________________
पञ्च ज्ञानानि तत्क्रमप्रयोजनं च ]
श्रीदेववाचकविरचितं नन्दिसूत्रम् ।
१९
पर्ययनं पर्यय इत्यर्थः, मनसि मनसो वा पर्ययो मन:पर्ययः, सर्वतस्तत्परिच्छेद इत्यर्थः, स एव ज्ञानं मनःपर्ययज्ञानम् । अथवा मनसः पर्याया मनःपर्यायाः, [पर्यायाः-] धर्मा बाह्यवस्त्वालोचनादिप्रकारा इत्यनर्थान्तरम्, तेषु ज्ञानं मनःपर्यायज्ञानम्, तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानम्, इदं चार्द्धतृतीयद्वीप-समुद्रान्तर्वर्तिसंज्ञिमनोगतद्रव्यालम्बनमेवेति भावार्थः ४ ।
तथा केवलम् - असहायं मत्यादिज्ञाननिरपेक्षम् । शुद्धं वा केवलम्, आवरणमलकलङ्काङ्करहितम् । सकलं वा 5 केवलम्, तत्प्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेः । असाधारणं वा केवलम्, अनन्यसदृशमिति हृदयम्। ज्ञेयानन्तत्वादनन्तं वा केवलम् यथावस्थिताशेषभूत-भवद्भाविभावस्वभावावभासीति भावना । केवलं च तद् ज्ञानं च केवलज्ञानम् ५ ॥
आह - एषां ज्ञानानामित्थमुपन्यासे किं प्रयोजनम् ? इति उच्यते, इह स्वामि-काल-कारण-विषय-परोक्षत्वसाधर्म्यात् तद्भावे च शेषज्ञानभावादादावेव मतिज्ञान-श्रुतज्ञानयोरुपन्यास इति । तथाहि - य एव मतिज्ञानस्य स्वामी 10 स एव श्रुतज्ञानस्य, “ जत्थ मतिणाणं तत्थ सुयणाणं" [सुत्तं ४४ ] इति वचनात् । तथा यात्रान् मतिज्ञानस्य स्थितिकालस्तावानेवेतरस्य, प्रवाहापेक्षया अतीतानागत-वर्तमानः सर्व एव, अप्रतिपतितैकजीवापेक्षया च षट्षष्टिसागरोपमाण्यधिकानीति । उक्तं च भाष्यकारेण
दो वारे विजया गयस्स, तिन्नऽच्चुते अहव ताई । अइरेगं नरभवियं, णाणाजीवाण सम्बद्धं ॥ १ ॥ [ विशेषा. गा. ४३६ ] 15
यथा मतिज्ञानं क्षयोपशमहेतुकं तथा श्रुतज्ञानमपि । यथा च मतिज्ञानमादेशतः सर्वद्रव्यादिविषयमेवं श्रुतज्ञानमपि । यथा मतिज्ञानं परोक्षं एवं श्रुतज्ञानमपीति । तथा मतिज्ञान- श्रुतज्ञानयोरेव अवध्यादिज्ञानभावादिति । आह-एत्रमपि मतिज्ञानमादौ किमर्थम् ? इति उच्यते, मतिपूर्वकत्वाद् विशिष्टमत्यंशरूपत्वाद्वा श्रुतस्याऽऽदौ मतिज्ञानमिति । उक्तं च
मतिपुत्रं जेण सुयं तेाऽऽदीए मती, विसिट्ठो वा । मतिभेओ चेव सुयं, तो मतिसमणंतरं भणियं || १ || 20 [विशेषा. गा. ८६ ]
इति पर्याप्तं विस्तरेण ।
तथा काल-विपर्यय-स्वामि-लाभसाधर्म्यान्मति श्रुतज्ञानानन्तरमवधिज्ञानस्योपन्यासः । तथाहि - यावानेव मतिज्ञान-श्रुतज्ञानयोः स्थितिकालः प्रवाहापेक्षयाऽप्रतिपतितैकसच्चाधारापेक्षया च तावानेवावधिज्ञानस्यापि अतः स्थितिसाधर्म्यम् । तथा यथैव मतिज्ञान - श्रुतज्ञाने विपर्ययज्ञाने भवत एवमिदं मिथ्यादृटेर्विभङ्गज्ञानं भवतीति विप- 25 र्ययसाधर्म्यम् । तथा य एव मतिज्ञान - श्रुतज्ञानयोः स्वामी स एवावधिज्ञानस्यापि भवतीति स्वामिसाधर्म्यम् । तथा विभङ्गज्ञानिनस्त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपदेव ज्ञानत्रयलाभसम्भवालाभसाधर्म्यम् ।
तथा छद्मस्थ-विषय-भावाऽध्यक्षसाधर्म्यादवधिज्ञानानन्तरं मनःपर्यायज्ञानस्योपन्यासः । तथाहि - यथाऽवधिज्ञानं छद्मस्थस्य भवति एवं मनःपर्यायज्ञानमपि छद्मस्थस्यैवेति छद्मस्थसाधर्म्यम् । तथा यथाऽवधिज्ञानं रूपिद्रव्यविषयमेवं मनःपर्यायज्ञानमपि सामान्येनेति विषयसाधर्म्यम् । तथा यथाऽवधिज्ञानं क्षायोपशमिके भावे तथा 30 मनःपर्यायज्ञानमपीति भावसाधर्म्यम् । तथा यथाऽवधिज्ञानं प्रत्यक्षमेवं मनःपर्यायज्ञानमपीत्यध्यक्षसाधर्म्यम् ।
तथा मनःपर्यायज्ञानानन्तरं केवलज्ञानस्योपन्यासः, तस्य सकलज्ञानोत्तमत्वात् । तथाऽप्रमत्तयतिस्वामिसा
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org