजोणियाणं च ।
१३. से किं तं इत्यादि सूत्रम् । अथ किं तदवधिज्ञानप्रत्यक्षम् ?, अअधिज्ञानप्रत्यक्षं द्विविधं प्रज्ञप्तम् । तद्यथा- 25 भवप्रत्ययं च १ क्षायोपशमिकं च २। तत्र भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः, नारकादिजन्मेति भावः, भव एव प्रत्ययः-कारणं यस्य तद् भवप्रत्ययम् १ । 'चः' पूर्ववत् । तथा क्षयश्चोपशमश्च क्षयोपशमौ, ताभ्यां निर्वृत्तं क्षायोपशमिकम् २ । तत्र यद् येषां भवति तत् तेषामुपदर्शयन्नाह
दोण्हमित्यादि । 'द्वयोः' जीवसमूहयोः भवप्रत्ययम् । तद्यथा-देवानां नारकाणां च । तत्र दीव्यन्तीति देवाः, निरुपमक्रीडामनुभवन्तीत्यर्थः, तेषाम् । तथा नरान् कायन्तीति नरकाः, योग्यतया शब्दयन्तीत्यर्थः, तेषु 30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org