Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 64
________________ ____10 मनःपर्यवज्ञानं केवलज्ञानं तद्भेदाश्च ] श्रीदेववाचकविरचितं नन्दिसूत्रम् । ___३३. मणपज्जव० गाहा । व्याख्या-मनःपर्यायज्ञानं प्राग्निरूपितशब्दार्थम् । पुनःशब्दो विशेषणार्थः । इदं हि रूपिनिबन्धन-क्षायोपशमिक-प्रत्यक्षादिसाम्येऽपि सत्यवधिज्ञानात् स्वाभ्यादिभेदेन विशिष्टमिति स्वरूपतः प्रतिपादयन्नाह-जायन्त इति जनाः, तेषां मनांसि जनमनांसि, जनमनोभिः परिचिन्तितः जनमनःपरिचिन्तितः, जनमनःपरिचिन्तितश्चासावर्थश्चेति समासः, तं प्रकटयति-प्रकाशयति जनमनःपरिचिन्तितार्थप्रकटनम् । मानुषक्षेत्रम्-अर्द्धतृतीयद्वीपसमुद्रपरिमाणं तन्निबद्धम्, न तद्बहिर्व्यवस्थितप्राणिमनःपरिचिन्तितार्थविषयं प्रवर्तत इत्यर्थः। 5 गुणाः-क्षान्त्यादयः त एव प्रत्ययाः-कारणानि यस्य तद् गुणप्रत्ययम् । चारित्रमस्यास्तीति चारित्रवान् तस्य चारित्रवत एवेदं भवति । एतदुक्तं भवति-अप्रमत्तसंयतस्य आमोषध्यादिऋद्धिप्राप्तस्य चेति गाथार्थः ॥५५॥ “से तं मणपज्जवणाणं " तदेतन्मनःपर्यायज्ञानमिति ॥ ३४. से कि त केवलणाणं ? केवलणाणं दुविहं पण्णत्तं, तं जहा-भवत्थकेवलणाणं च सिद्धकेवलणाणं च । ३४. से किं तं केवलणाणं ? इत्यादि। अथ किं तत् केवलज्ञानम् ?, केवलज्ञानं द्विविधं प्रज्ञप्तम् , तद्यथाभवस्थकेवलज्ञानं च सिद्धकेवलज्ञानं च। भवन्त्यस्मिन् कर्मवशवर्तिनःप्राणिन इति भवः, भवो गतिर्जन्मेति पर्यायाः, भवे तिष्ठतीति भवस्थः, तस्य केवलज्ञानं भवस्थकेवलज्ञानम् । “षिधौ संराद्धौ" [पा. धातु. ११९२ ] "राध साध संसिद्धौ" [पा. धातु. १२६३-६४ ] "षिधू शास्त्रे माङ्गल्ये च" [पा. धातु. ४८] सिध्यति स्म सिद्धः, यो येन गुणेन निष्पन्नःपरिनिष्ठितः, न पुनः साधनीयः, सिद्धौदनवत् , स सिद्धः। स च कर्मसिद्धादिभेदादनेकविधः । उक्तं च- 15 कम्मे सिप्पे य विज्जा य मंते जोगे य आगमे । अत्थ जत्ता अभिप्पाए तवे कम्मक्खए इ य ॥१॥ [आव. नि. गा. ५२७] इह कर्मक्षयसिद्धनाधिकारः, स चाशेषकांशक्षयात् कर्मक्षयसिद्धः। सितध्वंसित्वाद्वा सिद्धः, “सि वर्णबन्धनयोः" [ ] इति । सितं-बद्धमष्टप्रकारं कर्म तद् ध्वंसितुं शीलमस्येति सितध्वंसी सिद्धः, तस्य केवलज्ञानं सिद्धकेवलज्ञानम् ॥ 20 ३५. से किं तं भवत्थकेवलणाणं ? भवत्थकेवलणाणं दुविहं पण्णत्तं, तं जहा-सजोगिभवत्थकेवलणाणं च अजोगिभवत्थकेवलनाणं च । ३५. से किं तमित्यादि । अथ किं तद् भवस्थकेवलज्ञानम् ?, भवस्थकेवलज्ञानं द्विविधं प्रज्ञप्तम् । तद्यथा-सयोगिभवस्थकेवलज्ञानं च अयोगिभवस्थकेवलज्ञानं च । इह युज्यन्त इति योगाः कायादयः, उक्तं च"काय-वाङ्-मनःकर्म योगः" [तत्वा. ६.१] । तत्रौदारिकादिशरीरयुक्तस्याऽऽत्मनो वीर्यपरिणतिविशेषः काय- 25 योगः । तथौदारिक-वैक्रिया-ऽऽहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याजीवव्यापारो वाग्योगः । तथौदारिकवैक्रिया-ऽऽहारकशरीरव्यापाराहृतमनोद्रव्यसम्रहसाचिव्याज्जीवव्यापारो मनोयोगः। तद यथासम्भवं योगोऽस्य विद्यत इति सयोगी, सयोगी चासौ भवस्थश्च सयोगिभवस्थः, तस्य केवलज्ञानं सयोगिभवस्थकेवलज्ञानम् । एवं न योगी अयोगी, स च भवस्थश्च तस्य केवलज्ञानं अयोगिभवस्थकेवलज्ञानम् , शैलेश्यवस्थागतस्येत्यर्थः ॥ ३६. से किं तं सजोगिभवत्थकेवलणाणं ? सजोगिभवत्थकेवलणाणं दुविहं पण्णत्तं, 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248