________________
श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलङ्कृतं
[ सू. ९-१३ धात् , तथाहि-यथा मनःपर्यायज्ञानमप्रमत्तयतेरेव भवति एवं केवलज्ञानमप्यप्रमत्तभावयतेरेवेति साधर्म्यम् । तथाऽवसानलाभाच्च, यो हि सर्वज्ञानानि समासादयति स खल्वन्त एवेदमाप्नोतीति भावना। विपर्ययाभावसाधाच्च, तथाहि-यथा मनःपर्यायज्ञानं विपर्ययज्ञानं न भवति एवं केवलज्ञानमपीति साधर्म्यम् । अलं विस्तरेणेति सूत्रार्थः ॥
९. तं समासओ दुविहं पण्णतं, तं जहा-पच्चक्वं च परोक्खं च ।
९. तं समासतो दुविहं पन्नत्तमित्यादि सूत्रम् । अस्य व्याख्या-'तत्' पञ्चप्रकारं ज्ञानं 'समासतः' सक्षेपेण 'द्विविधम्' इति द्वे विधे अस्येति 'द्विविधं द्विपकारं 'प्रज्ञप्त' प्ररूपितम् । 'तद्यथा' इति उदाहरणोपन्यासार्थम् । प्रत्यक्षं च परोक्षं च । तत्र प्रत्यक्षमित्यत्र जीवोऽक्षः। कथम् ? "अशू व्याप्तौ" [पा. धातु. १२६५]
इत्यस्य ज्ञानात्मनाऽश्नुतेऽर्थानित्यक्षः, व्याप्नोतीत्यर्थः, “अश भोजने" [पा. धातु. १५२४ ] इत्यस्य वाऽश्नाति 10 सर्वार्थानिति अक्षः, पालयति भुङ्क्ते चेत्यर्थः, तमक्षं प्रति वर्त्तत इति प्रत्यक्षम् , आत्मनोऽपरनिमित्तमवध्याधतीन्द्रियमिति भावार्थः। 'चशब्दः' स्वगतानेकभेदप्रदर्शनपरः। विचित्रतां चास्योत्तरत्र वक्ष्यामः । 'परोक्षं च' इत्यत्र अक्षस्य-आत्मनः द्रव्येन्द्रियाणि द्रव्यमनश्च पुद्गलमयत्वात् पराणि वर्तन्ते, पृथगित्यर्थः, तेभ्योऽक्षस्य यद् ज्ञानमुत्पद्यते तत् परोक्षम्, परनिमित्तत्वात्, धूमादग्निज्ञानवत् । अथवा परैः उक्षा-सम्बन्धनं विषय-विषयिभाव
लक्षणमस्येति परोक्षम् । चशब्दः पूर्ववत् । एवमन्यत्राप्युत्पेक्ष्य चशब्दार्थों वक्तव्य इति सूत्रार्थः ॥ 15 एवं भेदद्वये उपन्यस्ते सति अनयोः सम्यक् स्वरूपमनवगच्छन्नाह चोदकः
१०. से किं तं पञ्चक्खं ? पञ्चक्खं दुविहं पण्णतं, तं जहा-इंदियपञ्चक्खं च णोइंदियपच्चक्खं च ।
१०. से किं तं पञ्चक्खं ? इत्यादि सूत्रम् । अस्य व्याख्या-सेशब्दो मागधदेशीप्रसिद्धो निपातोऽथशब्दार्थे वर्तते, स च प्रक्रियादिवाचकः । यथोक्तम्-“अथ प्रक्रिया प्रश्ना-ऽऽनन्तर्य-मङ्गलोपन्यास-प्रतिवचन-समुच्चयेषु" 20 इहोपन्यासार्थः। 'किम्' इति परिप्रश्ने । 'तत्' प्रागुपदिष्टं प्रत्यक्षमिति सूत्रार्थः ॥ एवं चोदकेन प्रश्ने कृते सति न्यायप्रदर्शनार्थमाचार्यश्वोदकोक्तानुवादद्वारेण निर्वचनमभिधातुकाम आइ
पच्चक्खं दुविहं पन्नत्तमित्यादि सूत्रम् । एवमन्यत्रापि यथायोगं प्रश्न निर्वचनसूत्राणां पातनिका कार्येति । प्रत्यक्षं द्विविधं प्रज्ञप्तम् । तद्यथा-इन्द्रियप्रत्यक्षं च नोइन्द्रियप्रत्यक्षं च । इन्द्रियाणां प्रत्यक्षं इन्द्रियप्रत्यक्षम् ।
इहेन्द्रः-स्वरूपतो ज्ञानाद्यैश्वर्ययुक्तत्वादात्मा, तस्येदमिन्द्रियम् । तच्च द्विधा-द्रव्येन्द्रियं च भावेन्द्रियं च । तत्र 25 पुद्गलै ह्यसंस्थाननिर्वृत्तिः कदम्बपुष्पाद्याकृतिविशिष्टोपकरणं च दव्येन्द्रियम् , “निर्वृत्त्युपकरणे द्रव्येन्द्रियम्" [तत्त्वा. २. १७] इति वचनात् । श्रोत्रेन्द्रियादिविषया सर्वात्मप्रदेशानां तदावरणक्षयोपशमलब्धिरुपयोगश्च भावेन्द्रियम् , " लब्ध्युपयोगौ भावेन्द्रियम्" [तत्त्वा. २. १८] इति वचनात् । इन्द्रियप्रत्यक्षं न भवतीति नोइन्द्रियप्रत्यक्षम् , नोशब्दः सर्वप्रतिषेधे ॥
११. से किं तं इंदियपच्चक्खं ? इंदियपच्चक्खं पंचविहं पण्णत्तं, तं जहा-सोइंदिय30 पच्चक्वं १ चक्खिदियपञ्चक्खं २ घाणिदियपञ्चक्खं ३ रसणेदियपञ्चक्खं ४ फासिदियपच्चरखं ५।
१“ व्याप्ती साते च" इति पाणिनिधातुपाठे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org