________________
____10
मनःपर्यवज्ञानं केवलज्ञानं तद्भेदाश्च ] श्रीदेववाचकविरचितं नन्दिसूत्रम् ।
___३३. मणपज्जव० गाहा । व्याख्या-मनःपर्यायज्ञानं प्राग्निरूपितशब्दार्थम् । पुनःशब्दो विशेषणार्थः । इदं हि रूपिनिबन्धन-क्षायोपशमिक-प्रत्यक्षादिसाम्येऽपि सत्यवधिज्ञानात् स्वाभ्यादिभेदेन विशिष्टमिति स्वरूपतः प्रतिपादयन्नाह-जायन्त इति जनाः, तेषां मनांसि जनमनांसि, जनमनोभिः परिचिन्तितः जनमनःपरिचिन्तितः, जनमनःपरिचिन्तितश्चासावर्थश्चेति समासः, तं प्रकटयति-प्रकाशयति जनमनःपरिचिन्तितार्थप्रकटनम् । मानुषक्षेत्रम्-अर्द्धतृतीयद्वीपसमुद्रपरिमाणं तन्निबद्धम्, न तद्बहिर्व्यवस्थितप्राणिमनःपरिचिन्तितार्थविषयं प्रवर्तत इत्यर्थः। 5 गुणाः-क्षान्त्यादयः त एव प्रत्ययाः-कारणानि यस्य तद् गुणप्रत्ययम् । चारित्रमस्यास्तीति चारित्रवान् तस्य चारित्रवत एवेदं भवति । एतदुक्तं भवति-अप्रमत्तसंयतस्य आमोषध्यादिऋद्धिप्राप्तस्य चेति गाथार्थः ॥५५॥
“से तं मणपज्जवणाणं " तदेतन्मनःपर्यायज्ञानमिति ॥
३४. से कि त केवलणाणं ? केवलणाणं दुविहं पण्णत्तं, तं जहा-भवत्थकेवलणाणं च सिद्धकेवलणाणं च ।
३४. से किं तं केवलणाणं ? इत्यादि। अथ किं तत् केवलज्ञानम् ?, केवलज्ञानं द्विविधं प्रज्ञप्तम् , तद्यथाभवस्थकेवलज्ञानं च सिद्धकेवलज्ञानं च। भवन्त्यस्मिन् कर्मवशवर्तिनःप्राणिन इति भवः, भवो गतिर्जन्मेति पर्यायाः, भवे तिष्ठतीति भवस्थः, तस्य केवलज्ञानं भवस्थकेवलज्ञानम् । “षिधौ संराद्धौ" [पा. धातु. ११९२ ] "राध साध संसिद्धौ" [पा. धातु. १२६३-६४ ] "षिधू शास्त्रे माङ्गल्ये च" [पा. धातु. ४८] सिध्यति स्म सिद्धः, यो येन गुणेन निष्पन्नःपरिनिष्ठितः, न पुनः साधनीयः, सिद्धौदनवत् , स सिद्धः। स च कर्मसिद्धादिभेदादनेकविधः । उक्तं च- 15 कम्मे सिप्पे य विज्जा य मंते जोगे य आगमे । अत्थ जत्ता अभिप्पाए तवे कम्मक्खए इ य ॥१॥
[आव. नि. गा. ५२७] इह कर्मक्षयसिद्धनाधिकारः, स चाशेषकांशक्षयात् कर्मक्षयसिद्धः। सितध्वंसित्वाद्वा सिद्धः, “सि वर्णबन्धनयोः" [ ] इति । सितं-बद्धमष्टप्रकारं कर्म तद् ध्वंसितुं शीलमस्येति सितध्वंसी सिद्धः, तस्य केवलज्ञानं सिद्धकेवलज्ञानम् ॥
20 ३५. से किं तं भवत्थकेवलणाणं ? भवत्थकेवलणाणं दुविहं पण्णत्तं, तं जहा-सजोगिभवत्थकेवलणाणं च अजोगिभवत्थकेवलनाणं च ।
३५. से किं तमित्यादि । अथ किं तद् भवस्थकेवलज्ञानम् ?, भवस्थकेवलज्ञानं द्विविधं प्रज्ञप्तम् । तद्यथा-सयोगिभवस्थकेवलज्ञानं च अयोगिभवस्थकेवलज्ञानं च । इह युज्यन्त इति योगाः कायादयः, उक्तं च"काय-वाङ्-मनःकर्म योगः" [तत्वा. ६.१] । तत्रौदारिकादिशरीरयुक्तस्याऽऽत्मनो वीर्यपरिणतिविशेषः काय- 25 योगः । तथौदारिक-वैक्रिया-ऽऽहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याजीवव्यापारो वाग्योगः । तथौदारिकवैक्रिया-ऽऽहारकशरीरव्यापाराहृतमनोद्रव्यसम्रहसाचिव्याज्जीवव्यापारो मनोयोगः। तद यथासम्भवं योगोऽस्य विद्यत इति सयोगी, सयोगी चासौ भवस्थश्च सयोगिभवस्थः, तस्य केवलज्ञानं सयोगिभवस्थकेवलज्ञानम् । एवं न योगी अयोगी, स च भवस्थश्च तस्य केवलज्ञानं अयोगिभवस्थकेवलज्ञानम् , शैलेश्यवस्थागतस्येत्यर्थः ॥
३६. से किं तं सजोगिभवत्थकेवलणाणं ? सजोगिभवत्थकेवलणाणं दुविहं पण्णत्तं, 30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org