________________
श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलङ्कृतं
[ सू. ८
८. णाणं पंचविहं पण्णत्तं इत्यादि सूत्रम् । अस्य व्याख्या - ज्ञातिः ज्ञानम्, “कृत्यल्युटो बहुलम् " [ पा. ३. ३. ११३ ] इतिवचनाद् भावसाधनः, संविदित्यर्थः । ज्ञायते वाऽनेनेति ज्ञानम्, तदावरणक्षयोपशमादेव । ज्ञायतेऽस्मिन्निति क्षयोपशमे सति ज्ञानम् । आत्मैव विशिष्टक्षयोपशमयुक्तः जानातीति वा ज्ञानं तदेव, स्वविषयसंवेदनरूपत्वात् तस्य । 'पञ्चविध' मित्यत्र पञ्चेति सङ्ख्यावाचकः, विधानं विधेति, अत्र “ डुधाञ् धारण-पोषणयोः " 5 [पा. धातु. १०९२] इत्यस्यानुबन्धलोपे कृते विपूर्वस्य स्त्रियां वर्त्तमानायां “षिद्भिदादिभ्योऽङ्” [पा. ३. ३. १०४] इति वर्त्तमाने " आतश्चोपसर्गे " [पा. ३. १.१३६ ] इत्यनेन अप्रत्ययः, अनुबन्धलोपे कृते “आतो लोप इटि च क्ङिति " [ पा. ६.४.६४] इत्यनेन चाकारलोपे कृते परगमने च 44 'अजाद्यतष्टाप् " [ पा. ४. १. ४ ] इति टाप् प्रत्ययः, अनुबन्धलोपः, परगमनं विधा, पञ्च विधा अस्येति समासः “ह्रस्वो नपुंसके प्रातिपदिकस्य " [ पा. १.२. ४७] इति वर्त्तमाने “गोस्त्रियोरुपसर्जनस्य " [ पा. १. २. ४८] इत्यनेन हस्वत्वम्, सुअम्भावः 'पञ्चविधं पञ्च10 प्रकारमिति, एतदेवमनवद्यम्, कुव्याख्याव्यपोहार्थं चैतदेवं निदर्शितमित्यलं प्रसङ्गेन । 'प्रज्ञप्तं' प्ररूपितम् । कैः ?अर्थतस्तीर्थकरैः सूत्रतो गणधरैरिति । उक्तं च
1
१८
अत्थं भासइ अरहा, सुत्तं गंथति गणहरा णिउणं । सासणस्स हियट्ठाए तओ सुत्तं पवत्तई ॥१॥
अनेन स्वमनीषिकाव्यपोहमाह । अथवा 'प्राज्ञाप्तं ' प्राज्ञात् - तीर्थकरादाप्तमिति - प्राप्तं गौतमादिभिः । अथवा 15 प्राज्ञैराप्तं प्राज्ञाप्तं गौतमादिभिः । प्रज्ञया वाऽऽप्तं प्रज्ञाद्वाऽऽप्तं प्रज्ञाप्तम्, सर्वैरेव संसारिभिरिति । तथाहि-न प्रज्ञाविकलैरिदमवाप्यत इति भावनीयम् । 'तद्यथा' इति उदाहरणोपन्यासार्थः । आभिनिबोधिकज्ञानं १ श्रुतज्ञानं २ अवधिज्ञानं ३ मनःपर्यायज्ञानं ४ केवलज्ञानं ५ चेति ।
[ आव. नि. गा. ९२ ] इति ।
तत्रार्थाभिमुखो नियतो बोधोऽभिनिबोधः, स एव स्वार्थिकप्रत्ययोपादानादाभिनिवोधिकम् । अभिनिबोधे वा भवं तेन वा निर्वृत्तं तन्मयं तत्प्रयोजनं वेत्याभिनिबोधिकम् । अभिनिबुध्यते वा तदित्याभिनिबोधिकं - अवग्रहादि20 रूपं मतिज्ञानमेव, तस्य स्वसंविदितरूपत्वाद् अभेदोपचारादित्यर्थः । अभिनिबुध्यते [वा]ऽनेनेत्याभिनिवोधिकम्, तदावरणक्षयोपशम इति भावार्थः । अभिनिबुध्यतेऽस्मादिति वा आभिनिवोधिकम्, तदावरणकर्मक्षयोपशम एव । अभिनिबुध्यतेऽस्मिन्निति वा क्षयोपशमे सति आभिनिवोधिकम् । आत्मैव वा अभिनिबोधोपयोगपरिणामानन्यत्वादभिनिबुध्यत इत्याभिनिबोधिकम् । आभिनिबोधिकं च तज्ज्ञानं चाभिनिबोधिकज्ञानम् १ |
तथा श्रूयते इति श्रुतं - शब्द एव, भावश्रुतकारणत्वात्, कारणे कार्योपचारादिति भावार्थः । श्रू 25 अनेनेति श्रुतम्, तदावरणक्षयोपशम इति हृदयम् । श्रूयतेऽस्मादिति वा श्रुतम्, तदावरणक्षयोपशम एव । श्रूयतेऽस्मिन्निति वा क्षयोपशमे सति श्रुतम् । आत्मैव श्रुतोपयोगपरिणामानन्यत्वाच्छ्रणोतीति श्रुतम् । श्रुतं च तद् ज्ञानं च श्रुतज्ञानम् २ |
तथाऽवधीयतेऽनेनेत्यवधिः । अवधीयत इति - अधोऽधो विस्तृतं परिच्छिद्यते मर्यादया वेति अवधिः, अवधिज्ञानावरणकर्मक्षयोपशम एव तदुपयोगहेतुत्वादित्यर्थः । अवधीयतेऽस्मादित्यवधिः, तदावरणकर्मक्षयोपशम एव । 30 अवधीयतेऽस्मिन्निति वेत्यवधिः, भावार्थः पूर्ववदेव । अवधानं वा अवधिः, विषयपरिच्छेदनमित्यर्थः । अवधिश्वासौ ज्ञानं च अवधिज्ञानम् ३ /
तथा मनःपर्यायज्ञानमित्यत्र परि- सर्वतोभावे, अयनं अयः गमनं वेदनमिति पर्यायाः, परि अयः पर्ययः,
Jain Education International
For Private Personal Use Only
www.jainelibrary.org