________________
२२
श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलङ्कृतं
[सू. १४-१८ भवा नारकास्तेषाम् । अत्राह-नन्ववधिज्ञानं क्षायोपशमिके भावे वर्तते, देव-नारकभवश्चौदयिकः, तत् कथं तद् भवप्रत्ययम् ? इति, उच्यते, क्षायोपशमिकमेव तत् , किन्तु स देव-नारकभवे अवश्यम्भावी, पक्षिणां गगनगमनलब्धिनिमित्तवदित्यतो भवप्रत्यय इति । उक्तं चउदय-क्खय-क्खयोवसमोवसमा जं च कम्मुणो भणिया । दव्वं खेत्तं कालं भवं च भावं च संपप्प ॥१॥१॥
[विशेषा. गा. ५७५, धर्मसं. गा. ९४९] तथा द्वयोः क्षायोपशमिकम् , तद्यथा-मनुष्याणां पञ्चेन्द्रियतिर्यग्योनीनां च । न चैषामवश्यन्तया भवतीत्यतः सत्यपि क्षायोपशमिकत्वे भवप्रत्ययाद् भिन्नमिदमिति २ । तत्त्वतस्तु सर्वमेव क्षायोपशमिकमिति । अधुना क्षयोपशमस्वरूपं प्रतिपादयन्नाह
१४. को हेऊ खायोवसमियं ? खायोवसमियं तयावरणिज्जाणं कम्माणं उदिण्णाणं 10 खएणं अणुदिणाणं उवसमेणं ओहिणाणं समुप्पज्जति । अहवा गुणपडिवण्णस्स अणगारस्स ओहिणाणं समुप्पज्जति ।
. १४. को हेऊ इत्यादि । 'को हेतुः' किंनिमित्तं-किंविषयं क्षायोपशमिकम् ? यद्वा किंकारणं क्षायोपशमिकम् ? उच्यते इत्यध्याहारः। अत्र निर्वचनमभिधातुकाम आह-क्षायोपशमिकं 'तदावरणीयानाम्' अवधिज्ञानावर
णीयानां कर्मणां 'उदीर्णानां' उदयावलिकाप्राप्तानां 'क्षयेण' प्रलयेन 'अनुदीर्णानां च' आत्मनि व्यवस्थितानां 15 'उपशमेन' उदयनिरोधेन अवधिज्ञानमुत्पद्यत इति सम्बन्धः, यत एवमतः कर्मोदया-ऽनुदयविषयम् । अथवा येन तदावरणीयानां कर्मणां उदीर्णानां क्षयेणानुदीर्णानामुपशमेनावधिज्ञानमुत्पद्यते तेन क्षायोपशमिकमित्युच्यत इति ।
स च क्षयोपशमो विशिष्टगुणपतिपत्तिमन्तरेण १ तथा गुणप्रतिपत्तितश्च २ भवति । तत्रान्तरेण-यथाऽऽकाशे घनघनपटलाच्छादितमूर्तेर्दिवसकरमण्डलस्य कथञ्चिदुपजातरन्ध्रेण विनिर्गतास्तिमिरनिचयप्रलयहेतवः किरणाः
स्वावपातदेशास्पदं दव्यमुद्योतयन्ति तथा प्रकृतिभास्वरस्याऽऽत्मनो मिथ्यावादिजनितज्ञानावरणीयादिकर्ममलप20 टलतिमिरतिरस्कृतस्वभावस्यानादौ संसारे परिभ्रमतो यथाप्रवृत्त्योपजातावधिज्ञानावरणक्षयोपशमविवरस्यावधिज्ञानालोकः प्रसाधयति स्वकार्यमिति १ । गुणपतिपत्तितस्तु मूलगुणादिपतिपत्तेभवति । यत आह
अथवा इत्यादि । 'अथवा' इति प्रकारान्तरप्रदर्शनार्थम् , अन्तरेण प्रतिपत्तिमित्यस्मादिदं प्रकारान्तरमेव । गुणाः-मूलगुणादयस्तैः प्रतिपन्ना-गृहीतो गुणप्रतिपन्न इति, अनेन अतिशयपात्रतामाह, यतः पात्राथयिणो
गुणाः । उक्तं च25 नोदन्वानचितामेति न चाम्भोभिर्न पूर्यते । आत्मा तु पात्रतां नेयः पात्रमायान्ति सम्पदः ॥१॥[ ]
अथवा प्राकृतशैल्या पूर्वापरनिपातकरणात् प्रतिपन्नगुणस्य 'अनगारस्य' न गच्छन्तीत्यगाः-वृक्षाः, तैः कृतमगारं-गृहम् , नास्यागारं विद्यत इत्यनगारः, परित्यक्तद्रव्य-भावगृह इत्यर्थः, तस्य प्रशस्ताध्यवसायस्य तदावरणकर्मक्षयोपशमे सत्यवधिज्ञानं समुत्पद्यते ॥ २ ॥
१५. तं समासओ छव्विहं पण्णत्तं, तं जहा-आणुगामियं १ अणाणुगामियं २ 30 वड्डमाणयं ३ हायमाणयं ४ पडिवाति ५ अपडिवाति ६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org