________________
10
आनुगामिकमवधिज्ञानं तद्भेदाश्च ] श्रीदेववाचकविरचितं नन्दिसूत्रम् ।
१५. तं समासतो इत्यादि। 'तद्' अवधिज्ञानं 'समासतः' सङ्क्षपेण 'पड्विधं' षट्प्रकारं 'पज्ञप्त' प्ररूपितम् । तद्यथा-'आनुगामुकं' अनुगमनशीलमानुगामुकम् , अवधिज्ञानिनं लोचनवद् गच्छन्तमनुगच्छतीति भावार्थः१। अनानुगामुकं नावधिज्ञानिनं गच्छन्तमनुगच्छति, सङ्कलाप्रतिबद्धप्रदीपवदिति हृदयम् २ । वर्धते वर्द्धमानम् , तदेव वर्द्धमानकम् , संज्ञायां कन् , उत्पत्तिकालादारभ्य प्रवर्द्धमानम् , महेन्धननिवन्धनोत्पद्यमानानलज्वालाकलापवदिति भावना ३ । 'हीयमानकं' हीयते हीयमानम् , तदेव हीयमानकम् , कुत्सायां कन् , उदयसमयसमनन्तरमेव हीय- 5 मानं दग्धेन्धनमायधूमध्वजाचितिवदित्यर्थः ४ । 'प्रतिपाति' प्रतिपतनशीलं प्रतिपाति, कथञ्चिदापादितजात्यमणिप्रभाजालवदिति गर्भार्थः ५ । 'अप्रतिपाति' न प्रतिपाति अप्रतिपाति, क्षार मृत्पुटपाकाद्यापाद्यमानजात्यमणिकिरणनिकरवदित्यभिप्रायः । आह-आनुगामुका-ऽनानुगामुकभेदद्वय एव शेषभेदानां वर्द्धमानकादीनामन्तर्भावात् किमर्थमुपन्यासः ? इति, उच्यते, सत्यप्यन्तर्भावे तद्विकल्पद्वयादेव तेषामपरिच्छित्तः, तथाहि-नाऽऽनुगामुकमनानुगामुकं चेत्युक्ते वर्द्धमानकादयो गम्यन्त इति, अज्ञातज्ञापनार्थ च शास्त्रप्रवृत्तिरित्यलं प्रसङ्गेन ॥
१६. से किं तं आणुगामियं ओहिणाणं? आणुगामियं ओहिणाणं दुविहं पण्णत्तं, तं जहा-अंतगयं च मज्झगयं च ।
१६. से किं तमाणुगामियमित्यादि । अथ किं तदानुगामुकमवधिज्ञानम् ? आनुगामुकमवधिज्ञानं द्विविधं प्रज्ञप्तम् , तद्यथा-अन्तगतं च १ मध्यगतं च २ । इहान्तः-पर्यन्तो भण्यते, वनान्तवत् , गतं स्थितमित्यनान्तरम्, अन्ते गतं 'अन्तगतं' अन्ते स्थितम् । तच्च फड्डकावधिखादात्मप्रदेशान्ते, सर्वात्मप्रदेशक्षयोपशमभावतो वा 15
औदारिकशरीरान्ते, एकदिगुपलम्भाद्वा तदुद्योतितक्षेत्रान्ते गतमन्तगतम् । इह चाऽऽत्मप्रदेशान्तगतमुच्यते, सकलजीवोपयोगे सत्यपि साक्षादेकदेशेनैव दर्शनात् ; औदारिकशरीरान्तगतमपि, औदारिकशरीरैकदेशेनैव दर्शनाच्च यथोक्तक्षेत्रान्तगत खवधिमतस्तदन्तकृत्तरिति भावना१। चशब्द: पूर्ववत् । 'मध्यगत इह मध्यः प्रसिद्ध एव दण्डादिमध्यवत् , मध्ये गतं 'मध्यगतं' मध्ये स्थितम् । तच्च सर्वत्र फड्डकविशुद्धरात्ममध्ये सर्वात्ममध्ये, सर्वात्मनो वा क्षयोपशमयोगाविशेषेऽपि औदारिकशरीरमध्योपलब्धेः तन्मध्ये, सर्वदिगुपलम्भाद्वा तत्प्रकाशितक्षेत्रमध्ये गतं 20 मध्यगतम् । अत्र चात्ममध्यगतमभिधीयते, सर्वात्मोपयोगे सत्यपि मध्य एव फड्डकसद्भावात् साक्षान्मध्यभागेनोपलब्धेः; औदारिकशरीरमध्यगतमपि, औदारिकशरीरमध्यभागेनैवोपलब्धेः प्रस्तुतक्षेत्रमध्यगतं पुनरवधिज्ञानिनस्तत्र मध्ये भावादिति भावार्थः । चशब्दः पूर्ववत् ॥
१७. से किं तं अंतगयं ? अंतगयं तिविहं पण्णत्तं, तं जहा-पुरओ अंतगयं १ मग्गओ अंतगयं २ पासतो अंतगयं ३ ।
25 १८. से किं तं पुरतो अंतगयं ? पुरतो अंतगयं से जहानामए केइ पुरिसे उकं वा चुडलिअं वा अलायं वा मणिं वा जोई वा पदीवं वा पुरओ काउं पणोल्लेमाणे पणोल्लेमाणे गच्छेज्जा । से तं पुरओ अंतगयं १ ।
१७-१८. से किं तमित्यादि प्रायः सुगमम् । नवरं उल्का-दीपिका । चुडली-पर्यन्तज्वलिता तृणपूलिका । अलातम्-उल्मुकम् । मणिः-पद्मरागादिः । प्रदीपशिखादि ज्योतिः, मल्लिकाद्याधारोऽग्निः । प्रदीपः- 30 प्रतीतः । 'पुरतः' अग्रतो हस्त-दण्डादौ गृहीत्वा "पणोल्लेमाणे पणोल्लेमाणे" त्ति प्रेरयन् प्रेरयन् 'गच्छेद्'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org